________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
स्वागतमस्त्वित्यादरात् तया प्रोक्तश्च स प्रेतस्तस्यै वसुदेवं समर्प्य तया सत्कृतस्तिरोहितवान् । ततः सा हिरण्यवती वसुदेवमूचे'कुमार ! त्वया किं विचारितम् ? इदानीमपि ममाऽऽग्रहाच्चिन्तय' । तदानीमेव च पूर्वं दृष्टा सा नीलयशाः सखीभिः परिवृता तत्राऽऽगता । तया पितामह्या च स्वप्रियं गृहाणेत्युक्ता सा वसुदेवं गृहीत्वा विहायसा ययौ ।
४६
ततः प्रातर्हिरण्यवती वसुदेवं जगौ - 'असौ हीमान्नाम महागिरिर्मेघप्रभनाम्ना वनेन व्याप्तोऽस्ति । चारणाधिष्ठिते चाऽत्र पर्वते ज्वलनपुत्रोऽङ्गारको विद्याधरेन्द्रो भ्रष्टविद्यो विद्या: साधयति । तस्य च विद्याश्चिरेण सेत्स्यन्ति, किन्तु त्वद्दर्शनादाशु सेत्स्यन्ति । तद्गत्वा तस्योपकर्तुमर्हसि । ततोऽलमेतेनेति वसुदेवेनोक्ता सा तं वैताढ्ये शिवमन्दिरपुरमनैषीत् । सिंहदंष्ट्रनृपेण स्वगृहे नीत्वा याचितश्च वसुदेवस्तां नीलयशसं परिणीतवान् ।
तदानीं च तत्र तुमुलं श्रुत्वा कारणं पृष्टो द्वारपाल उवाच - 'इह शकटमुखं नाम नगरमस्ति । तत्र नीलवान्नाम नृपो नीलवती तस्य भार्या तयोर्नीलाञ्जना नाम पुत्री नीलनामा पुत्रश्च सन्ति । नीलस्य नीलाञ्जनया प्राक्प्रतिज्ञा जाता यत् त्वत्पुत्र्या मम पुत्रस्य पाणिग्रहः कार्य: । तत्र नीलाञ्जनाया इयं तव प्रिया नीलयशा पुत्री । नीलस्य च नीलकण्ठनामा पुत्रोऽभवत् । नीलश्च प्राक्प्रतिज्ञानुसारेण पुत्रार्थे नीलयशसमयाचत । किन्तु सिहदंष्ट्रेण पृष्टो बृहस्पतिमुनिरुवाच-‘विष्णोरर्धचक्रिणः पिता वसुदेवोऽस्या वरो भावी' । तत्त्वं विद्ययेहाऽऽनीत इमां परिणीतवानसि । नीलश्च तदर्थं समागतो जितश्च, तेन तुमुलो जायते' । तच्छ्रुत्वा प्रसन्नो वसुदेवस्तया सह क्रीडन् शरदि विद्याधरान् विद्यौषधाद्यर्थं ड्रीमन्तं गच्छतो ददर्श ।
अष्टमं पर्व द्वितीयः सर्गः
अथ स वसुदेवो नीलयशसं मह्यमपि विद्यां देहीत्युक्तवान् । सा च तथाऽस्त्वित्युक्त्वा तमादाय ड्रीमन्तमद्रिं ययौ । तत्र च वसुदेवं रिरंसुं ज्ञात्वा सा कदलीगृहं विकृत्य तं रमयन्ती मयूरमेकं दृष्ट्वा तस्य पूर्णकलापेन विस्मिता तं ग्रहीतुं स्वयं दधावे । स च धूर्तो मयूरस्तां स्वसमीपगतां स्वस्मिन् समारोप्य नभसि नीत्वा जह्रे । तं मयूरमनुधावमानश्च वसुदेवो घोषं कमपि प्राप्य तत्र गोपालिकाभिः सत्कृतो रात्रिमतिवाह्य प्रातर्दक्षिणां प्रति प्रस्थितवान् । गिरिसमीपस्थं ग्रामं प्राप्य च तत्रोच्चैर्वेदध्वनिं श्रुत्वा कमपि द्विजं तद्ध्वनिकारणं पृष्टवान् ।
ततो द्विज उवाच- 'रावणकाले नारदाय दिवाकरो विद्याधरः स्वसुतामदात् । तद्वंश्यः सुरदेवो द्विजोऽत्र ग्रामे ग्रामणीरस्ति । तस्य क्षत्रियायां भार्यायां वेदज्ञा सोमश्रीर्नाम कन्यकाऽस्ति । तत्पित्रा च करालो ज्ञानी तस्या वरार्थं पृष्टो य एतां वेदे जेष्यति स एनां परिणेष्यती' त्युवाच । तामेव विजेतुमत्र लोकोऽनिशं वेदाभ्यासपरोऽस्ति । अत्र ब्रह्मदत्तनामोपाध्यायोऽस्ति' । तच्छ्रुत्वा वसुदेवो द्विजरूपं विधाय तमुपाध्यायमूचे- 'अहं गौतमगोत्र: स्कन्दिलस्त्वत्तो वेदानध्येष्ये' । ततस्तेनाऽनुज्ञातस्ततो वेदानधीत्य सोमश्रियं वेदे जित्वा परिणिनाय ।
तया रममाणश्च स उद्यानं गतस्तत्रेन्द्रशर्मनामानमैन्द्रजालिकं विस्मयकारिणीं तद्विद्यां च दृष्ट्वा ततस्तां विद्यामयाचत । ततः स ऐन्द्रजालिक उवाच - 'इमां मानसमोहिनीं विद्यां गृहाण । इयं विद्या सायं समारब्धा प्राता रवेरुदये सिद्ध्यति । किन्तु तत्रोपसर्गा जायन्ते इति कोऽपि सहायः क्रियताम्' । ततो वैदेशिकस्य मे न कोऽपि मित्रमिति वसुदेवेनोक्तः सोऽवदत्- 'तवाऽहमेव मित्रं मम पत्नी