Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्मिंश्चिन्तयत्येव तस्य प्राक्प्रेषितो निजो दूतः श्रीविक्रमधननृपपार्श्वत: समाययौ । राजवृत्तमाख्याय तूष्णीकः स दूत: सिंहनृपेण पृष्टः-'किं तत्राऽद्भुतमपश्य:' ? ततः स दूत उवाच-'तत्र विक्रमधननृपपुत्रस्य धनस्य रूपं सुराद्यसाधारणं मनोहरमपश्यम् । तद् दृष्ट्वैव चाऽचिन्तयं यदसौ धनवत्या अनुरूपो वरः, तदनयोः सङ्गमेन विधिविधानसाफल्यं स्यात्' । ततः प्रसन्नो राजा त्वं स्वयं मत्कार्यचिन्तको मम वरचिन्तामपहृत्योपकृतवानसि, तद् गच्छ, विक्रमधनं धनाय धनवतीदानाय मदाज्ञया प्रार्थयस्व । तदैव धनवत्यनुजा चन्द्रवती पितरं वन्दितुं तत्र गता तयोः सर्व वचोऽश्रौषीत् । दूतो निजगृहं जगाम । चन्द्रवत्यपि गृहमेत्य तद्भाग्य प्रशंसन्ती धनवत्यै सर्वं वृत्तान्तं शशंस ।। ___ तच्छ्रुत्वा धनवत्युवाच-नैतद्वचसा मम विश्वासः । अज्ञानेनैषा वदति न तु यथार्थबुद्ध्या । स दूतोऽन्येन कार्येण प्रेषितः स्यात् । इयं मुग्धभावाद् मत्कार्यमेव ज्ञातवती' । तदा कमलिन्युवाच'दूतस्तिष्ठत्येव, तत्तन्मुखादेव सर्वं बुध्यस्व' । एवमुक्त्वा तद्भावं विज्ञाय सा दूतमाहूतवती । ततः सर्वं वृत्तं श्रुत्वा च धनवती नितरां मुमुदे । तथा सा स्वयं पत्रं लिखित्वा धनस्येदं त्वयाऽर्पणीयमित्युक्त्वा दूतस्याऽर्पयामास । स दूतश्च शीघ्रमेवाऽचलपुरं प्राप्य सभामध्यस्थं विक्रमधननृपमुपतस्थे । तदा नृपः शङ्कित उवाच'किं सिंहनृपस्य कुशलं कच्चित् । पुनः शीघ्रमेव त्वदागमनाद् मन्मनः शङ्कते' । ततो दूत उवाच-'सर्वं कुशलं', सिंहनृपः पुनरिह मां प्रेषयामास । तत्र हेतुश्च तव पुत्राय धनाय स्वपुत्र्या धनवत्या दानम् । यथाऽयं धनकुमारो रूपवान् तथा सा धनवत्यपीति द्वयोः अष्टमं पर्व - प्रथमः सर्गः स्वर्ण-मण्योरिव योगोऽस्तु । पूर्वत एव प्रवृत्तो भवतोः स्नेहोऽनेन सम्बन्धेन दृढोऽस्तु' । ततो नृप आमित्युक्त्वा तं सत्कृत्य विससर्ज । स दूतश्च द्वारपालद्वारा निवेद्य धनसमीपं गतवान् । नत्वोपविश्य च धनवत्याऽर्पितं पत्रमार्पयत् । धनकुमारश्च कामाज्ञामिव तत्पत्रं वाचयामास-'कमलिनी शरहतुना यौवनेनेव विशेषशोभिता सूर्यकरग्रहं वाञ्छति' । ततो धनश्चिन्तयामास-'अस्याश्चाटूक्तिरद्भुता, इयं मय्यतिशयं स्नेहं सूचयति' । 'एवं विचार्य सोऽपि पत्रं लिखित्वा दूतस्य करे हारेण सह तदार्पयत् । इतश्च धनेन विसृष्टः शीघ्रमागत्य सिंहनृपं विक्रमधनस्तव प्रार्थनां स्वीकृतवानित्यवोचत् । धनवत्यै च हारं पत्रं च प्रदाय धनेन स्वहस्तेनाऽर्पिताविमावित्युवाच । धनवती च हारं पत्रं च गृहीत्वा पत्रं वाचयामास-'सूर्यः पद्मिनीकरपीडनात् यत् प्रमोदं याति स स्वाभाविक एव, न तत्र प्रार्थनाया: प्रयोजनम्' । तदेवं वाचयित्वा प्रमुदिता सरोमाञ्चा धनवती दध्यौ-'स मम भावमज्ञासीदित्यनेन श्लोकेन ज्ञायते । हारप्रदानेन च ममाऽऽलिङ्गनमेव स्वीकृतं तेन' । एवं विमृश्य हारं स्वकण्ठे निधाय पारितोषिकं दत्त्वा दूतं विसृष्टवती । राजा च शुभे दिने वृद्धसचिवैः सहितां तां परमद्धर्याऽचलपुरं प्रेषयामास । यान्तीं च तां माताऽऽशीर्वचनमुदाजहार । पत्याद्यनुरक्ता स्या इत्याद्यनुशिष्य च पुन: पुनरालिङ्गय साश्रुमुखी तां कथञ्चिद् व्यसृजत् । धनवत्यपि मातरं नत्वा शिबिकामारुह्य चलिता पौरैः साश्चर्यं दृश्यमानाऽचलपुरं प्राप्य बहिरुद्याने शिबिरं निवेश्य स्थितवती । शुभे दिने च समहोत्सवं तस्या विवाहोऽभूत् । धनश्च नवयुवा तया नवोढया नवजलधरो विद्युतेव शुशुभे । तया सह रत्या

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 159