________________
पुरुषतम्-गद्यात्मकसारोद्धारः वनमालिका च' । ततो वसुदेवस्तस्माद् विद्यां गृहीत्वा जपन् तेनेन्द्रशर्मणा शिबिकायामारोप्याऽपहतः । वसुदेवश्च तमुपसर्गं ज्ञात्वा विद्यां जजाप । प्रातश्च तां मायां ज्ञात्वा शिबिकाया अवतीर्येन्द्रशर्मादिष्वनुधावमानेष्वपि गतिलाघवात् तानतीत्य सायं तृणशोषकं नाम ग्रामं प्राप । तत्राऽऽयतने सुप्तो नरभक्षकेणाऽऽगत्योत्थापितः । वसुदेवश्च तं मुष्टिभिर्निघ्नन् चिरं युद्ध्वा वस्त्रेण बद्ध्वा भूमौ चिरमास्फाल्य गतासुं चकार । प्रातश्च लोकस्तद् दृष्ट्वा प्रसन्नो वसुदेवं रथे समारोप्य तूर्यादिपूर्वकं ग्रामे प्रवेशयामास । तथा तस्मै तत्क्षणं पञ्च कन्याशतानि ददौ । वसुदेवश्च तान् तथा कुर्वतो निषिध्य कोऽसौ नरभक्षक इत्यपृच्छत् ।
४८
तेष्वेकः पुरुषो जगाद - कलिङ्गेषु श्रीकाञ्चनपुरे जितशत्रुनृपस्य सोदासो नामाऽयं सुतो मांसगृध्नुः । नृपस्तु स्वयं देशे प्राण्यभयप्रदः । स नृपश्च पुत्रेण प्रतिदिनमेकमयूरमांसं याचितस्तदनभिमतमपि प्रपन्नवान् । एकदा च वंशगिरेः पाकाय सूदेन समानीतं मयूरं हतं मार्जारोऽपजहार । ततो भयात् सूदो मृतबालस्य मांसमेव पक्त्वा तस्मै ददौ । सोदासोऽप्यद्य सुस्वादुमांसं कस्येति सूदमपृच्छत् । सूदेन यथातथं कथितश्च स स्वयमेव मांसार्थं बालानपजहार । नृपेण ज्ञात्वा च क्रोधात् स देशाद् निर्वासितः । ततः स सोदासोऽत्र दुर्गे वसन् प्रत्यहं पञ्चषान् नरान् हन्ति स्म । स त्वया साधु हतः ।
तैरेवमुक्तो वसुदेवस्ताः कन्याः परिणीय तां रात्रिं तत्रोषित्वा प्रातरचलग्रामं प्राप्तवान् । तत्र च सार्थवाहपुत्रीं मित्रश्रियं ज्ञानिना तस्या वरत्वेन पुरा कथितो वसुदेवः परिणीतवान् । वेदसामपुरं गच्छंश्च वनमालिकयाऽऽहूय निजगृहं नीतः । तया
अष्टमं पर्व द्वितीयः सर्गः
वसुदेवोऽयमित्याख्यातस्तत्पिता तं सत्कृत्योवाच - अत्र कपिलो नाम नृपोऽस्ति, तस्य कपिलायाः कन्यायाः ज्ञानिना त्वं गिरितटग्रामे तिष्ठन् वरः कथितः । तत्त्वामानेतुं राज्ञा मज्जामातैन्द्रजालिक इन्द्रशर्मा प्रेषितः । किन्तु त्वं मध्य एव पलाय्य क्वाऽपि गत इत्यत्रैत्य स आख्यत् । दिष्ट्याऽऽगतोऽसि । तस्य नृपस्याऽश्वं दमय । तस्या विवाहे सा प्रतिज्ञाऽस्ति' । ततो वसुदेवो राज्ञोऽश्वमदमयत् कपिलां परिणिनाय च । तथा तेन नृपेण तत्पुत्रेणांऽशुमताऽपि च पूजितस्तत्र वसन् कपिलायां कपिलं नाम पुत्रं जनयामास ।
अन्यदा च हस्तिबन्धे गतो हस्तिनं बद्ध्वा तमारोहंस्तं नभस्युत्पतन्तं मुष्टिना जघान । स च पतन्नीलकण्ठनामा विद्याधरो बभूव, यः पुरा नीलयशोविवाहे योद्धुमागतः । ततोऽटन् वसुदेवः सालगुहाख्ये पुरे समागतस्तत्र भाग्यसेनं नृपं धनुर्वेदमध्यापयामास । तत्र च भाग्यसेनेन योद्धुं तदग्रजं मेघसेनमागतं पराजिग्ये । ततो वसुदेवो भाग्यसेनस्य पद्मावतीं कन्यां मेघसेनस्याऽश्वसेनां च कन्यां परिणीतवान् । तत्र च ताभ्यां चिरं रन्त्वा भद्दिलपुरं गतस्स:
तत्राऽपुत्रस्य मृतस्य पुण्ढ्रराजस्यौषधिवशात् पुंवेषां पुण्ढां नाम कन्यां राज्यं कुर्वतीं परिणीय तस्यां पुण्ड्रं नाम सुतं जनयामास । स पुण्श्च तत्र पश्चाद् नृपोऽभवत् । तत्र चाऽङ्गारको नाम विद्याधरो वसुदेवं हंसव्याजेनाऽपहृत्य गङ्गायां चिक्षेप । प्रातश्च वसुदेव इलावर्धनपुरे सार्थवाहस्याऽऽज्ञया तत्प्रासादं प्रविष्टवान् । तत्प्रभावाच्च तस्य सार्थवाहस्य स्वर्णलक्षं लाभोऽजनि । ततः स वसुदेवप्रभावं ज्ञात्वा सगौरवं तं सत्कृत्य स्वर्णरथे समारोप्य निजगृहमानीय निजां रत्नवतीं नाम कन्यां ददौ ।