________________
५०
.....५१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___अन्यदा चेन्द्रोत्सवे स श्वशुरेण सह दिव्यं रथमारुह्य महापुरपुरं ययौ । तत्र च पुराद् बहिरेव नूतनान् प्रासादान् प्रेक्ष्य किमिदं द्वितीयं पुरमिति श्वशुरं पप्रच्छ । ततः सार्थवाह उवाच-'अत्र सोमदत्तो नाम राजाऽस्ति । तस्याः सोमश्री म कन्याऽस्ति । तस्याः स्वयंवरार्थमिमे प्रासादा निर्मापिताः । भूयांसो नृपाश्चाऽऽहूतास्तेषामकुशलत्वाद् विसृष्टाः' । तच्छृत्वा वसुदेवो गत्वेन्द्रस्तम्भं ननाम । नृपस्याऽन्तःपुरमपि तदानीं तत्राऽऽगतमासीत् । तदा च नृपस्य गज आलानमुत्पाट्य तत्राऽऽगतो रथाद् राजकुमारी भूतले पातयामास । वसुदेवश्च तामशरणां दीनां दृष्ट्वा गजं खेदयित्वा छलयित्वा च तामेकस्मिन् गृहे नीत्वोत्तरीयपवनादिना समाश्वासयामास । ततः सा धात्रीभिर्गृहं नीता । वसुदेवश्च श्वशुरेण सह स्वं स्थानं जगाम । तत्र च यावद् वसुदेवः स्नातभुक्तोऽस्थात् तावत् तत्रैत्य नृपप्रतिहारी नत्वाऽब्रवीत्-'पुरा सोमदत्तनृपस्य सोमश्रीनामपुत्र्याः स्वयंवरोऽभूत् । किन्तु तस्याः सर्वाणमुनेः केवलोत्सवे समागतान् देवान् पश्यन्त्या जातिस्मरणं जातम् । तत्प्रभृति च सा मौनमास्थितवती ।
मया चैकदा रहसि पृष्टाऽब्रबीत्-'महाशुके देवो मया सह चिरं भोगानभुक्त । एकदा च मया सह नन्दीश्वरादिषु यात्रां कृत्वा स्वस्थानमागच्छन् स च्युतवान् । अहं च शोका" तमन्वेषयन्ती कुरुषु गत्वा केवलज्ञानिनौ क्व मे पतिरित्यपृच्छम् । तौ च तव पतिर्हरिवंशे नृपगृहे जातोऽस्ति, त्वमपि च्युत्वा राज्ञः पुत्री भविष्यसि । यदा चेन्द्रोत्सवे स त्वां गजात् त्रास्यते, तदा स पुनस्तव पतिर्भविष्यतीत्यूचतुः । ततस्तं वन्दित्वा स्वस्थानं गता च्युत्वा च सोमदत्तनृपस्य कन्याऽभूवम् । सर्वाणमुनिकेवलोत्सवे च देवान् दृष्ट्वा जातिस्मरणं प्राप्ता मौनमास्थिताऽस्मि । ततस्तस्या वचः
अष्टमं पर्व - द्वितीयः सर्गः श्रुत्वाऽहं सर्वं राज्ञे निवेदितवती । राज्ञा च स्वयंवरे समागताः सर्वे नृपा विसृष्टाः । त्वया गजाद् मोचितायाश्च तस्याः प्रत्ययो जातः । तत्त्वामानेतुं प्रेषिताऽस्मि, तदेहि, तां परिणय च' । ततो वसुदेवस्तया सह गत्वा सोमश्रियं परिणीय तया सह सुखं रेमे ।
अन्यदा च निशि प्रबुद्धो वसुदेवस्तामदृष्ट्वा दिनत्रयं रुदनेव शून्यमनस्कस्तस्थौ । अनन्तरं चोपवने स्थितां तां दृष्ट्वा कि नष्टाऽसीत्यपृच्छत् । ततः सोवाच-'त्वदर्थं मया विशिष्टो नियमो गृहीतोऽस्ति, तत एव दिनत्रयं मौनेन स्थिताऽस्मि । एतां देवतां पूजयित्वा पुनर्मम पाणिग्रहणं कुरु । अत्रैष विधिरस्ति' । ततो वसुदेवस्तथा चकार । देव्या निर्माल्यमिति कृत्वा तया मद्यं पायितश्च वसुदेवस्तया रतिसुखमन्वभूत् ।
एकदा तया समं सुप्तश्च निशि प्रबुद्धस्तामन्यरूपां दृष्ट्वा काऽसीति पप्रच्छ । ततः सोचे-'दक्षिणश्रेण्या सुवर्णाभपुरे चित्राङ्गो नाम राजा बभूव । तस्याऽङ्गारवत्यां प्रियायां मानसवेगः पुत्रो वेगवत्यहं कन्या च जातौ । चित्राङ्गस्तु पुत्र राज्ये निधाय प्रवव्राज । मद्भात्रा च तव पत्नी हृता । किन्तु महासती सा तं न स्वीचकार । मां सखीं मन्यमाना त्वामानेतुमादिशत् । अत्राऽऽयाता त्वां दृष्ट्वा च कामार्ताऽहमीदृशमकार्षम् । त्वं मम पतिरसि' । प्रातश्च लोको वेगवतीं दृष्ट्वा विस्मयं जगाम । साऽपि पत्याज्ञया सोमश्रीहरणं लोके जगाद ।
अन्यदा च रतिश्रान्तो निशि तया सह सुप्तो वसुदेवो मानसवेगेन खेचरेणाऽपहृतः । वसुदेवश्च ज्ञात्वा मुष्ट्या तं जघान । प्रहारपीडितश्च स तं गङ्गाजलेऽमुञ्चत् । वसुदेवश्च खेचरस्य विद्या