Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ ८६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्तस्याः पतिवियोगादिकं सर्वं वृत्तमाख्यातवान् । ततो दुःखितः स श्रावक:-'मा शोची:, कर्मफलं दुःखम्, अत्र सुखमास्स्वे'त्यवदत् । प्रातश्च सार्थवाहोऽचलपुरं प्राप्य तत्र दवदन्तीं मुक्त्वाऽन्यत्र जगाम । अथ तत्र तृषार्ता दवदन्ती नगरद्वारवाप्यां प्रविष्टा वामचरणे गोधया गृहीता जलहारिणीभिर्ददृशे । नमस्कारमन्त्रपाठप्रभावेण तया मुक्ता च वारि पीत्वा वाप्या निर्गत्य भीता तत्तटे उपविष्टा । तत्र च पुरे ऋतुपर्णो नाम नृपोऽभवत् । तस्य पत्नी च चन्द्रयशाः । तस्या दास्यश्च तत्र जलमाहर्तुमागता दुर्दशां प्राप्तां देवीमिव तां भैमी ददृशुः । ततो विस्मिता गत्वा चन्द्रयशसे कथयामासुः । तच्छृत्वा चन्द्रयशा उवाच-'तां द्रुतं समानयत, सा मत्पुत्र्याश्चन्द्रवत्या भगिनीवेह भविष्यति' । ताश्च सत्वरं तत्राऽऽगत्य तां लक्ष्मीमिव पुराभिमुखं स्थितां ददृशुः । 'ऋतुपर्णनृपस्य महिषी चन्द्रयशास्त्वां सगौरवमाह्वयति, त्वं चन्द्रवती पुत्रीव मे इति कथयति च, तदेहि, दुःखं त्यज, अन्यथाऽत्र स्थिता व्यन्तरादिभिराविष्टाऽनर्थमाप्स्यसी'त्यवोचन् ताः । ततो दवदन्ती तद्वचसा स्निग्धहृदया ततश्चलिता स्वामिनीव ताभिरुपचर्यमाणा नृपगृहं प्राप्ता । किन्तु स्वमातुः पुष्पदन्त्याः सहोदरा चन्द्रयशा मातृष्वसैवेति सा न विवेद । चन्द्रयशाश्च दवदन्ती मम जामेयीति जानानाऽपि बाल्ये दृष्टत्वात् तां नोपालक्षयत् । तथाऽपि दूरादेव प्रणमन्तीं तां पुत्रीप्रेम्णा ददर्श । चन्द्रयशसा काऽसि त्वमिति पृष्टा च सार्थवाहवत सर्व कथयामास । ततश्चान्द्रयशास्तामुवाच-'मद्गृहे चन्द्रवतीव सुखं तिष्ठ' । अन्यदा च चन्द्रयशाश्चन्द्रवतीं स्वसुतामुवाच-'इयं तव स्वसा मद्भगिन्या दवदन्त्याः सदृशी । किन्तु सोऽस्माकमपि स्वामी अष्टमं पर्व - तृतीयः सर्गः नलस्तस्य सा पत्नीति तस्या अत्राऽऽगमनं न सम्भाव्यते । यतस्तस्या नगरीतो योजनानां सचतुश्चत्वारिंशतिशते' । सा च चन्द्रयशाः प्रतिदिनं नगराद् बहिर्दीना-ऽनाथादिभ्यो यथेष्टं दानं ददौ । तां च वैदर्युवाच-'अत्राऽहं दानं ददामि, कदाचिद् मे पतिर्याचकवेषो-ऽत्राऽऽगच्छेत्' । ततस्तयाऽऽज्ञाता सा पत्याशया यथास्थिति दानं ददौ । तथा प्रतिदिनं प्रत्येकं याचकान् 'युष्माभिरीदृग्रूपः कोऽपि पुमान् दृष्ट' इत्यपृच्छत् । ___ एकदा च सा दानशालास्थिताऽऽरक्षैर्बद्धाऽग्रे डिण्डिमवादनेन नीयमानं चौरं ददर्श । ततः सा भैमी भटानपृच्छत्-'किमनेनाऽपराद्धं येनाऽस्येदृशी दशा ?' ततस्ते ऊचुः-'अनेन चन्द्रवत्या राजपुत्र्या रत्नकरण्डकं हृतम् । तेनाऽसावित्थं वधस्थाने नीयते' । चौरश्च नत्वा दवदन्तीमुवाच-'त्वया दृष्टस्य मम मरणमयुक्तं, मम शरणं भव' । ततो भैमी चौरमुवाच-'मा भैषीः, तव जीवने न संशयः' । तमेवमुक्त्वा सा 'यद्यहं सत्यस्मि तद्यस्य बन्धनानि भिद्यन्तामि'त्येवं सतीत्वश्रावणां कृत्वा भङ्गारजलैर्जलैश्चौरं त्रि: सिषेच । तेन च तद्बन्धनानि विशीर्णानि । ततस्तत्र कलकले जाते किमेतदिति कौतुकाद् ऋतुपर्णः सपरिच्छदस्तत्राऽऽगत्य विस्मितो दवदन्तीमवाच-'पत्रि ! चौरनिग्रहो राजधर्मः, अन्यथा धर्मलोप: स्यात्, लोकश्च निर्भयः परस्वमपहरेत्' । ततो वैदर्युवाच-'अहं श्राविका दयाधर्मप्रधाना, मयि पश्यन्त्यां कस्याऽपि मारणं मम दुःसहम् । तदस्याऽपराधः क्षम्यताम्, अयं मम शरणागतः । तत ऋतुपर्णस्तं महासत्या दवदन्त्या धर्मपुत्र एष इति कृत्वा मुमोच । स चौरश्च मुक्तो भैमीं मातेति जल्पन् ननाम ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159