________________
५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साधयतस्तत्रस्थस्य चण्डवेगस्य स्कन्धेऽपतत् । तेन च तस्य विद्या सिध्यति स्म । ततः स खेचरस्त्वत्प्रभावाद् मे विद्या सिद्धेति कि ते ददामीत्युवाच । वसुदेवश्चाऽऽकाशगामिनी विद्यां ययाचे । ततस्तेन दत्तां तां विद्यामादाय वसुदेवः कनखलस्य द्वारे समाहितः साधयितुमारेभे । चण्डवेगे गते च विद्युद्वेगनृपकन्या खेचरी मदनवेगा तत्राऽऽगता वसुदेवं दृष्ट्वा कामात तं हत्वा वैताढ्यपर्वते नीत्वोपवनेऽमुञ्चत् । स्वयं चाऽमृतधाराख्ये नगरे प्राविशत् । प्रातश्च त्रयस्तभ्रातरो दधिमुखो दण्डवेगस्तस्य विद्याप्रदश्चण्डवेगश्चैत्य नत्वा तं पुरे नीत्वा मदनवेगया परिणाययामास । वसुदेवश्च तया सह सुखं रेमे । अन्यदा च तया तोषितो वसुदेवस्तस्यै वरं ददौ । ___ एकदा च दधिमुखो वसुदेवं नत्वाऽब्रवीत्-"दिवस्तिलक नाम्नि नगरे त्रिशिखरो नाम नृपोऽस्ति । स च निजपुत्रस्य सूर्पकस्याऽर्थे मद्भगिनीं ययाचे । मत्पिता विद्युद्वेगश्च तस्मै तां नाऽदात्' । मत्पित्रा पृष्टो हि चारणमुनिरकथयत्-'हरिवंश्यो वसुदेवस्तव पुत्र्या वरो भावी । गङ्गायां विद्यां साधयतश्चण्डवेगस्य स्कन्धे स पतिष्यति, तेन च तस्य विद्या सेत्स्यति' । तच्छ्रुत्वा च विशेषतो नाऽदात् तस्मै स्वपुत्रीम् । तेन क्रुद्धेन त्रिशिखरेण बलवता बद्ध्वा स नीतोऽस्ति । तन्मदनवेगाया दत्तं वरं स्मरन् श्वशुरं मोक्तुमर्हसि ।
नमिवंशे तत्पुत्र: पुलस्त्योऽभूत् । तस्य वंशे चाऽरिञ्जयपुरेश्वरो मेघनादोऽभूत् । जामाता सुभूमचक्री च तस्मै श्रेणिद्वयं दिव्यानि ब्रह्माग्नेयादिकान्यस्त्राणि च ददौ, तस्य वंशे रावणो विभीषणश्चाऽभूताम् । विभीषणस्य वंशे च मम पिता विद्युद्वेगः । क्रमायातानि तान्यस्त्राणि गृहाण । महाभाग्यस्य ते तानि सफलानि
अष्टमं पर्व - द्वितीयः सर्गः स्युर्मन्दभाग्यस्य तान्यफलानि' । ततो वसुदेवस्तान्यस्त्राणि गृहीत्वाऽसाधयत् । त्रिशिखरश्च मदनवेगां भूचराय प्रदत्तां श्रुत्वा क्रुद्धः स्वयं योद्धमाययौ । वसुदेवश्चाऽपि मायानिर्मितं विद्याधरापितं स्वर्णमुखं रथमारुह्य दधिमुखादिभिः परिवृतो युयुधे । तथैन्द्रास्त्रेण त्रिशिखरस्य मूर्धानं च्छित्त्वा वसुदेवो दिवस्तिलकपुरमेत्य श्वशुरममोचयत् । तत एत्य श्वशुरपुरे वसतो वसुदेवस्य मदनवेगायामनाधृष्टिनामा पुत्रोऽभवत् ।
अन्यदा च सिद्धायतनयात्रां कृत्वाऽऽगतो वसुदेवो मदनवेगां वेगवत्येहीत्यब्रवीत् । तेन च क्रुद्धा साऽन्तर्गृह शय्यां जगाम । तदानीं च त्रिशिखरपत्न्या सूर्पणख्या मदनवेगारूपया तद् गृहं दग्ध्वा वसुदेवोऽपहतः । तथा हन्तुमिच्छया तया स राजगृहसमीपे मुक्तस्तृणपुञ्जस्योपरि पतितः । जरासन्धस्तुति श्रुत्वा च तन्नगरं राजगृहं ज्ञात्वा तत्र गतो द्यूतैः स्वर्णकोर्टि जित्वा याचकाय ददौ । ततश्च स आरक्षैर्बद्ध्वा नृपसमीपं नीयमानो विनाऽपराधं किं मां बध्नासीति तान् पृष्टवान् । ततस्ते ऊचुः-'जरासन्धस्य ज्ञानिना कथितं यत्, प्रभाते यः स्वर्णकोटि जित्वा याचकाय दास्यति तत्पुत्रस्तव हन्ता । त्वं स एवाऽसीति विनाऽपराधमपि हन्यसे' । एवमुक्त्वा च ते वसुदेवं भस्त्रायां क्षिप्त्वाऽपवादभयाद् हन्तुमिच्छवो गुप्तमद्रेरलोठयन् ।
अथ वेगवत्या धात्री च मध्य एव तमग्रहीत् । तयोझमानश्च वसुदेवो दध्यौ-'मन्ये चारुदत्तवन्नभसि भारुण्डेन गृहीतोऽस्मि' । तया पर्वते मुक्तश्च वेगवत्याः पदद्वयमुपलक्ष्य भस्त्राया निर्गतवान् । रुदतीं च तामालिङ्ग्य त्वया कथमहं धृत इत्यपृच्छत् ।