________________
७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पराक्रमेण चाऽप्रतिमं तं केऽपि जेतुं समर्था नाऽभूवन् । अन्यदा च नल: सामन्तादीन् पप्रच्छ-'किं पित्रोपाजितामेव भूमिं शासानि ततोऽधिकां वा ?' ततस्ते ऊचुः-'निषधस्त्र्यंशन्यूनं भरतार्ध पालयामास । त्वया तु सकलमेव भरतार्धं पाल्यते । किन्त्वितो योजनशतद्वयं तक्षशिलानगरी । तत्र कदम्बनामा नृपस्त्वदाज्ञां न पालयति । तत्प्रथमं दूतमादिश्य स प्रबोधनीयः । यदि न बुध्यते तदा निग्राह्यः' ।
ततो नलो धीरं दूतमनुशिष्य सैन्येन सह प्रेषयामास । दूतश्चाऽपि शीघ्रं गत्वा 'नलं सेवस्वे'ति कदम्बं व्याजहार । कदम्बश्च क्रुधा तं निर्भय॑ युद्धायाऽहं सज्जोऽस्मीत्युक्त्वा प्रतिन्यवर्त्तयत् । दूतश्च प्रत्यागत्य नलाय सर्वं वृत्तान्तं कथयामास । ततो नलः कदम्बं सर्वाभिसारेणाऽभिषेणयामास । सेनया च सर्वतस्तक्षशिलां वेष्टयामास । कदम्बोऽपि सन्नद्धः ससैन्यो नगराद् बहिनिर्ययौ । द्वयोः सैन्ययोश्च दारुणं युद्धमजनि । ततो नलः कदम्बमूचेगजादिभिर्हतैः किम् ? आवां द्वन्द्वयुद्धेनैव युध्यावहे' । ततो द्वावपि द्वन्द्वयुद्धेन युयुधाते । तत्र च नलेन कदम्बः पराजितः । ततः कदम्बः पलाय्य विरक्तो व्रतमादाय प्रतिमया तस्थौ । नलश्च कदम्बं तथाविधं दृष्ट्वा प्रशस्य तत्पुत्रं जयशक्ति राज्ये निवेशयामास । ततश्च नृपैनलस्य भरतार्धपतित्वाभिषेकश्चक्रे । कोशलां प्राप्तस्य च नलस्य सर्वे नृपा उपहारान् ददुः । तथा नलो दवदन्त्या सह रममाणश्चिरं महीं पालयामास ।
अथ कूबरः कुटिलप्रकृती राज्यलोभाद् नलस्य च्छिन्द्रं गवेषयामास । नलस्य च न्यायनिष्ठस्याऽपि द्युतासक्तिरभूत् । कूबरश्चाऽस्माद् महीं जयामीति बुद्ध्या सर्वदैव दूतेन तं रमयामास ।
अष्टमं पर्व - तृतीयः सर्गः एकदा च नलः कूबरं जेतुं न प्राभवत् । कूबरश्च नलाद् ग्रामादिकं सर्वं जितवान् । नलश्च लोकैर्वार्यमाणोऽपि द्यूताद् न विरराम । लोकानां हाहाकारं श्रुत्वा च तत्राऽऽगता दवदन्त्यवोचत्-'द्युतं मुञ्च, मनीषिणो वेश्यामिव द्यूतं न सेवन्ते । कूबराय स्वयं राज्यं देहि । किन्तु कूबरो हठाद् नलाच्छ्रीः प्राप्तेति प्रवादपात्रं मा भूः' । किन्तु नलो दवदन्तीं ददर्शाऽपि न, न वा तद्वचांस्यगणयत् । ततो दवदन्ती पत्या तिरस्कृता सचिवान् नलं निवारयितुमूचे । नलस्तेषामपि वचो न गणयामास । तथा गमितमहीको दवदन्त्या सहाऽन्तःपुरमप्यहारयत् । सर्वस्वं गमयित्वाऽङ्गेभ्यो भूषणान्यपि मुक्तवान् ।
ततः कूबरो नलमुवाच-'इह मा तिष्ठ, मन्महीं त्यज । यद् राज्यं तव पित्रा दत्तं तन्मया द्यूतेनोपार्जितम्' । ततो नलो 'दर्प मा कृथाः, पराक्रमिणां लक्ष्मीन दुर्लभे'त्युक्त्वोत्थायोत्तरीयवस्त्रमात्रमादाय ततः प्रस्थितवान् । तमनुसरन्ती दवदन्ती च कूबरोऽवोचत्'त्वं मा गाः, मया द्यूते जिताऽसि, मदन्तःपुरमलङ्करु' । ततः सचिवादयो दुराशयं कूबरमूचुः-'भैमी महासती, इमामन्तःपुरे मा नय, ज्येष्ठभ्रातृपत्नी मातृतुल्या, अन्यथा सतीत्वप्रभावात् त्वां भस्मसात् करिष्यति । प्रत्युत नलमनुयान्तीमेनामुत्साहय । नलं सारथिना सहैकं रथं सपाथेयं प्रयच्छ' ।
ततः कूबरो रथं दत्त्वा दवदन्तीं नलेन सह व्यसृज्यत् । नलश्च रथे निरीहोऽपि प्रधानपुरुषादिभिः प्राथितो दवदन्त्या सह तमारुह्य निर्ययौ । नागराश्च दवदन्तीमेकवस्त्रां दृष्ट्वा भाग्यं निन्दन्तो नितरां रुरुदुः । नलश्च नगरमध्येन गच्छन् हस्तपञ्चशतोन्नतं स्तम्भं दृष्ट्वा कौतुकात् तमुत्पाट्य पुनरारोपयामास । तद् दृष्ट्वा नागरा नलस्य