________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बलं प्रशंसन्त ऊचुः-पूरा कूबरेण समं नृपोद्याने क्रीडति नले ज्ञान्येको मुनिराजगाम । स चोवाच-'नल: पूर्वजन्मनि मुनेर्दुग्धदानमाहात्म्याद् दक्षिणभरतार्धपतिर्भावी । यः पुरमध्ये हस्तपच्चशतोन्नतं स्तम्भं चालयिष्यति सोऽवश्यं भरतार्धपतिः । तद् मुनिवचोऽद्य संवाद्यभूत् । किन्तु नले जीवति कोशलाया नाऽन्यः पतिर्भावीति यदुक्तं मुनिना तदद्य विसंवदति । अथवा को जानाति, पुनर्नल एवाऽत्र भूपतिः स्यात्' । एवं लोकवचांसि श्रृण्वन् नलः पुरीं तत्याज ।
अथ नलो दवदन्तीमवोचत्-'देवि ! सम्प्रति क्व यामः ? स्थानमनुद्दिश्य गमनं नोचितम्' । ततो दवदन्त्युवाच-'कुण्डिनपुरे मम पितरमतिथिर्भूत्वाऽनुगृहाण' । ततस्तथैव नलेन सारथिरादिष्टः । सारथिश्च कुण्डिनपुरं प्रति रथं वालयामास । गच्छंश्च नल: कृतान्तस्य क्रीडाभूमिमिव महाटवीं प्राप । तत्र चाऽग्रे यमदूतोपमान् सायुधान् पानगोष्ठीपरान् भिल्लान् ददर्श ।
ततो नलः सद्यो रथादवतीर्य खड्गमाकृष्य करे नर्तयामास । भैमी च रथं मुक्त्वा बाहौ धृत्वा नलं निवारयामास । तथा स्वहुङ्कारैभिल्लास्त्रासयामास । भिल्लाश्च कान्दिशीका दिशो दिशं ययुः । तौ ताननुधावमानौ रथाद् दूरे बभूवतुः । इतश्चाऽपरैभिल्लैस्तयो रथोऽपजते । दवदन्तीं च तस्यामटव्यां नलः पाणौ गृहीत्वाऽभ्रमत् । श्रान्ता तृणा-ऽग्रकण्टक-शर्करादिभिन्नपादा क्षुत्-तृष्णादिपीडिता च भैमी कियती साऽटवीति नलं पप्रच्छ । ततो नलोऽवोचत्-'इयमटवी योजनशतं, तत्र च पञ्च योजनान्येव गतानि, धीरा भव'।
अष्टमं पर्व - तृतीयः सर्गः
अत्राऽवसरे च सूर्योऽस्तमियाय । ततो नलः पत्रैः शय्यां विधायाऽत्र शेष्वेति दवदन्तीमुवाच । ततो दवदन्ती जगौ-'इत: पश्चिमायां वसतिरस्ति, यतो गवां हम्भारव: श्रूयते । तत्किञ्चिदग्रे गत्वा तत्रैव वसति: कार्या' । ततो नल उवाच-'इह तापसानामाश्रमः । ते च मिथ्यादृशः । तैः सङ्गत्या सम्यक्त्वं विनश्यति । तदत्रैव शेष्व । अहं यामिको भवामि' । ततो दवदन्ती सुष्वाप । सुप्तायां च तस्यां नलो दध्यौ-'श्वशुरगृहवासो नराधमकृत्यं न मम योग्यम् । तदेतां प्रेयसीमपि त्यक्त्वाऽन्यत्र यामि । इयं शीलप्रभावाद् रक्षिता । नाऽस्याः कश्चिदुपद्रवो भावी' । __एवं विचिन्त्य तस्यास्तल्पतां गतं स्वोत्तरीयार्धं छुर्या च्छित्वा स्वरुधिरेण दवदन्त्या वस्त्रे-'एष मार्गो विदर्भ याति वटलक्षितया दिशा, तद्वामभागस्थश्च मार्गः कोशलेषु याति । तत्त्वं पितुः श्वशुरस्य वा गृहं गच्छेः । अहं तु काऽपि स्थातुं नोत्सहे' इत्यक्षराणि लिखित्वाऽशब्दं रुदित्वा चौरवत् तूष्णीं नलो गन्तुं प्रचक्रमे । गच्छंश्च वालितकन्धरस्तां मुहुर्मुहुर्ददर्श । तथा हृद्यचिन्तयत्-'अनाथामेतां शयितां व्याघ्रादिर्यदि भक्षयेत् तदा का गतिः ? तत्तां दृग्गोचरे विधाय रात्रि यावद् गुप्तो रक्षामि । प्रातरेषा स्वेच्छं मया निर्दिष्टयोः पथोः कमपि यातु' । ततो वलितो नलो भुवि शयानां तां दृष्ट्वा पुनरचिन्तयत्-'दवदन्तीयमेकवस्त्रा स्वपिति, धिग् नलस्य दौर्भाग्यम् । मत्कर्मदोषेण कुलीनेयमिमां दशां प्राप्ता । हा ! हताशोऽहं किं करोमि । मया मुक्ता चैकाकिनीयं निश्चयं प्राणांस्त्यक्ष्यति । तदेनां भक्तां मुक्त्वा गन्तुं नोचितम् । जीवितं मरणं वाऽनया सहैव ममाऽस्तु । अथवेयं वस्त्रे मया लिखितामाज्ञां