________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मानसवेगेन तज्ज्ञात्वा चैत्य बद्धो वसुदेवो वृद्धखेचरैर्मोचितस्तेन सह विवादं चकार । ततस्तौ विवदमानौ वैजयन्तीपुरे बलसिंहनृपान्तिके समाजग्मतुः । तत्र सूर्पकादयोऽप्ययुः । तथा तत्र प्राग् मानसवेग ऊचे-'सोमश्रीः प्राग् मम कल्पिता । किन्त्वनेनच्छलेन सा मयाऽदत्ता मत्स्वसा च परिणीता' ।
ततो वसुदेव उवाच-सोमश्रीर्मदर्थं पितृकल्पिता मयोढा, तामसौ जहे, वेगवत्याश्च वृत्तान्तं सर्वो जनो वेत्ति' । ततो जितो मानसवेगो युद्धार्थमुत्थितवान् । नीलकण्ठोऽङ्गारक-सूर्पकाद्याश्च विद्याधरा युद्धार्थमुदतिष्ठन्त । तदा वेगवतीमाताऽङ्गारवती वसुदेवाय दिव्यं धनुर्निषङ्गौ च, प्रभावती च प्रज्ञप्ति विद्यां च ददौ । ततो वसुदेवो विद्यया दिव्यास्त्रेण च दीप्ततेजा एकोऽपि सर्वान् खेचरानजैषीत् । मानसवेगं बद्ध्वा च सोमश्रियः पुरोऽक्षप्सीत् । तथाऽङ्गारवत्या वचसा तं मुमोच । तत: पत्तीभूतैर्मानसवेगाद्यैः परिवृत्तः स सोमश्रिया सह विमानेन महापुरपुरं ययौ । तत्र च सोमश्रिया सह रममाणः सुखं तस्थौ । __अन्यदा च सूर्पकेणाऽश्वीभूय हृतो वसुदेवस्तज्ज्ञात्वा तं मुष्टिना ताडयामास । तत: सूर्पकेण मुक्तः स गङ्गाजले पपात । तामुत्तीर्य च स तापसाश्रमं गत्वा तत्र कण्ठे कृतास्थिमालामेकां स्त्रियं दृष्ट्वा तापसानपृच्छत् । ततस्ते ऊचुः-'इयं जितशत्रुनृपभार्या जरासन्धनृपपुत्री नन्दिषेणा परिव्राजकेन वशीकृता । स च परिव्राड् राज्ञा हतः। असौ च कार्मणवशात् तदस्थीन्यद्याऽपि कण्ठे धत्ते । ततो वसुदेवो मन्त्रबलात् तत्कार्मणमपनीतवान् । ततो मुदितो जितशत्रुस्तस्मै निजां केतुमती कन्यां ददौ'।
अष्टमं पर्व - द्वितीयः सर्गः
तज्ज्ञात्वा जरासन्धद्वारपालश्च बाल एत्य नृपमब्रवीत्'नन्दिषेणाप्राणदाता प्रेष्यतां, यतोऽसावुपकारी' । ततो नृपो वसुदेवं तेन द्वारपालेन सह प्रेषयामास । स च रथारूढो वसुदेवो मगधेश्वरनगरं ययौ । तत्र चाऽऽरक्षैर्बद्धस्तेभ्यो बन्धकारणं पप्रच्छ । ततस्ते ऊचुः-'ज्ञानिना जरासन्धस्योक्तं यद् यस्ते पुत्री नन्दिषेणां सज्जीकरिष्यति तत्पुत्रस्तव हन्ता भावी, तज्ज्ञातोऽसीत्यवश्यं हन्तव्य एव त्वम्' । एवमुक्त्वा वसुदेवं वधस्थाने नीत्वा ते हन्तुमुद्यता अभूवन् ।
तदानीं च गन्धसमृद्धपुरेशो गन्धारपिङ्गलो विद्यां प्रभावत्या वरमपृच्छत् । सा च वसुदेवं जगौ । ततः स तमानेतुं धात्रीं भगीरथीं प्रेषितवान् । सा चैत्य तेभ्यो वसुदेवमाच्छिद्य गन्धसमृद्धकेपुरेऽनैषीत् । तत्र च वसुदेवः प्रभावतीं परिणीय तया समं यथासुखं रममाणोऽस्थात् । तथाऽपरा अपि विद्याधरकन्याः परिणीय ततो गत्वा सुकोशलां परिणीय तस्या गृहे निर्विघ्नं विषयानुपभुञ्जन्नस्थात् ॥ २॥
इति अष्टमे पर्वणि वसुदेवस्य श्यामादिसुकोशलान्तकन्यापरिणयवर्णनात्मको द्वितीयः सर्गः ॥२॥