________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हरिश्चन्द्र इति वागभूत् । कुबेरोपदिष्टा देवाश्च वसुधारां ववृषुः । कनकवती-वसुदेवयोश्च विवाहोत्सवो जज्ञे ।
*** अथ वसुदेवः कुबेरं नत्वाऽवोचत्-'युष्माकमत्राऽऽगमे को हेतुः ?' ततः कुबेरः प्रसन्न ऊचे-'कुमार ! ममाऽऽगमनकारणं श्रृणु-अस्यैव जम्बूद्वीपस्य भरतक्षेत्रेऽष्टापदसमीपे सङ्गरे नाम्नि नगरे मम्मणो नाम राजाऽभूत् । स च प्रियया वीरमत्या सह मृगयायै प्रस्थितो नगराद् बहिः सार्थेन सहाऽऽयातं मलिनं मुनि दृष्ट्वा ममेदं मृगयोत्सवेऽशकुनमित्यवधार्य क्रुद्धस्तं मुनि धृत्वा पुनर्गृहं गत्वा सभार्यो द्वादशघटिकास्तं शपन् तस्थौ । अनन्तरं च दयया तौ मुनि पप्रच्छतुः-'कुत आगतः, कुत्र यासि' । ततो मुनिरुवाच-रोहीतकपुराद् चलितोऽहमष्टापदेऽर्हद्विम्बानि वन्दितुं सार्थेन सह । भवद्भ्यां च गृहीत: सार्थाद् वियोजितस्तत्र नाऽगाम् । धर्मकर्म हि बहुविघ्नम्' ।
ततस्तौ दम्पती अल्पकर्मत्वात् क्रोधं विसस्मरतुः । ततो मुनिस्तौ स्निग्धह्रदयौ ज्ञात्वा जीवदयाप्रधानमार्हतं धर्ममुपादिशत् । तेन च तौ दम्पती धर्माभिमुखतां प्रापतुः । तथा तं मुनि भक्त्या भक्तान्न-पानादिना प्रत्यलाभयताम् । किन्तु रजोगुणप्राधान्यादन्यं जनं निषिध्य स्वयमेव तस्य मुनेरुपचारं चक्रतुः । मुनिश्च तावापृच्छय चिरादष्टापदं जगाम । तौ च श्रावकव्रतं प्रतिपद्य यत्नात् पालयामासतुः । वीरमती चैकदा शासनदेव्याऽष्टापदे प्रापिता । सा च तत्र जिनप्रतिमाः सुरा-ऽसुरैः पूज्यमाना दृष्ट्वा नितरां मुमुदे । तथाऽर्हद्विम्बानि वन्दित्वा सा पुनर्विद्याधरीव निजपुरं प्राप । ततश्च
अष्टमं पर्व - तृतीयः सर्गः तीर्थदर्शनाद् धर्मबुद्धिः सा विंशतिमाचाम्लानि चकार । तथा चतुर्विंशतिजिनेभ्य उपरि न्यस्तरत्नानि सुवर्णतिलकानि कारयामास।
अन्यदा च सा सपरिवारमष्टापदं गत्वा स्नात्रपूर्वकमर्हद्विम्बान्यानर्च । तथा तासां प्रतिमानां ललाटेषु तानि सौवर्णानि तिलकानि निदधौ । तथा तत्राऽऽगतानां चारणश्रमणादीनां यथायोग्यं दानं दत्त्वा तपोऽकरोत् । ततश्चाऽऽत्मानं कृतकृत्यं मन्यमाना सा वीरमती पुनरपि स्वनगरं प्राप्तवती । कियन्तं कालं च तौ दम्पती धर्मोद्यतौ निन्यतुः । समाधिमरणं प्राप्य च तौ स्वर्ग प्राप्तौ । ततश्च्युत्वा च मम्मणजीवोऽत्र भरते बहलीदेशे पोतननगरे धम्मिलासस्याऽऽभीरस्य रेणुकाकुक्षिजन्मा धन्यो नाम पुण्यवान् पुत्रो जातः । वीरमतीजीवश्च च्युत्वा धन्यस्यैव धूसरीनाम्नी पल्यभूत् । धन्यश्चाऽरण्येऽनिशं महिषीश्चारयामास ।
अन्यदा च वर्षौ प्रवृत्ते वर्षत्यपि मेघे स धन्यो महिषीचारयितुमगात् । जलनिवारणाय मस्तके छत्रं दधन्महिषीरनुसरन्नटवीं भ्रमन् स एकेन पादेन प्रतिमास्थं निश्चलं कृशं शीतेन कम्पमानगात्रं मुनि ददर्श । तं तथाविधं दृष्ट्वा स दयया छत्रं तन्मस्तकेऽकरोत् । तेन च स मुनिर्वृष्टिकष्टरहितोऽभूत् । किन्तु मेघो वृष्टेन विरराम । धन्यश्चाऽपि च्छत्रधारणाद् न निर्वेदं गतः । क्रमशश्च वृष्टिविरता । मुनिश्च प्रतिमां पारयामास । धन्यश्च तं प्रणम्य बद्धाञ्जलिरुवाच'मुने ! ईदृशे विषमे काले कुत आगतः ?' ततो मुनिरुवाच-'पाण्डुदेशादिहाऽऽगतोऽस्मि । लङ्कानगरीं च यास्यामि । मध्यकालेऽयं वर्षर्तुरन्तरायोऽभूत् । मेघो धारासारं वर्षितुमारब्धवान् । मेघे वर्षति च मुनीनां गमनं न युज्यते । अतो वृष्ट्यन्ताभिग्रहं कृत्वाऽत्रैव स्थितोऽस्मि । अद्य सप्तमेऽह्नि वृष्टौ विरतायां वसति कामपि यामि'।