________________
८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्तस्याः पतिवियोगादिकं सर्वं वृत्तमाख्यातवान् । ततो दुःखितः स श्रावक:-'मा शोची:, कर्मफलं दुःखम्, अत्र सुखमास्स्वे'त्यवदत् । प्रातश्च सार्थवाहोऽचलपुरं प्राप्य तत्र दवदन्तीं मुक्त्वाऽन्यत्र जगाम ।
अथ तत्र तृषार्ता दवदन्ती नगरद्वारवाप्यां प्रविष्टा वामचरणे गोधया गृहीता जलहारिणीभिर्ददृशे । नमस्कारमन्त्रपाठप्रभावेण तया मुक्ता च वारि पीत्वा वाप्या निर्गत्य भीता तत्तटे उपविष्टा । तत्र च पुरे ऋतुपर्णो नाम नृपोऽभवत् । तस्य पत्नी च चन्द्रयशाः । तस्या दास्यश्च तत्र जलमाहर्तुमागता दुर्दशां प्राप्तां देवीमिव तां भैमी ददृशुः । ततो विस्मिता गत्वा चन्द्रयशसे कथयामासुः । तच्छृत्वा चन्द्रयशा उवाच-'तां द्रुतं समानयत, सा मत्पुत्र्याश्चन्द्रवत्या भगिनीवेह भविष्यति' । ताश्च सत्वरं तत्राऽऽगत्य तां लक्ष्मीमिव पुराभिमुखं स्थितां ददृशुः । 'ऋतुपर्णनृपस्य महिषी चन्द्रयशास्त्वां सगौरवमाह्वयति, त्वं चन्द्रवती पुत्रीव मे इति कथयति च, तदेहि, दुःखं त्यज, अन्यथाऽत्र स्थिता व्यन्तरादिभिराविष्टाऽनर्थमाप्स्यसी'त्यवोचन् ताः ।
ततो दवदन्ती तद्वचसा स्निग्धहृदया ततश्चलिता स्वामिनीव ताभिरुपचर्यमाणा नृपगृहं प्राप्ता । किन्तु स्वमातुः पुष्पदन्त्याः सहोदरा चन्द्रयशा मातृष्वसैवेति सा न विवेद । चन्द्रयशाश्च दवदन्ती मम जामेयीति जानानाऽपि बाल्ये दृष्टत्वात् तां नोपालक्षयत् । तथाऽपि दूरादेव प्रणमन्तीं तां पुत्रीप्रेम्णा ददर्श । चन्द्रयशसा काऽसि त्वमिति पृष्टा च सार्थवाहवत सर्व कथयामास । ततश्चान्द्रयशास्तामुवाच-'मद्गृहे चन्द्रवतीव सुखं तिष्ठ' ।
अन्यदा च चन्द्रयशाश्चन्द्रवतीं स्वसुतामुवाच-'इयं तव स्वसा मद्भगिन्या दवदन्त्याः सदृशी । किन्तु सोऽस्माकमपि स्वामी
अष्टमं पर्व - तृतीयः सर्गः नलस्तस्य सा पत्नीति तस्या अत्राऽऽगमनं न सम्भाव्यते । यतस्तस्या नगरीतो योजनानां सचतुश्चत्वारिंशतिशते' । सा च चन्द्रयशाः प्रतिदिनं नगराद् बहिर्दीना-ऽनाथादिभ्यो यथेष्टं दानं ददौ । तां च वैदर्युवाच-'अत्राऽहं दानं ददामि, कदाचिद् मे पतिर्याचकवेषो-ऽत्राऽऽगच्छेत्' । ततस्तयाऽऽज्ञाता सा पत्याशया यथास्थिति दानं ददौ । तथा प्रतिदिनं प्रत्येकं याचकान् 'युष्माभिरीदृग्रूपः कोऽपि पुमान् दृष्ट' इत्यपृच्छत् । ___ एकदा च सा दानशालास्थिताऽऽरक्षैर्बद्धाऽग्रे डिण्डिमवादनेन नीयमानं चौरं ददर्श । ततः सा भैमी भटानपृच्छत्-'किमनेनाऽपराद्धं येनाऽस्येदृशी दशा ?' ततस्ते ऊचुः-'अनेन चन्द्रवत्या राजपुत्र्या रत्नकरण्डकं हृतम् । तेनाऽसावित्थं वधस्थाने नीयते' । चौरश्च नत्वा दवदन्तीमुवाच-'त्वया दृष्टस्य मम मरणमयुक्तं, मम शरणं भव' । ततो भैमी चौरमुवाच-'मा भैषीः, तव जीवने न संशयः' । तमेवमुक्त्वा सा 'यद्यहं सत्यस्मि तद्यस्य बन्धनानि भिद्यन्तामि'त्येवं सतीत्वश्रावणां कृत्वा भङ्गारजलैर्जलैश्चौरं त्रि: सिषेच । तेन च तद्बन्धनानि विशीर्णानि ।
ततस्तत्र कलकले जाते किमेतदिति कौतुकाद् ऋतुपर्णः सपरिच्छदस्तत्राऽऽगत्य विस्मितो दवदन्तीमवाच-'पत्रि ! चौरनिग्रहो राजधर्मः, अन्यथा धर्मलोप: स्यात्, लोकश्च निर्भयः परस्वमपहरेत्' । ततो वैदर्युवाच-'अहं श्राविका दयाधर्मप्रधाना, मयि पश्यन्त्यां कस्याऽपि मारणं मम दुःसहम् । तदस्याऽपराधः क्षम्यताम्, अयं मम शरणागतः । तत ऋतुपर्णस्तं महासत्या दवदन्त्या धर्मपुत्र एष इति कृत्वा मुमोच । स चौरश्च मुक्तो भैमीं मातेति जल्पन् ननाम ।