________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
शिरसाऽऽदाय स्वयं गत्वा स्वजनगृहे निवत्स्यति । एवं निश्चित्य तां रात्रिमतिवाह्य नलो दवदन्त्या जागरणसमये तिरोदधौ ।
७८
अथ दवदन्ती निशाशेषे स्वप्नं दृष्टवती 'यदहं पत्र-पुष्पफलादिमनोहरमाम्रवृक्षमारुह्य भ्रमरगुञ्जनं श्रृण्वती तत्फलं भक्षितवती । अकस्माच्च वन्यगजेन स वृक्ष उन्मूलितः । तेन चाऽहं भूमौ पतिता' । एवं स्वप्नं दृष्ट्वा प्रबुद्धा सा नलमपश्यन्ती सर्वतो विलोकयामास । स्वमनसि दध्यौ च- 'ममाऽत्यहितमापतितं यदशरण्यारण्ये पत्या मुक्ता । अथवा मुखक्षालनाद्यर्थं नलो गतो भवेत्' । एवं बहुशो विकल्पान् कुर्वती सा स्वप्नं स्मृत्वा नलेन त्यक्ताऽस्मीति निश्चितवती । ततो धैर्यमाधाय विलपन्ती सा कुत्राऽपि शान्तिमप्राप्नुवती वने भ्रमन्ती वस्त्राञ्चले तान्यक्षराणि दृष्ट्वा हृष्टा वाचयामास । वाचयित्वा च सा दध्यौ - 'नूनमहं तस्य प्रिया । कथमन्यथैवमादिशेत् । तत्पत्युरादेशं करोमि, पितुर्गृहं व्रजामि । पत्या सहाऽपि तत्रैव जिगमिषुरहमित्यद्य पतिनिदेशाद् यामि' । एवं निश्चित्य सा वटमार्गेण गन्तुं प्रचक्रमे । तत्सतीत्वप्रभावाच्च व्याघ्राद्याः स्वयं दूरं ययुः । तथा सा विक्षिप्तकेशा त्वरितं गच्छन्ती मार्गे राज्ञः शिबिरमिव महर्द्धिकं सार्थमावासितं ददर्श । ततः सा दध्यौ - 'यदि कश्चित् सार्थः प्राप्यते तदा स वनेऽवलम्बः स्यात्' ।
तदानीमेव च दस्यवः सार्थं रुरुधुः । सार्थजनाश्च तां दस्युसेनां दृष्ट्वा भयं जग्मुः । दवदन्ती च मा भैष्ट सार्थलोका !' इति तानुवाच । तथा चौरान् निर्भर्त्सयन्नुवाच- 'मया सार्थो रक्षितः, तदमुं विहाय दूरं यात । अन्यथाऽनर्थमाप्स्यथ' । किन्तु दस्यवस्तद्वाचं नाऽजीगणन् । ततः क्रुद्धा दवदन्ती हुङ्कारांश्चकार । तेन च भीता दस्यवो धनुर्ध्वनेः काका इव पलायामासुः । सार्थजनश्चाऽस्मत्पुण्यैरा
अष्टमं पर्व तृतीयः सर्गः
कृष्टा काऽपीयं देवता, यदस्मांश्चौरेभ्योऽरक्षयदित्यूचुः । सार्थेशोऽपि भक्त्या मातरमिव तां प्रणम्य त्वं काऽसि, किमिहाऽरण्ये भ्रमसी'ति पप्रच्छ । भैमी च सबाष्पलोचना नलघुतादारभ्य सर्वमात्मनो वृत्तान्तं शशंस |
तत्छ्रुत्वा सार्थेश उवाच - नलस्य पत्नीति त्वं मम पूज्याऽसि । तस्करेभ्यो रक्षणात् तवोपकारक्रीतोऽस्मि च । तन्ममाऽऽवासं पुनीहि । एवमुक्त्वा सार्थवाहस्तां निजे पटगृहे नीत्वा देवतामिवाऽऽराधयन् विश्रामयामास । तदानीं च मेघोऽखण्डधारं वर्षितुं प्रारब्धवान् । सर्वतश्च मही जलैः पूर्णा पङ्कैर्दुर्गमा चाऽभूत् । तदा त्रिरात्रं निरन्तरं वृष्टिः प्रावर्त्तत । दवदन्ती च पितृगृह इव तत्रैव सुखं न्यवसत् ।
अथ मेघे वर्षाद् निवृत्ते सति दवदन्ती पुनः सार्थं हित्वैकाकिन्येव नलप्रवासदिवसादेव चतुर्थादितपः परायणा निर्गत्य शनैः शनैर्गच्छन्ती महाभीषणमन्तकपुत्रमिव राक्षसमद्राक्षीत् । स राक्षसश्च - 'बुभुक्षितस्य मे चिराद् भक्ष्यं लब्धं त्वां शीघ्रमेव भक्षयिष्यामी'ति तामुवाच । सा च भीताऽपि धैर्यमाधायोवाच- 'त्वं मद्वचः शृणु, पश्चाद् यथेष्टं कुरु । मृत्योर्न मे भीः, जैनधर्मेण कृतार्थ मे जन्म । किन्तु परस्त्रियं मा स्पृश मा भक्षयन्नपि त्वं ममाऽऽक्रोशेन सुखं न प्राप्स्यसि तत्क्षणं विचारय' । तच्छ्रुत्वा स राक्षसस्तस्या धैर्येण प्रसन्नोऽवदत्- 'भद्रे ! त्वयि प्रसन्नोऽस्मि, वद, किं तवोपकरोमि ?'
ततो दवदन्त्यूचे-'यदि प्रसन्नोऽसि तर्हि पृच्छामि - 'कथय, कदा मे पतिसङ्गमो भवेत् ?' ततो राक्षसोऽवधिना ज्ञात्वा