________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महिषस्य च प्रतिमां दृष्ट्वा पृष्टेन केनचिद् विप्रेणोक्त:-'अत्र पुरा जितशत्रुनृपो बभूव । तस्य पुत्रश्च मृगध्वज आसीत् । तथा कामदेवो नाम श्रेष्ठी चाऽत्राऽऽसीत् । स एकदा स्वगोष्ठे गतो दण्डकाख्येन गोपालेनोक्त:-'अस्या महिष्या मया पूर्वं पञ्च तनया हताः । अयं तु षष्ठस्तनयो मनोहराकृतिर्जातमात्र एव चञ्चलनेत्रो मत्पादौ नमति । भयात् कम्पमानगात्रश्चाऽस्ति । तेन दयया मयाऽयं रक्षितः । त्वमप्यस्याऽभयं देहि । यतोऽयं कोऽपि जातिस्मर इव लक्ष्यते' ।
तेनेत्थमुक्तः श्रेष्ठी तं महिषं श्रावस्त्यामनयत् । राजा चाऽपि श्रेष्ठिना प्रार्थितस्तस्य महिषस्याऽभयं ददौ. श्रावस्त्यामयं सर्वत्र निर्भयं भ्राम्यत्वि'ति । किन्तु मृगध्वजकुमारेण तस्य महिषस्यैक श्चरणश्छिन्न इति राज्ञा स निर्वासित: प्रव्रज्यां गृहीतवान् । महिषश्चाऽष्टादशे दिने मृतः । ततो द्वाविंशे दिने च मृगध्वजस्य केवलमुत्पन्नम् । देवादयश्च तत्राऽऽगत्य केवलमहिमानं कृत्वा मुनि ववन्दिरे । जितशत्रुनृपश्च मृगध्वजमुनि पप्रच्छ–'महिषेण किं वैरं भवतः ?' ततः केवली जगाद
'पुराऽश्वग्रीवो नामाऽर्धचक्रयभूत् । तस्य सचिवश्च हरिश्मश्रस्तान्त्रिको धर्म निनिन्द । राजा च सदा धर्म समर्थयामास । तेन द्वयोविरोधो ववृधे । तौ च त्रिपृष्ठा-ऽचलाभ्यां हतौ सप्तमं नरकं प्राप्य तत उद्वृत्त्य भवान् भ्रान्त्वाऽहमश्वग्रीवस्तव पुत्रो जातः । हरिश्मश्रुश्च महिषोऽभूत् । प्राग्वैराच्च मया स हतः । मृत्वा चाऽयं लोहिताक्षो नामाऽसुरेश्वरो जातो मां वन्दितुमायातोऽस्ति' । लोहिताक्षश्च तं मुनि वन्दित्वा तस्य श्रेष्ठिनो महिषस्य मुनेश्च रत्लमूर्तीरिह कारयामास । तस्य कामदेवश्रेष्ठिनो वंशे सम्प्रत्यपि
अष्टमं पर्व - द्वितीयः सर्गः कामदत्त श्रेष्ठी तस्य पुत्री बन्धुमती चाऽऽसाते । श्रेष्ठिना तद्वरार्थे पृष्टश्च ज्ञान्याख्यात्-'योऽत्र मुखद्वारमुद्घाटयेत् स ते पुत्र्या वरो भावी'। तच्छ्रुत्वा वसुदेवस्तद्द्वारमुद्घाटयामास । श्रेष्ठी च तत्रोपेत्य वसुदेवाय तां कन्यां ददौ ।
राजपुत्री चाऽपि कौतुकात् तद् द्रष्टुं पित्रा सह तत्राऽऽगता वसुदेवं दृष्ट्वा कामार्ता जाता । ततो द्वारपालः प्रियङ्गुसुन्दर्यास्तां दशामेणीपुत्रचरित्रं च वसुदेवाय कथयामास । तथा प्रातः प्रियङ्गुसुन्दर्या गृहेऽवश्यमागच्छेरित्युक्त्वा स द्वारपालो ययौ । वसुदेवश्च नाटकं ददर्श । तत्राऽ श्रौषीद् यद्-'नमिपुत्रो वासवोऽभूत् । तद्वंश्या बहवो वासवा अभूवन् । तत्र जातः पुरुहूतश्च गजमारुह्य पर्यटन्नहल्यां गौतमभार्यां दृष्ट्वा तामाश्रमे रमयामास । ततश्चाऽपगतविद्यस्य तस्य पुरुषलिङ्गं गौतमश्छेदयामास' । तच्छृत्वा च भीतो वसुदेवः प्रियङ्गुसुन्दरीगृहं न ययौ ।
अथ बन्धुमत्या सह सुप्तो रात्रौ जागरितो वसुदेव एकां देवीं दृष्ट्वा काऽसाविति दध्यौ । सा देवी चाऽपि किं चिन्तयसीति कथयन्ती तं पाणौ गृहीत्वाऽशोकवनिकां नीत्वाऽवोचत्-'अत्र भरते श्रीचन्द्रनपुरे पुराऽमोघरेता नृपोऽभूत् । तस्य चारुमतीकुक्षिजश्चारुचन्द्रः पुत्रोऽभूत् । तथाऽनङ्गसेनाया वेश्याया: कामपताका नाम पुत्र्यासीत् । एकदा च नृपस्य यज्ञे बहवस्तापसा आगताः । कौशिक-तृणबिन्दू उपाध्यायौ च तस्य फलानि ददूः । कुत ईदृशानि फलानीति नृपेण पृष्टौ च तौ हरिवंशोत्पत्त्यानीतकल्पद्रुमस्य कथामूचतुः ।
तदानीं च नृत्यन्ती कामपताका चारुचन्द्रकुमारस्य कौशिकस्य च मानसं जहार । कुमारश्च यज्ञे सम्पन्ने तां स्वाधीनामकरोत् ।