________________
६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रणनाम । ततो वसुदेवः कनकवतीवार्ताप्रदोऽयं चन्द्रातप इति तमुपलक्षितवान् । ततस्तमालिङ्ग्य वसुदेव आगमकारणं पप्रच्छ । ___ ततश्चन्द्रातपोऽवोचत्-'प्रभो ! त्वां कनकवतीवृत्तान्तमाख्याय तस्यै अपि त्वद्वृत्तान्तमाख्यातवानस्मि, चित्रे त्वां लिखित्वाऽर्पितवानस्मि च । सा च पटे त्वां दृष्ट्वा त्वयि स्निग्धा प्रेमोपचारं कुर्वती मां सगौरवं प्रार्थितवती-'एतं चित्रलिखितं पुरुषं स्वयंवरे कथमप्यानय' । तदद्य कृष्णदशमी तिथिः । शुक्लपञ्चम्यां पूर्वाह्ने च स्वयंवरो भावी । त्वदधीनप्राणा सा त्वया स्वयंवरे गत्वाऽवश्यं रक्षणीया' । ___ ततो वसुदेव उवाच-'प्रातः स्वजनानापृच्छ्य त्वदुक्तं करिष्ये, त्वं प्रमदवने तिष्ठ, येन सहैव गत्वा स्वपरिश्रमफलं द्रक्ष्यसि । ततः स विद्याधरस्तिरोऽभवत् । वसुदेवश्च पुनः सुष्वाप । प्रातश्च स्वजनानापृच्छय स पेढालपुरनगरं ययौ । हरिश्चन्द्रश्चाऽभ्यागत्य तं सादरं लक्ष्मीरमणाख्ये उपवने न्यवासयत् । वसुदेवश्च तत्र वनशोभया दृष्टिं तर्पयंस्तस्थौ । हरिश्चन्द्रश्च स्वविभवोचितां वसुदेवस्याऽर्हणां चक्रे । तत्रोद्याने स्थितो वसुदेव: प्रासादादिष्विदमशृणोत्'पुराऽस्मिन्नुद्याने श्रीनमिजिनस्य समवसरणमभूत् । इह चाऽर्हतोऽग्रे देवीभिः सह लक्ष्मी रासकेन नृत्यन्ती रेमे । तेनाऽस्योपवनस्य लक्ष्मीरमणेत्याख्या जाता' । ततो वसुदेवस्तत्राऽऽयतनेऽर्हता प्रतिमा ववन्दे । ___ अथ तत्रैकं विमानं विद्याधरान्वितमवतरद् ददर्श । तत्रैकं सुरं स पप्रच्छ- 'इदं कस्य देवस्य विमानम्' । ततः स देव उवाच-'इदं धनदस्य विमानम् । सोऽधुनाऽत्राऽऽरूढोऽस्ति । महता कारणेन
अष्टमं पर्व - तृतीयः सर्गः भूलोके समागतोऽस्ति । सोऽत्र चैत्यानि वन्दित्वा कनकवतीस्वयंवरं द्रक्ष्यति' । ततो वसुदेवो दध्यौ-'अहो ! धन्या कनकवती, यस्याः स्वयंवरे देवा अप्यागच्छन्ति' । कुबेरश्च विमानादवतीर्याऽर्हता प्रतिमानां वन्दनपूजनादिकमरोत् ।।
अथ ततः प्रस्थित: कुबेरो वसुदेवं दृष्ट्वा दध्यौ - 'अद्भुताकृतिरयं पुमान्' । ततोऽङ्गलिसंज्ञया तमाहूय स्वार्थवशात् तं सत्कृत्य यथासनं समुपावेशयत् । ततो नम्रो वसुदेवस्तमवोचत्'आज्ञापय, किं करोमि ?' ततः कुबेर उवाच-'अन्येनाऽसाध्यं ममैकं दूत्यं साधय । अस्मिन् पुरे हरिश्चन्द्रनृपस्य कन्या कनकवत्याख्याऽस्ति । तां मद्वचसा कथय-त्वां कुबेरः परिणेतुमिच्छति, तत् स्वीकृत्य त्वं मानुष्यपि देवी भवेति । मद्वाचा च त्वं वायुरिवाऽप्रतिहतगति: कनकवत्यधिष्ठितं देशं प्राप्स्यसि' । ___ ततो वसुदेवः स्वावासं गत्वा दूतोचितं नेपथ्यं विधाय धनदमापृच्छय हरिश्चन्द्रनृपगृहं प्रविश्याऽदृश्यशरीरोऽग्रे गच्छन् क्रमशः सप्तमं कक्षान्तरं प्राप्य तत्र रूपवती: कलाकुशलाः सर्वभाषाविदो वेत्रधारिणीदृष्ट्वा नाऽत्र कस्याऽपि प्रवेशावकाश इति चिन्तयन् दास्या वेत्रधारिणीभिः क्व कनकवतीति पृष्टायाः प्रमदवनप्रासादेऽस्तीति प्रतिवचसा गन्तव्यदेशं ज्ञात्वा ततः पार्श्वद्वारेण निर्गतवान् । प्रातश्च प्रमदवने सप्तभूमिकं प्रासादं दृष्ट्वा तमारुह्य पट्टलिखितपुरुषरूपं पश्यन्तीं दिव्यवेषां सर्वाभरणभूषितां कनकवतीं ददर्श । कनकवती च वसुदेवं दृष्ट्वा विकसितमुखकमला तं चित्रं च मुहुर्मुहुर्दृष्ट्वोत्थाय रचिताञ्जलिरुवाच'मत्पुण्यैराकृष्टस्त्वमागतोऽसि, तव दास्यस्मि' । एवमुक्त्वा सा