________________
तृतीयः सर्गः
अथाऽत्र भरते गन्धर्वनगरतुल्यं पेढालपुराख्यं नगरमस्ति । यत्र सर्वो जनो जिनधर्मानुरक्त आसीत् । तत्र हरिश्चन्द्रो नाम गुणैरुज्ज्वलोऽद्भुतसमृद्धिसम्पन्नो बभूव । तस्य च विष्णोर्लक्ष्मी प्राणप्रिया रूपवती लक्ष्मीवती नाम महिषी बभूव । सा चैकां सुतां सुषुवे । तस्याश्च कन्याया: पूर्वजन्मपतिर्धनदस्तदैत्य तत्र प्राक्स्नेहवशात् तत्र स्वर्णवृष्टिं चकार । नृपश्च तेन प्रसन्नस्तस्याः समहोत्सवं कनकवतीति नाम चकार । सा च धात्रीभिर्लाल्यमाना क्रमाद् वर्धमाना सर्वाः कलाः शिक्षित्वा यौवनं प्रपन्ना । तस्याः पितरौ च योग्यं वरमपश्यन्तौ स्वयंवरं चक्राते ।
सा चैकदा सुखमुपविष्टाऽकस्मादागतं सुन्दराङ्गं राजहंसं दृष्ट्वा दध्यौ - 'भूषणभूषितत्वात् कस्याऽप्ययं पुण्यशालिनो हंस इत्यनुमीयते । कस्याऽप्येष भवतु । ममोत्कण्ठाऽस्मिन् जायते इति मन्मनो - विनोदायैषोऽत्रैवाऽस्तु' । एवं विचार्य सा गवाक्षस्थं तं हंसं स्वयं गृहीतवती । तं च स्पृशन्ती लालयन्ती च सा दारुपञ्जरानयनाय सखीमादिदेश । तच्छ्रुत्वा हंसो मनुष्यभाषयोवाच- 'राजपुत्रि ! मां पञ्जरे मा क्षिप, अहं तुभ्यं किञ्चित् प्रियं निवेदयिष्यामि, मां मुञ्च' । ततः सा मनुष्यवाचा वदन्तं हंसं प्रेक्ष्य विस्मिता तं सगौरवमवादीत्- 'त्वं प्रसादार्होऽसि, यत् कथनीयं तत् कथय' ।
अष्टमं पर्व तृतीयः सर्गः
ततो हंसोऽवोचत् - 'कोशलायां पुरि विद्याधरेशस्य कोशलस्य सुकोशला नाम कन्याऽस्ति । तत्पतिश्चाऽपि युवाऽप्रतिरूपो वर्त्तते । त्वं चाऽपि स्त्रीरत्नमसि । युवयोः सङ्गमार्थमहं तव गुणांस्तस्मै वर्णयित्वा तुभ्यं तद्गुणानाख्यामि । स तव स्वयंवरे समागमिष्यति । स्वयंवरमण्डपे चाऽनल्पेन प्रभावेण तं राजसूपलक्षयिष्यसि । मां मुञ्च, तुभ्यं स्वस्त्यस्तु' । ततः सा तं मुमोच । स चोड्डीय तस्याः क्रोडे चित्रपटं पातयित्वाऽवोचत्- 'भद्रे ! इह स युवा लिखितोऽस्ति । तमिहाऽऽ गतमनेनोपलक्षयेः' ।
ततो मुदिता कनकवती तमुवाच- 'त्वं कोऽसीति कथयित्वा मामनृगृहाण ।' तत: स हंसो जगाद - 'अहं चन्द्रातपो नाम विद्याधरोऽस्मि तवाऽस्य भाविनः पत्युः सेवकोऽस्मि । विद्याभावात् तवैतदपि कथयामि यत् स स्वयंवरदिनेऽन्यस्य दूतो भूत्वा त्वत्समीपमागमिष्यति' । ततः सा तं खेचरं विसृज्य चिन्तयामास'यन्निमित्तज्ञेन पुरा कथितं तत् सर्वं संवदति । तथा चित्रस्य पतं दृष्ट्वा तं लालयन् सा नितरां मुमोद ।
चन्द्रातपश्चाऽपि तयोः सङ्गमेच्छुर्विद्याधरपुरं गत्वा विद्याशक्त्या निशि वसुदेवगृहं प्रविश्य सभार्यं शयानं तं दृष्ट्वा पादसंवाहनेन सेवितुं प्रावृतत् । वसुदेवश्च तेन प्रबुध्याऽकस्मात् तं रात्रौ दृष्ट्वाऽपि भय- कोपरहितो दध्यौ अयं सेवकत्वाद् न मम विरोधी, किन्तु शरणार्थी वा भवेद् ममोपकारी वा । यद्यमुं वच्मि तदा देव्या निद्राभङ्गः स्यात् । सेवकस्याऽस्योपेक्षणमप्यनुचितम् । तच्छनैः शय्यात उत्थायाऽमुं सादरं संभाषे । एवं विचिन्त्य स पर्यङ्कादुत्थायाऽन्यत उपविष्टवान् । चन्द्रातपोऽपि तं पत्तिवत्