________________
८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रवासदिवसाद् द्वादशे वर्षे पूर्णे पितृगृहे स्थितायास्तव स्वयमेवाऽऽगतो नलो मिलिष्यति, सम्प्रति धैर्यमाधेहि । तथा यदि त्वमनुमन्यसे तदा त्वां क्षणादेव पितृगृहं नयामि' । ततो दवदन्त्युवाच'तव नलसङ्गमकथनादेव कृतार्थाऽस्मि । परपुरुषेण सहाऽहं गन्तुं नेच्छामि, तुभ्यं स्वस्त्यस्तु, यथेष्टं व्रज' । ततः स राक्षसस्तेजोमयं निजं रूपं दर्शयित्वा नभस्युत्पपात ।
अथ दवदन्ती पत्युादशवार्षिकं प्रवासं विज्ञायाऽभिग्रहांश्चकार-'यावद् नलो न मिलति तावद् रक्तवस्त्राणि, ताम्बूलं, भूषणानि, विलेपनं, विकारांश्च नाऽऽदास्ये' इति । तथा सा पर्वतस्य कन्दरां प्राप्य वर्षर्तुमतिवाहितुं तत्रैव न्यवसत् । तत्र च शान्तिजिनस्य स्वयं मृण्मयं बिम्ब रचयित्वा कन्दराकोणे प्रतिष्ठापयामास । स्वयं पतितानि पुष्पाणि चाऽऽनीय त्रिसन्ध्यं तद्विम्बं पूजयामास । चतुर्थादितपसः पारणं च प्रासुकैर्बीजरहितैः फलैश्चकार । __ अथ सार्थवाहो दवदन्तीं सार्थमध्येऽपश्यन् तस्याः कुशलं चिन्तयननुपदं जगाम । तद्गुहां प्राप्य च जिनबिम्बपूजालीनां दवदन्तीं सकुशलां दृष्ट्वा प्रसन्नसार्थवाहस्तां नत्वा विस्मितो भूमावुपाविशत् । दवदन्ती च पूजां समाप्य स्वागतवचनादिभिस्तेन सह वार्तालापं व्यधात् । तत्र च समीपवासिनस्तापसास्तत्र तच्छब्दमाकर्ण्य शीघ्रमाययुः । मेघश्च धारासारं वषितुं प्रारब्धवान् । ततो जलधाराभिस्ताड्यमानास्ते क्व गच्छामो यत्र जलात् त्राणं भवेदित्यूचुः ।
ततस्तान् भीतान् दृष्ट्वा मा भैष्टेति तानाश्वास्य तेषां परिवेषे कुण्डं कृत्वोवाच-'यद्यहं जिनभक्ता शुद्धमनाः सत्यस्मि तर्हि मेघः
अष्टमं पर्व - तृतीयः सर्गः कुण्डादन्यत्र वर्षतु' । ततस्तदैव वृष्टिश्छत्रेण निवारितेव तत्कुण्डे न पपात । तद् दृष्ट्वा च सर्वे चिन्तयामासुः-'इयं मानुषीरूपेण काऽपि देवता' ।
ततः सार्थवाहस्तां पप्रच्छ-'भद्रे ! त्वया कोऽयं देवः पूज्यते?' ततो दवदन्त्युवाच-'अर्हन्तं देवं पूजयामि, एतत्प्रभावादेव निर्भया तिष्ठाम्यत्र' । एवमुक्त्वा सा वसन्ताख्याय तस्मै सार्थवाहायाऽऽर्हतमहिंसादिकं धर्ममचीकथत् । वसन्तश्च तथाख्यातं तं धर्म प्रतिपद्य दिष्ट्या धर्मकामधेनुर्मया प्राप्तेत्यवदत् । तत्रस्थास्तापसा अपि च तं धर्म स्वीचक्रुः । वसन्तसार्थवाहश्च तत्रैव महेभ्यैरशून्यं पुरमवासयत् । तत्र तापसानां पञ्चशती प्रतिबोधं प्राप्तेति सा तापसपुरीति ख्याता । तथा स सार्थवाहस्तत्र शान्तिजिनचैत्यं निर्मापयामास । तैस्तापसैः सह ससार्थवाहाः सर्वे जना अर्हधर्मलीनास्तत्र समयं गमयामासुः । ___अन्यदा च दवदन्ती पर्वतशिखरे निशीथे महान्तमुद्योतं देवानसुरान् खेचरांश्च ददर्श । तेषां जयजयारावेण विनिद्राः सर्वे जनाः सविस्मयं तद् ददृशुः । ततो दवदन्ती तैस्तापसप्रभृतिभिः सह तं गिरिमारुरोह । तत्र च सिंहकेसरिणो मुनेः प्राप्तकेवलस्य तैर्देवादिभिः केवलमहिमानं प्रारब्धं ददृशुः । ततस्ते तं मुनि वन्दित्वा तत्र यथास्थानमुपाविशन् । तस्य मुनेगुरुयशोभद्रसूरिश्च तदा तत्राऽऽगतस्तं केवलिनं ज्ञात्वा वन्दित्वाऽग्रे उपाविशत् । सिंहकेसरी मुनिश्च धर्मदेशनां विदधे
'भवे भ्राम्यतां देहिनां मानुष्यमतिदुर्लभम् । तल्लब्ध्वा सफलं कार्यम् । तत्फलं जीवदयाप्रधानो मुक्तिप्रदो जैनो धर्मः' । एवं