________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पालयामास । वेदादिशास्त्रं पाठयामास च । स च महाप्राज्ञो वादिदर्पभञ्जकोऽभवत् । सुलसा - याज्ञवल्क्यौ च ततो वादार्थं समाजग्मतुः । स च द्वावपि वादे जित्वा तौ निजपितरौ ज्ञात्वाऽऽभ्यामहं त्यक्त इति क्रुद्धः पितृमेध - मातृमेधयज्ञयोस्ताववत् ।
४४
तदानीं च पिप्पलादस्य शिष्यो वाग्बलिर्नामाऽहं पशुमेधादियज्ञं कृत्वा भयङ्करं नरकमासदम् । नरकादृद्धृत्य च पञ्चवारान् पशुषु जातः, पुनः पुनर्निर्दयैर्द्विजैर्यज्ञे विनाशितः । ततः टङ्कणेऽजो जातोऽमुना चारुदत्तेनोपदिष्टधर्मा रुद्रेण हतः सौधर्ममानुवम् । तदयं चारुदत्तो मम धर्माचार्यः । तस्मात् स एव क्रममुल्लङ्घ्य पूर्वं नमस्कृतो मया'। तच्छ्रुत्वा तौ खेचरावूचतुः - 'अयं तवेव मत्पितुरप्युपकारी' । ततः स देवो मामवोचत् - ' तव किमहं प्रत्युपकरोमि । ततो मया समये समागच्छेरित्युक्तस्तिरोहितवान् । ताभ्यां विद्याधराभ्यां चाऽहं शिवमन्दिरपुरं नीतः । तत्र ताभ्यां तज्जनन्या च सत्कृतोऽस्थाम् ।
अथ तौ गन्धर्वसेनां निजभगिनीं प्रदश्यैवमूचतुः प्रव्रजंस्तात आवामेवमादिशत्-यद् वसुदेवकुमारः कलास्वमूं जित्वा परिणेष्यतीति ज्ञानिना ममाऽऽख्यातम् । तन्मद्बन्धोर्भूचरस्य चारुदत्तस्येयमर्पणीया । येन भूचरो वसुदेव इमां सुखं परिणयेत्' । तत इमां स्वपुत्रीं गृहीत्वा गच्छ' । ताभ्यामेवमुक्तोऽहं यावच्चलामि तावत् स देवोऽभ्यगात् । तथा स देवस्तौ खेचरावन्ये च तदाश्रिता विद्याधरा व्योमयानेनाऽक्लेशेन मामिहाऽऽनिन्युः । स्वर्ण- माणिक्य मुक्तानां कोटिकोटीमें दत्त्वा ते सर्वे स्वं स्वं स्थानं जग्मुः । प्रातश्च सर्वार्थमातुलं भार्यां मित्रवतीं वसन्तसेनां वेश्यां चाऽऽबद्धवेणिकामपश्यम् । तदस्या गन्धर्वसेनाया उत्पत्तिस्ते मया कथिता । एनां
अष्टमं पर्व द्वितीयः सर्गः वणिक्पुत्रीति माऽवज्ञासी: । ततो वसुदेवश्चारुदत्तादिमं वृत्तान्तं श्रुत्वाऽत्यन्तं प्रसन्नो गन्धर्वसेनया सह सुखं रेमे ।
अथ चैत्रे मासि तया सहोद्यानं गच्छन् रथारूढो मातङ्गवेषां मातङ्गपरिवृत्तां कन्यां वसुदेव ऐक्षिष्ट । गन्धर्वसेना च मातङ्गकन्या - वसुदेवौ परस्परं सविकारौ प्रेक्ष्य सरोषा सारथि वेगेन रथचालनमादिदेश । वसुदेवश्चोपवनं गत्वा तया सह क्रीडित्वा च चम्पानगरीमागतः । मातङ्गसमूहाच्च काचिज्जरती मातङ्गिकोपेत्याऽऽशीर्वचनमुच्चार्योपविश्य वसुदेवमुक्तवती ।
'पुरा वृषभध्वजः स्वं राज्यं पुत्राणां स्वेषां च विभज्याऽदात् । किन्तु तदा तत्र नमि-विनमी नाऽभूताम् । तौ चाऽऽगतावलब्धराज्यौ राज्यार्थं व्रतस्थमपि तं प्रभुं भेजाते । धरणेन्द्रश्च तयोर्द्वयोः पृथक् पृथक् श्रेण्यो राज्यमदात् । कालान्तरे च तौ राज्यं सुतेभ्यो दत्त्वा प्रभुसन्निधौ प्रव्रज्य शिवं जग्मतुः । नमिपुत्रो मातङ्गश्च प्रव्रज्य स्वर्गं ययौ । तद्वंशे प्रहसितो नाम विद्याधरेश्वरोऽस्ति । अहं तस्य हिरण्यवती नाम भार्याऽस्मि । मम पुत्रश्च सिंहदंष्ट्रस्तस्य पुत्री च नीलयशा:, या त्वयाऽदृश्यत । तां त्वद्दर्शनेन कामार्त्तो परिणय, अयं शुभः क्षणः, सा विलम्बं न सहते'। ततो वसुदेवो विचार्य वक्ष्यामि, समये समागच्छेरिति तामुवाच । सा च तावदहं जीविष्यामि न वेति को वेत्ति ? एवमुक्त्वा क्वाऽपि ययौ ।
अथाऽन्यदा वसुदेवो ग्रीष्मे जलक्रीडां विधाय गन्धर्वसेनया सह शिश्ये । तदानीं चैको भूतस्तं करे दृढं गृहीत्वोत्तिष्ठेति वदन्नहरत् । तथा तं चितासमीपं नीतवान् । तत्र गतश्च वसुदेवो ज्वलितमग्नि तां च हिरण्यवतीं भीषणरूपामपश्यत् । चन्द्रवदन ! तव