Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ १४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बभूव । चित्रगतेर्जीवश्च च्युत्वा महास्वप्नसूचितस्तस्याः कुक्षाववततार । पूर्णे समये च प्रियदर्शना सुरूपं पुत्रं सुषुवे । महीपतिस्तस्य समहोत्सवमपराजित इति नाम चक्रे । स धात्रीभिलाल्यमानः क्रमेण वर्धमानः सर्वाः कलाः प्राप्य यौवनं प्रपन्नवान् । तस्य चाऽमात्यपुत्रो विमलबोधो नाम वयस्यः सहाध्यायी बभूव । तौ चैकदा हयारूढौ रममाणौ पुराद् बहिर्जग्मतुः । अश्वाभ्यां च दुविनीताभ्यां हृत्वा दूरे महारण्ये नीतौ । तत्राऽश्वयोः श्रान्तयोवृक्षमूलेऽवतीर्याऽपराजितो विमलबोधमुवाच-'अश्वाभ्यां दिष्ट्या हृतावावामनेकाश्चर्यपूर्णेयं मही दृष्टा' । अत्रान्तर एव च रक्ष रक्षेति वदन् कोऽपि पुरुषस्तत्राऽऽजगाम । तं च भीतं शरणागतं मा भैषीरिति कुमारो जगाद । ततो मन्त्रिपुत्र उवाच-'नेदं साधुकृतं, यद् एषोऽन्यायी स्यात् तदा शोभनं न भवेत्' । ततोऽपराजित उवाच-'शरणागतः कोऽपि वा भवतु, स त्रातव्य इति क्षत्रियधर्मः' एवं कुमारे वदत्येव हत हतेति वादिनः कृष्टखड्गा आरक्षपुरुषास्तत्राऽऽगताः । ते च 'यवां दरमपयातम, एष चौरः, एनं हनिष्यामी'ति दूरतोऽप्यूचुः । ततः कुमारः स्मित्वाऽऽह'मां शरणमुपागतोऽयं मयाऽवश्यं रक्षणीयः' । ततः क्रुद्धा आरक्षा यावत् प्रहारं चक्रुस्तावदेव कुमारः कृष्टासिस्तान् जघान । ते च नंष्ट्वा स्वस्वामिने कोशलराजाय सर्वं वृत्तं शशंसुः । राजाऽपि चौररक्षिणो वधाय सैन्यं प्रेषयामास । अपराजितेन सैन्ये पराजिते च स्वयं नृपः सैन्यैः परिवृतः समागात् । ततोऽपराजितश्चौरं मन्त्रिपुत्राय समर्प्य युधि तत्पर एकस्य दन्ते पदं न्यस्य तत्कुम्भमारुह्य निषादिनं हत्वा तद्गजारूढ एव युयुधे । केनचिद् मन्त्रिणोपलक्ष्य च स नृपाय कथितः । अष्टमं पर्व - प्रथमः सर्गः तत: कोसलेश्वरः सैन्यान् युद्धाद् निषिध्याऽपराजितं 'त्वं मन्मित्रस्य हरिणन्दिनः पुत्रोऽसि, दिष्टयेहाऽऽयातोऽसीत्युक्त्वाऽऽलिलिङ्ग । तथा तं लज्जानम्रमुखं स्वगजे समारोप्य स्वपुत्रमिव निजगृहं निनाय, मन्त्रिपुत्रश्चाऽपि तस्करं विसृज्याऽपराजितमन्वाययौ । उभौ च कोसलेशगृहे सुखं तस्थतुः । कोसलेशश्च कनकमालाख्यां स्वां पुत्रीमपराजिताय सानन्दं ददौ । तत्र कतिचिद्दिनानि स्थित्वा चाऽन्यदा समित्रोऽपराजितो गतिविघ्नो मा भूदिति रात्रौ पुर्या निर्ययौ । व्रजंश्च कालिकादेव्यायतनसमीपे 'हा निर्वीरोर्वो जातेति निशि रुदितं शुश्राव । दयालुः स काऽप्येषा स्त्री रोदितीति निश्चित्य रुदितशब्दमनुसरन् ज्वलिताग्निसमीपे स्थितामेकां स्त्रियं कृष्टखड्गं पुरुषं च ददर्श । कोऽप्यस्माद् विद्याधराद् मां पात्विति पुन: सा रुरोद । ततः कुमारस्तमाक्षिपत्-'रे ! रणायोत्तिष्ठ, अबलायां किमेतत् ते पौरुषम् ?' ततः क्रुद्धः स खेचर: कुमारमाक्षिपन् युद्धायोदतिष्ठत् । तौ खड्गाखड्गि युध्यमानावन्योन्यं प्रहारं वञ्चयमानौ चिरमयुध्येताम् । बाहुयुद्धेऽप्यपराजेयमपराजितं मत्वा स नागपाशेन तं बन्ध । कुमारश्च क्रुद्धस्तं नागपाशं बिभेद । ततोऽतिक्रुद्धो विद्याधरो विद्याप्रभावतो विविधैरस्त्रैः कुमारं प्राहरत् । किन्तु पुराकृतसुकृतप्रभावाच्छरीरसामर्थ्याच्च कुमारे मनागपि प्रहारा: सफला न जाताः। अत्राऽन्तरे च सूर्य उदितेऽपराजितः खड्गेन खेचरं मूनि जघान । तेन मूच्छितश्च खेचरो भुवि पपात । सा स्त्री चाऽपराजितं दृष्ट्वा कामार्ता जाता । कुमारश्चोपचारैः खेचरं लब्धसंज्ञं विधाय भूयो रणायाऽऽह्वास्त ।


Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159