________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
श्रुतिप्रियं सद्धर्ममाख्याय स मुनिः संशयच्छेदाय कुलपतिमब्रबीत्- 'दवदन्त्या तव यो धर्म आख्यातः स तथैव । इयमाजन्माऽर्हत्परायणा नाऽन्यथा भाषते । अस्याः प्रभावश्च वृष्टे रक्षणरूपो रेखाकुण्डे धृतेन त्वयाऽनुभूत एव । सतीत्वप्रभावाच्चाऽस्याः सदैव देवताः सन्निहिता भवन्ति । तेनेयं वनेऽपि सुखमास्ते । अनया हुङ्कारमात्रेण चौरेभ्यः सार्थो रक्षितः ' ।
८२
अथ तदानीमेव कोऽपि देवस्तत्र समागत्य केवलिनं नत्वा दवदन्तीमुवाच- 'भद्रे ! अत्र तपोवने कुलपतेः शिष्योऽहं कर्परो नाम तेजस्व्यभवम् । पञ्चाग्निप्रभृतितपः परायणमपि मां तापसा नाऽपूजयन् वचसा वाऽपि नाऽभ्यनन्दन् । ततोऽभिमानेनाऽहं तत् तपोवनं विहाय क्रोधादन्यत्राऽगाम् । गाढान्धकारे गच्छंध पर्वतकन्दरायां पतितः । शिलाखण्डाघाताद् मे सर्वे दन्तास्त्रुटिताः । दन्तपातव्यथार्त्तश्च तथैव तत्र सप्तरात्रमस्थाम् । तापसाश्च ममाऽन्वेषणमपि न चक्रुः । तेन च तेषु मम महान् क्रोध उदभूत् । रौद्रध्यानार्त्तश्च मृतोऽत्रैव तापसवने महाविषधरोऽभवम् ।
एकदा च त्वद्दशनाय धावमानोऽहं त्वत्पठितनमस्कारमन्त्रेण रुद्धगतिरेकस्मिन् बिले प्राविशम् । तत्र च नष्टशक्तिः कथमपि भेकादीन् जीवान् भक्षयन्नजीवम् । अन्यदा च मेघे वर्षति तापसानां त्वया कथ्यमानं धर्ममश्रौषम् । तच्छ्रुत्वाऽहमचिन्तयम्- 'सर्वदा जीवहिंसापरस्य पापात्मनः सर्पस्य मम का गतिः । तथा क्वेमे तापसा मया दष्टा इत्यचिन्तयम् । तदा चोत्पन्नजातिस्मृत्या पूर्वं भवं ज्ञात्वोत्पन्नवैराग्योऽनशनमकार्षम् । तेन च विपद्य सौधर्मे देवोऽभूवम् । सोऽहं कुसुमसमृद्धे विमाने कुसुमप्रभो नाम
अष्टमं पर्व तृतीयः सर्गः
देवस्त्वत्प्रसादात् स्वर्गसुखं भुञ्जानस्तिष्ठामि । त्वत्कथितधर्मश्रवणस्यैवैतत् फलं मम । अन्यथा ममैषा गतिः कुतः ? अवधिज्ञानाच त्वामुपकारिणीं विज्ञाय द्रष्टुमागतोऽस्मि । अतः परं तवाऽहं धर्मपुत्रः' ।
एवं दवदन्त्याः स्वं ज्ञापयित्वा स देवस्तापसानुवाच- 'भो तापसाः ! पूर्वभवे मम तत्कोपाचरणं क्षमस्व, प्रपन्नं श्रावकत्वं पालयत च' । एवमुक्त्वा स देवस्तस्य सर्पस्य शरीरं गिरिगुहात उद्धृत्य नन्दिवृक्षे लम्बयित्वोवाच- 'यः कोऽपि कोपं करोति स पूर्वमहमिव सर्पो भवेत्' । तदा कुलपतिः कर्मलाघवात् परमं वैराग्यं प्राप्य केवलिनं नत्वा दीक्षां ययाचे । ततः केवल्युवाच - 'असौ मम गुरुर्यशोभद्रसूरिस्तव व्रतं दास्यति' । ततो विस्मितः कुलपतिः कथं प्रव्रज्यां गृहीतवानसीति केवलिनं पप्रच्छ ।
ततः केवली पुनरुवाच- 'कोशलायां पुरि नलनृपस्याऽनुजः कूबरो राज्यं कुरुते, तस्याऽहं पुत्रः । सङ्गापुरेशश्च केसरी नृपः स्वकन्यां बन्धुमतीं मह्यं ददौ । पित्राज्ञया तत्र गत्वा तां परिणीयाssदाय च स्वपुरीं प्रति प्रचलितेन मया मार्गेऽयं गुरुरनेकशिष्यपरिवृत्तः समवसृतो दृष्टः । परया भक्त्या वन्दित्वा च मयाऽस्य धर्मदेशना श्रुता । देशनान्ते कियदायुर्ममेति मया पृष्टश्च मुनिरयं पञ्चदिवसा इत्यवोचत् । ततोऽहमासन्नं मरणं ज्ञात्वाऽत्यन्तं भीतः । मुनिश्च मां मा भैषीरित्याश्वासयन् दीक्षां ग्रहीतुमुपादिशत् । ततः प्रव्रज्याऽहमत्राऽऽगतः शुक्लध्यानस्थः केवलं प्राप्तवानस्मि' । एवमुक्त्वा च स सिंहकेसरिमुनिर्योगान् निरुध्य कर्म क्षपयित्वा परमं पदं प्राप । देवाश्च तच्छरीरं पुण्यक्षेत्रे नीत्वा यथाविध्यग्निसात् कृतवन्तः । स विमलमतिः कुलपतिश्च श्रीयशोभद्रसूरेः प्रव्रज्यां