________________
Bhandari
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वर्णयितुमुपक्रान्ता । दवदन्ती च सर्वान् नृपान् दृष्ट्वा श्रुत्वा च नलस्य कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च गगनेऽहो सुष्टु वृतमिति खेचराणां तुमुलो जज्ञे ।
अथ कृष्णराजकुमारः क्रुधा खड्गमाकृष्य नलमाक्षिपन् न मामनिर्जित्य दवदन्तीमुद्वोढुमर्हसीति शस्त्रं गृहाणेत्यवोचत् । ततो नल: स्मित्वा कृष्णराजमाक्षिप्य क्रुधा खड्गमाकृष्योत्तस्थौ । द्वयोः सैन्यानि चाऽपि सद्य एव सायुधानि सज्जानि बभूवुः । तदानीं दवदन्ती दध्यौ-'मां धिक्, मन्निमित्तमेवाऽयं प्रलयकाल: समुपस्थितः । शासनदेवते ! यदि मे जिने भक्तिस्तर्हि नलो विजयतां, द्वयोः सैन्ययौः कुशलं चाऽस्तु' । एवमुक्त्वा सा जलपात्रमादायाऽनर्थशान्त्यर्थं त्रिस्तज्जलं सर्वतः सिषेच । तत: कृष्णराजस्तज्जलेन सिक्तोऽङ्गार इव सद्यो निस्तेजा जातः । तथा शासनदेव्याः प्रभावात् तत्पाणे: खड्गो द्रुमात् पक्वफलमिव स्वयं पपात ।
तदेवं हततेजाः कृष्णराजो दध्यौ-'नलो न सामान्यः, तदविमृश्यैवैनमाक्षैप्सम्, अयं हि प्रणामार्हः' । एवं विचिन्त्य स नलं प्रणनाम । तथा रचिताञ्जलिरुवाच-'मयाऽविचारेण कृतमपराधं सहस्व' । नलोऽपि तं सत्कृत्य व्यसृजत् । भीमोऽपि च तेन वृत्तान्तेन प्रमुदितो नृपान् सत्कृत्य विसृज्य दवदन्ती-नलयोविवाहोत्सहं चकार । तयोः करमोचने च स्वविभवोचितं गजा-ऽश्वादिकं ददौ । तौ च वधू-वरौ गृहे चैत्यमवन्देताम् । भीम-निषधौ च महोत्सवेन तयोः कङ्कणमोचनं कारयामासतुः । तथा भीमो निषधं सपुत्रं भक्त्या सत्कृत्य व्यसृजत् किञ्चिदन्वगाच्च । पतिमनुयान्तीं दवदन्ती च माता 'व्यसनेऽपि पति देहच्छायेव मा त्याक्षीरि'त्युपदिदेश ।
अष्टमं पर्व - तृतीयः सर्गः नलश्च पितरावापृच्छयाऽऽगतां दवदन्तीं रथमारोह्य स्वाङ्के समुपवेशयामास । कोशलेशश्च सैन्यैः सह साडम्बरं प्रस्थितवान् ।
अथ प्रतिष्ठमाने निषधे मार्गे रवावस्तमिते सर्वतोऽन्धकारे प्रसरति चाऽपि स्वनगरदर्शनौत्सुक्यात् स प्रस्थानाद् न विरतवान् । ततोऽन्धकारे मार्गेऽलक्ष्यमाणे नलः स्वाङ्कसुप्तां दवदन्तीमुवाच'देवि ! जागृहि, तमसा विह्वलं सैन्यं स्वरवितिलकं प्रकाश्य रक्ष'। ततो दवदन्ती समुत्थाय स्वभालं प्रक्षालितवती । तेन च तमोनाशकस्तिलकोऽदीपि । सैन्यं च तदालोकसाहाय्येन निरन्तरायं जगाम । नलश्चाऽग्रे प्रतिमास्थितमेकं भ्रमरैः कमलमिव वेष्टितं मुनि दृष्ट्वा-'असौ मुनिर्वन्द्यतां, कायोत्सर्गे स्थितोऽयं मुनि: केनाऽपि गजेन गण्डकण्डूविनयनाय घृष्टोऽस्ति । अत एव तन्मदसङ्क्रमात् सर्वतो गन्धलोलुपा भ्रमराः पतन्तो दृश्यन्ते । तैर्दश्यमानश्चाऽयं परीषहं सहते । गजेनाऽपि ह्ययं ध्यानाद् न चालितः । तदयं मार्गमध्ये पुण्यैर्दृष्टः' इत्यवोचत् ।
ततो जातश्रद्धो निषधः सपुत्रपरिच्छदस्तं मुनि वन्दितवान् । ततः प्रस्थाय च कोशलानगरोपान्तं प्राप्य नलो दवदन्तीमुवाच'देवि ! इयं मम पुरी जिनचैत्यमण्डिताऽस्ति' । दवदन्त्यपि च तच्चैत्यदर्शनादुत्कण्ठितां प्राप्योवाच-'धन्याऽस्मि, यस्या नलः पतिः, तथाऽमूनि चैत्यानि प्रतिदिनं वन्दिष्ये च' । तत: समङ्गलं नृपः पुरीं प्रविवेश ! नलो दवदन्ती च यथेष्टं यथासखं विहरमाणौ कियन्तं कालं निन्यतुः ।
अथाऽन्यदा निषधो नृपो नलं राज्ये कूबरं यौवराज्ये च न्यस्य स्वयं व्रतमानद । नलश्च नीत्याः प्रजा: पालयामास । बुद्ध्या