________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कौशिकमुनिस्तु नृपात् तामयाचत । ततो नृप उवाच-'सा कुमारेण गृहीता। सति पत्यौ च सा कथमन्यं श्रयेत् ? ततः क्रुद्धः कौशिको नृपमशपत्-'यदि नारी रमयिष्यसि तदैव मरिष्यसी'ति । ततो नृपश्चारुचन्द्राय राज्यं दत्त्वा तापसीभूय वनवासं प्रपन्नवान् । राज्ञी चाऽद्याऽप्यज्ञातगर्भा तेन समं वनं ययौ। प्रकटिते गर्भे च सा पति निवेदयामास । समये पूर्णे च सा ऋषिदत्तां नाम कन्यां सुषेवे । सा च क्रमेण चारणमुनेः समीपे श्राविकाऽभूत् । क्रमेण यौवनं प्रपन्नायास्तस्या माता धात्र्यश्च मृताः ।
एकदा च तत्र शिलायुधो नृपो मृगयार्थं समाययौ । स तां दृष्ट्वा कामातस्तस्या आतिथ्यं स्वीकृत्य तां विविधैः प्रकारै रमयामास । तदा सोचे-'अहमृतुस्नाताऽस्मि, यदि मे गर्भ: स्यात् तदा मम कुलप्रसूताया: का गतिर्भवेत् ?' तत: स नृपो जगाद'अहमिक्ष्वाकुवंशोत्पन्नः शतायुधनृपपुत्रः श्रावस्तीपुरेशः । यदि ते पुत्रो भवेत् तदा स श्रावस्त्यां मम समीपमानेतव्यः । स एव मया नृपो विधास्यते' । एवमुक्त्वा स तामापृच्छ्य स्वस्थानं ययौ । साऽपि पितुः सर्वं वृत्तान्तं कथयामास । समये च पुत्रं सुषुवे । किन्तु प्रसवरोगेण सा ऋषिदत्ता मृता । ज्वलनप्रभस्य नागेन्द्रस्य महिषी बभूव च । अमोघरेताश्च तं बालमादाय नितरां रुरोद । ____ ज्वलनप्रभभार्या च साऽवधेर्शात्वा तत्रोपेत्याऽहं मृगीरूपेण स्तन्येन तमवर्धयम् । तेन स एणीपुत्रनाम्ना ख्यातोऽभवत् । कौशिकश्च विपद्य मत्पितुराश्रमे दृग्विष: सर्पोऽभूत् । स च मत्तातमदशत् । मया च तस्य विषं हृतम् । सोऽहिश्च मया बोधितो विपद्य बलो नाम देवो बभूव । तथाऽहमृषिदत्ताशरीरं कृत्वा श्रावस्त्यामेत्य राज्ञस्तत्सुतमार्पयम् । किन्तु विस्मरणात् स तं
अष्टमं पर्व - द्वितीयः सर्गः नाऽग्रहीत् । ततस्तं पुत्रं तस्याऽन्तिकं मुक्त्वा नभसि स्थित्वा ऽहमवोचं-'वने तदाऽहमृषिदत्ता त्वया रमिता । त्वत्तोऽसौ पुत्रो जज्ञे । अहं तु मृत्वा देवत्वं प्राप्तैणीभूयैनमवर्धयम् । तेऽसावेणीपुत्रो नाम पुत्रः' । ___एवमुक्तः स शिलायुधस्तं राज्ये निधाय प्रव्रज्य दिवं ययौ । तथैणीपुत्रेणाऽष्टभक्तेन प्रसादिताऽहं तस्मै पुत्रीमदाम् । सैषा प्रियङ्गुसुन्दरी । अस्याः स्वयंवरे आहूता नृपास्तयाऽवृता युद्धाय प्रावर्त्तन्त । किन्तु मत्प्रभावादेणीपुत्रेण सर्वे पराजिताः, सा च प्रियङ्गुसुन्दरी त्वां दृष्ट्वाऽद्य वरीतुमिच्छति । त्वदर्थेऽष्टमभक्तेन तयाऽऽराधिताऽस्मि । द्वारपालो गन्धरक्षितश्च मयाऽऽदिष्टस्त्वामवोचत् । तदधुना त्वं तां परिणेतुमर्हसि । यथेष्टं वरं याचस्व' । एवं तयोक्तो वसुदेव उवाच-'मया स्मृता सती समागच्छेः'। सा च तत् प्रपद्य वसुदेवं बन्धुमतीगृहे मुक्त्वा स्वस्थानं जगाम । प्रातश्च द्वारपालेन सह वसुदेव आयतनं ययौ । तत्र च पूर्वमेवाऽऽयातां प्रियङ्गुसुन्दरी गान्धर्वेण विवाहेन मुदितः परिणिनाय । तथा द्वारपालो देवीदत्तवरं वसुदेवमष्टादशे दिने नृपाय निवेदयामास । राजाऽपि तं निजवेश्माऽनयत् । ___ इतश्च वैताढ्ये गन्धसमृद्धके पुरे गन्धारपिङ्गलनृपस्य कन्या प्रभावती नगरे भ्रमन्ती सोमश्रियं दृष्ट्वा तां सखीत्वेन स्वीचकार। तस्याः पतिविरहं ज्ञात्वा च प्रभावती जगाद-'मा खेदमावह', तव प्रियमधुनाऽऽनयामि' । ततः सोमश्रीनिःश्वस्योवाच-'यथा वेगवती तमानयामास तथा त्वमप्यानेष्यसि' । तत: प्रभावती नाऽहं वेगवतीत्युक्त्वा श्रावस्त्यामेत्य वसुदेवं गृहीत्वा तत्र निनाय । वसुदेवश्चाऽन्यवेषं विधाय तत्र सोमश्रिया सहाऽस्थात् ।