________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
गृहीतवान्, दवदन्त्यपि तन्मुनेर्व्रतमयाचत । ततो नलेन सह तव भोगकालोऽवशिष्यते इति नाऽधुना व्रतयोग्याऽसीति तां निषिध्य प्रभाते स सूरिः पर्वतादुत्तीर्य तापसपुरं गत्वा चैत्यं वन्दित्वा पौरा धर्ममुपादिशत् ।
८४
अथ दवदन्ती मलिनाऽङ्गवस्त्रा धर्मध्यानलीना तत्र गिरि - कन्दरायां सप्ताब्दीमवसत् । तत्र चैकः पथिको दवदन्तीमवोचत्'अमुकप्रदेशेऽद्य तव पतिर्मया दृष्टः । दवदन्ती च हर्षावेशात् तच्छब्दमनुधावितवती । स पथिकच तां गुहाया निःसार्य क्वाऽप्यन्तर्हितवान् । दवदन्ती च तमदृष्टवती, गुहां चाऽत्यजदित्युभयतो भ्रष्टा जाता । ततः सा महारण्ये भ्राम्यन्ती पदे पदे स्खलन्ती रुदती विलपन्ती किं करोमि, क्व गच्छामीति ध्यायन्ती तां गुहां प्रत्येव चलितवती । सा चैकया राक्षस्या दृष्टा, 'त्वां भक्षयिष्यामी' त्युक्ता च ।
ततो दवदन्त्यूचे- 'यदि मम नल एव प्रीतिस्तर्हि तत्प्रभावात् त्वमपूर्णेच्छा भव' । तच्छ्रुत्वा च सा राक्षसी निवृत्तभक्षणेच्छा सामान्यनारीयमिति तां प्रणम्य सहसैवाऽन्तर्दधौ । ततोऽग्रे गच्छन्ती दवदन्ती निर्जलामेकां नदीं दृष्ट्वा तृषार्त्ताऽवदत्- 'यद्यहं सम्यक्त्ववती तदाऽत्र गङ्गायामिव निर्मलं जलमस्तु' । एवमुक्त्वा सा पाणिना महीं प्रजहार । तेन च नदी सद्य एव जलपूर्णा जाता । तत् पीत्वा चाऽग्रे गच्छन्ती श्रान्ता वटतरोरधस्तादुपाविशत् ।
ततः सार्थादागताः पथिकास्तां तथाविधां दृष्ट्वा काऽसि त्वमिति पप्रच्छुः । अहं सार्थभ्रष्टा वने वसामि, तापसपुरं जिगमिषामि, मां मार्ग दर्शयेति सोदतरत् । ततस्ते ऊचुः - इतः
अष्टमं पर्व तृतीयः सर्गः
पश्चिमां दिशं गच्छ, वयं त्वरिताः स्मः तेन मार्गदर्शनं कर्तुं न समर्थाः । इतो जलमादाय सार्थं यास्यामः, तत्र यदि गच्छसि तर्ह्यागच्छ' । ततः सा तैः सह सार्थं प्राप । धनदेवश्च सार्थेशः काऽसि, कुतोऽत्र प्राप्ताऽसीति पप्रच्छ । ततो दवदन्त्यूचे- 'अहं वणिक्पुत्र्यस्मि, भर्त्रा सह पितुर्गृहं प्रस्थिता रात्रौ तेन त्यक्ता त्वदीयैः पुरुषैरिहाऽऽनीता । तन्मां क्वाऽपि वसतौ नय' ।
ततः सार्थेशो जगाद - 'अहमचलपुरं गच्छामि, त्वमप्यागच्छ, अक्लेशेन त्वां तत्र नयामि' । एवमुक्त्वा स तां सुतामिवोत्तमयाने समारोप्य प्रस्थितवान् । मार्गे च पर्वतनिकुञ्जे सार्थमावासयामास । दवदन्ती च रात्रौ सुखं शयाना सार्थे स्थितेन केनचिद् गीयमानं नमस्कारमन्त्रमशृणोत् । ततः साऽमुं साधर्मिकं द्रष्टुमिच्छामीति सार्थेशमुवाच । सार्थवाहश्च तामादाय तस्य नमस्कारपाठकस्याऽऽवासं ययौ । तं च चैत्यवन्दनां कुर्वन्तं पटगृहस्थं श्रावकं दृष्ट्वा तेन वन्द्यमानमार्हतं श्यामच्छविं बिम्बं नत्वा चैत्यवन्दनान्ते तं पप्रच्छ- 'कस्याऽर्हत इदं बिम्बम् ?' ततः श्रावक उवाच- 'इदं भविष्यत एकोनविंशस्य मल्लिजिनस्य बिम्बम् । एतद्विम्बपूजने कारणं श्रृणु ।
अहं काञ्चीपुरवास्तव्यो वणिगस्मि । तत्र चैकदा धर्मगुप्तो मुनिराययौ । रतिवल्लभोद्याने समवसृतं तं मुनिं वन्दित्वाऽहमपृच्छम् - 'मम क्व तीर्थे मोक्षः। ततः स आह- 'मल्लिजिनतीर्थे स्वर्गाच्च्युत्वा त्वं मिथिलेशः प्रसन्नचन्द्रो नाम नृपो भविष्यसि । तत्र च मल्लिजिनदर्शनं प्राप्योत्पन्नकेवलः परमं परमेष्यसि । तत्प्रभृत्यहं पटे तद्विम्बं लिखित्वा भक्त्या पूजयामि । एवं स्व वृत्तान्तमाख्याय स श्रावकस्तां पप्रच्छ त्वं काऽसि। ततो धनदेव