________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सा चाऽश्रूण्युन्मृज्याऽवोचत्- 'शयनोत्थिताऽहं शयने त्वामपश्यन्ती सहाऽन्तः पुरस्त्री भी रुदती प्रज्ञप्त्या विद्यया तव हरणं पतनं च ज्ञातवती । ततः परं वृत्तमजानाना च त्वद्वियोगार्त्ता कञ्चित्कालमतिवाह्य नृपाज्ञया त्वामन्वेष्टुं भ्राम्यन्ती सिद्धायतने मदनवेगया सह दृष्टवती । ततस्त्वामनुसरन्ती पुरमागत्य प्रच्छन्नं स्थिता त्वया मन्नामोच्चारणं श्रुत्वा स्वस्मिंस्तव स्नेहं ज्ञात्वा विरहजं कष्टं मुक्तवती । तदा च क्रुद्धा मदनवेगा गृहं प्रविष्टा । सूर्पणखी चौषधिबलाद् गृहं दग्ध्वा मदनवेगारूपेण त्वामपजहार । तया नीयमानं त्वां ग्रहीतुं धावमानाऽहं सूर्पणख्या दृष्टा तर्जिता च । ततः पलाय्य चैत्यं यान्ती मुनिमलङ्घयम् । तेन च मम विद्या भ्रष्टा । तदानीमेव च धात्री मिलिता । तां चाऽहं त्वदन्वेषणाय प्रेरितवती, सा च भ्राम्यन्ती पर्वताद् निपतन्तं भस्त्रान्तःस्थं त्वां दृष्ट्वा गृहीतवती । तथा नीत्वा ह्रीमत्तीर्थे पञ्चनदे विमुक्तवती । इ वृत्तान्तं श्रुत्वा स तत्र तापसाश्रमेऽस्थात् ।
५४
अथाऽन्यदा स वसुदेवो नद्यां पाशबद्धां कन्यां दृष्टवान् । तदा वेगवत्या प्रेरितः स्वयं च दयालुः स तां कन्यां नागपाशबन्धादमोचयत् । सा च मूच्छिता कन्या जलसेकाद्युपचारेण लब्धसंज्ञा वसुदेवेनोत्थापिता तं प्रदक्षिणीकृत्याऽवोचत्- 'त्वत्प्रभावाद् ममाऽद्य विद्या सिद्धा । तथाऽपरं वृत्तान्तं श्रृणु - 'वैताढ्ये गगनवल्लभपुरे नमिवंशे विद्युद्दंष्ट्रो नाम नृपोऽभूत् । एकदा च स प्रत्यग्विदेहे प्रतिमास्थितं मुनिं दृष्ट्वा 'कोऽप्युत्पातोऽयमित्येनं वरुणाचले नीत्वा हते 'ति स्वानादिश्य तं खेचरैस्ताडयामास । मुनेश्च तस्य शुक्ल ध्यानस्थस्य तदानीमेव केवलमुत्पन्नम् । केवलज्ञानमहिमार्थं च धरणेन्द्रः समाजगाम । तांश्च मुनेरुपसर्गपरान् दृष्ट्वा स क्रोधाद्
अष्टमं पर्व द्वितीयः सर्गः
भ्रष्टविद्यांश्चकार । ततोऽतिदीनास्ते ऊचुः कोऽयमिति न विद्मो वयम् । असावुत्पात इति विद्युद्दंष्ट्रेण प्रेरिता इदं कर्माऽकार्ष्म ।
ततो धरणेन्द्र उवाच - 'युष्माकमज्ञानमहं किं करोमि ? बहुतरेण क्लेशेन पुनर्वो विद्या: सेत्स्यन्ति । किन्तु विद्युद्दंष्ट्रस्य वंशे स्त्रियाः पुरुषस्य वा रोहिण्याद्या महाविद्या न सेत्स्यन्ति, किन्तु महापुरुषस्य साधोर्दर्शनात् ताः सेत्स्यन्ति' । एवमुक्त्वा धरणेन्द्रो निजं स्थानं ययौ । इह च तद्वंशोद्भूता कन्या केतुमती पुरेह विद्याः साधयन्ती पुण्डरीकविष्णुना परिणीता । त्वत्प्रभावाच्च मे विद्या सिद्धा । अहं तद्वंशोद्भवा बालचन्द्रानामा, तद्वशंवदां मां परिणय' । विद्यासिद्धिनिमित्तं किं ते ददामीति तयोक्तो वसुदेवो वेगवत्यै विद्यां देहीत्युवाच । ततः सा वेगवतीमादाय गगनवल्लभपुरं जगाम । वसुदेवश्च तं तापसाश्रयं ययौ ।
तदानीं तत्र गृहीतव्रतौ निजपौरुषं निन्दन्तौ द्वौ नृपौ समायातौ । वसुदेव उद्वेगकारणं पप्रच्छ । ततस्तावूचतुः - श्रावस्त्यामेणीपुत्रः पवित्रात्मा नृपोऽस्ति । स स्वपुत्र्याः प्रियङ्गुसुन्दर्याः स्वयंवरार्थं बहून् नृपान् न्यमन्त्रयत् । किन्तु तत्पुत्री कमपि न वृतवती । तेन क्रुद्धैर्नृपैर्युद्धमारब्धम् । किन्तु तत्पित्रैकाकिनाऽपि सर्वे नृपा जिता विद्रुताश्च । केऽपि च प्राणरक्षार्थं गिरिकन्दरेष्वरण्यादिषु च निलीनाः । आवां च तापसौ जातौ । तन्निजपौरुषं निन्दामि । तच्छ्रुत्वा वसुदेवस्तौ जैनधर्ममबोधयत् । ततस्तौ प्राव्रजताम् । वसुदेवश्च श्रावस्त्यां ययौ ।
तत्र गतश्च स उद्याने त्रिद्वारं देवगृहं प्रेक्ष्य मुखद्वारस्य दत्तैर्द्वात्रिंशताऽर्गलैर्दुःप्रवेशत्वात् पार्श्वद्वारेण तत्र प्रविश्य मुनेर्गृहस्थस्य