________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वसुदेवं नन्तुं प्रवृत्ता । वसुदेवश्च तां निषिध्योवाच- 'अहं भृत्योऽस्मि त्वं मम स्वामिन्यसि मां नन्तुं नाऽर्हसि ।
६६
ततः सोवाच- 'मम ते सर्वं वृत्तान्तं ज्ञातमस्ति त्वमेव मम पतिरसि । त्वं देवतया कथितश्चित्रगतश्च ध्यातोऽसि मया' । ततो वसुदेव: पुनरुवाच- 'भद्रे ! तवाऽहं पतिर्नाऽस्मि । किन्तु देवतयाऽऽख्यातस्य तव पत्युः किङ्करोऽस्मि । स तव पतिः कुबेरोऽस्ति । तदाज्ञयेहाऽऽगतस्त्वां ययाचे यत् तस्याऽग्रमहिषी भवेति । तत: कनकवत्यवोचत्- 'स शक्रसामानिको देवोऽहं च तुच्छा मानुषी । तन्मयि तस्य दूतप्रेषणमनुचितम् । मानुषीणां देवैः सङ्गमः कदाऽपि न जात:' । ततो वसुदेव उवाच- 'भद्रे ! देवाज्ञामस्वीकुर्वती त्वमनर्थं प्राप्स्यसि ।
ततः कनकवत्यूचे-‘धनदनाम श्रुत्वा मम प्राग्भवसम्न्धादितो हेतोर्मन उत्कण्ठते । किन्तु जिनानामेवैवं वचो यद् देवा औदारिकस्य गन्धमपि सोढुं न क्षमन्ते । तस्माद् दूतव्याजेन त्वमेव मम पतिः । इतो गत्वा च कुबेरमाख्याहि यत् त्वं देवोऽसि त्वद्दर्शनमपि नाऽर्हामि मानुष्यहम् । त्वं प्रतिमां कृत्वा मम पूज्योऽसि । तत्छ्रुत्वा वसुदेवस्ततो निर्गत्य कुबेरं प्राप्य यथावद् वृत्तमाख्यातवान् । कुबेरश्च तं प्रशस्य दिव्यगन्धवासितं देवदूष्ययुग्मं सूरप्रभं चूडारलं, जलगर्भे द्वे कुण्डले, शशिधवलं हारं, सुप्रभे केयूरे, अर्धशारदाख्यां नक्षत्रमालां, मणिमण्डितौ सुदर्शनौ कटकौ, कटिसूत्रं दिव्यं माल्यं विलेपनं च तस्मै पारितोषिकं ददौ । वसुदेवश्च तत् सर्वमङ्गेषु परिधायाऽपरो धनद इवाऽऽबभौ । कुबेरेण तथा सत्कृतं वसुदेवं दृष्ट्वा च सर्वे मुमुदिरे । हरिश्चन्द्रोऽपि तदानीं तत्राऽऽगत्य कुबेरं प्रणम्याऽवोचत्
अष्टमं पर्व तृतीयः सर्गः 'भवद्भिरद्य भारतं वर्षमनुगृहीतं यत् स्वयंवरदिदृक्षयेहाऽऽगतम्' । एवमुक्त्वा स स्वयंवरमण्डपं सज्जयामास ।
अथ कुबेरः सपरिवारः स्वयंवरं द्रष्टुं चचाल । सर्वतः शोभितं स्वयंवरमण्डपं प्रविश्य चोच्चमचे सिंहासने समुपाविशत् । वसुदेवोऽपि तस्याऽनतिदूर एव प्रसन्नः समुपविवेश । अपरेऽपिच राजानो विद्याधरेन्द्रादयश्च यथास्थानं समुपाविशन् । तदानीं च कुबेरो वसुदेवायाऽङ्गुलीयकं ददौ । सोऽपि च तं कनिष्किकालौ परिहितवान् । तदूर्मिकाप्रभावेण च सर्वो जनो वसुदेवं कुबेराकारं ददर्श । मूर्तिद्वयेन समागतः कुबेरो जयत्विति जनध्वनिस्तत्र सर्वतोऽजायत । कनकवती च पाणिभ्यां माल्यं गृह्णती हंसीव मन्थरं सर्वालङ्कारभूषिता तत्राऽऽजगाम । तत्र च सा सर्वान् नृपान् दृष्ट्वा वसुदेवमपश्यन्ती नितरां विषण्णा सखीहस्ते दत्तभारा पुत्तलिकेव निःस्पन्दाऽवस्था चिरं तस्थौ । ततस्तां सख्यूचे - 'किं विलम्बसे ? कस्याऽपि कण्ठे स्वयंवरमालां क्षिप' ।
ततः कनकवत्युवाच- 'नाऽत्र कोऽपि रोचते मह्यम् । यश्च रोचते, मन्दभाग्या तं न पश्यामि' । तथा हृदि दध्यौ - 'क उपाय:, मम का गतिर्भवेत् ? इष्टं वरं न पश्यामि मम हृदयं किं न विदीर्यते ?' एवं विचिन्तयन्ती कुबेरं दृष्ट्वा प्रणम्य च रुदती दीना बद्धाञ्जलिरवोचत् - 'देव ! प्राग्जन्मपत्नीति परिहासं मा कृथाः । ममेष्टो भर्ता त्वया तिरोहितश्चक्रे' । ततः कुबेरो हसित्वोवाच‘महाभाग ! वसुदेव ! मयाऽर्पितामूर्मिकां हस्तादपाकुरु' । ततो वसुदेवस्तथा कृत्वा पुनः स्वं रूपं प्राप । कनकवती च तं दृष्ट्वा प्रमुदितोपसृत्य तत्कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च दिवि दुन्दुभयो नेदुः । कुबेराज्ञयाऽप्सरसश्च माङ्गल्यं जगुः । सर्वतश्च धन्यो