________________
७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा हृष्टो धन्य उवाच-'मुने ! मम महिषीमारोह, भूमिः पङ्कदुर्गमाऽस्ति' । ततो मुनिराह-'मुनयो जीवेषु नाऽऽरोहन्ति, ते कथमपि जीवपीडाप्रदं कर्म नाऽऽचरन्ति, पादाभ्यामेव ते व्रजन्ति'। एवमुक्त्वा स मुनिस्तेन सह नगरसमीपं गतवान् । ततो धन्य उवाच-'यावदहं महिषीर्दोलि तावदत्र प्रतीक्ष्यताम् । एवमुक्त्वा गृहं गत्वा महिषी: शीघ्रं दुग्ध्वा दुग्धकुम्भमेकमादाय मुनिसमीपं गत्वा स्वं धन्यं मन्यमानस्तं मुनि पारणां कारयामास । स मुनिश्च पोतनपुरे वर्षारात्रमतिवाह्य यथेष्टं स्थानं जगाम । धन्योऽपि धूसर्या सह श्रावकव्रतं चिरं पालयित्वा, काले व्रतं गृहीत्वा, सप्ताब्दी तत् पालयित्वा च विपद्य पात्रे दुग्धदानपुण्येन हैमवते युगलिनौ जातौ । तत्राऽपि शुभध्यानौ विपद्य क्षीरडिण्डीरनामानौ देवदम्पती जातौ । ततो देवश्च्युत्वेह भरते कोशलदेशे कोशलानगरे इक्ष्वाकुकुले निषधनृपस्य सुन्दराकुक्षिजन्मा नलो नाम पुत्रोऽभवत् । तस्याऽनुजश्च कूबरोऽभूत् ।
इतश्च विदर्भदेशे कुण्डिनपुरे भीमरथो नृपः पुष्पवतीभार्यया सह भोगानभुक्त । एकदा च क्षीरडिण्डीरा च्युत्वा तस्याः कुक्षौ पुत्रीत्वेनोत्पन्ना । तदा सा सुखसुप्ता रात्र्यन्ते सुस्वप्नं दृष्ट्वा नृपाय कथयामास-स्वामिन् ! श्वेतहस्ती तव गृहे दवाग्निभयात् प्रविष्टो मया स्वप्ने दृष्टः' । ततो नृपो जगाद-'कोऽपि पुण्यवांस्तवोदरेऽद्याऽवतीर्णः' । तदानीमेव च तत्र स शुभ्रगजः समागत्य नृपं सभार्य स्वस्कन्धे समारोपयामास । तथा पुष्पमाल्यप्रक्षेपेण नागरैः पूज्यमानः स नगरे भ्रान्त्वा राजप्रासादमुपेत्य तौ निजस्कन्धादवारोहयत् । स्वयमेव चाऽलाने स गजो निबद्धः । तदानीं च देवाः पुष्पाणि रत्नानि च तत्र ववृषुः । नृपश्च तं गजं यक्षकर्दमैः सर्वाङ्गमनुलिप्य
अष्टमं पर्व - तृतीयः सर्गः पूजयित्वा नीराजनां व्यधात् । पूर्णे समये शुभे लग्ने च कन्यारत्नं सुषुवे । तस्याश्च कन्याया भाले सूर्यमण्डलाभं तिलकं रवितिलकाख्यं सहजमभूत् । तज्जन्मनः प्रभावेण च भीमो नृपाणां शिरोमणिर्बभूव । तथा नृपः समहोत्सवं तस्याः स्वप्नानुसारेण दवदन्तीति नाम चकार ।
सा च क्रमशो वर्धमानाष्टमे वर्षे नृपेण कलाचार्यस्य प्रदत्ता सर्वाः कला अशिक्षत । तां च सर्वकलाकुशलां कलाचार्यो नृपसमीपमानीतवान् । नृपश्च पुत्रीनैपुण्येन प्रीत: कलाचार्यं भूरिभिर्द्रव्यैः सत्कृत्य विसर्जयामास । दवदन्त्याश्च देवता पुण्यवशात् काञ्चनीमहत्प्रतिमामर्पयित्वोवाच-'वत्से ! इयं प्रतिमा भाविनोऽर्हतः श्रीशान्तिनाथस्य त्वया सदा पूजनीया' । एवमुक्त्वा सा देवी तिरोदधे । दवदन्ती च प्रसन्ना तां प्रतिमां वन्दित्वा निजवेश्मनि नीतवती ।
अथ राज्ञी नृपश्च पुत्री प्राप्तयौवनां दृष्ट्वा तद्योग्यवरचिन्तया नितरामदूयेताम् । क्रमेण दवदन्ती चाऽष्टादशवर्षा जाता । ततः स्वयंवरं निश्चित्य नृपो दूतान् नृपाह्वानाय प्रेषयामास । तेन च तत्र शीघ्रमेव राजानः समाययुः । निषधनृपोऽपि च कोसलेश्वरः पुत्राभ्यां नल-कूबराभ्यां सह तत्राऽऽगात् । कुण्डिनपुरेशश्चाऽऽगतानामतिथीनां सर्वेषां राज्ञां यथोचितमभिगमनपुरस्सरं स्वागतं चकार । अनन्तरं च भीमनृपः पालकविमानतुल्यं स्वयंवरमण्डपं कारयामास । राजानश्च तत्राऽऽगत्योच्चैर्मञ्चेषूपाविशन् । दवदन्ती चाऽपि पितुराज्ञयाऽद्भुतनेपथ्या सर्वालङ्करणालता रवितिलकोद्योतविराजमाना तत्राऽऽययौ । राजानश्च भाले तिलकं बिभ्रती तां पुन: पुनर्ददृशुः । ततो नृपाज्ञया वेत्रधारिणी राज्ञो नामग्राहं