________________
४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रस्थित इषुवेगवतीं नदी मार्गे उत्तीर्याऽऽवां गिरिकूटे वेत्रवने गतौ। ततश्च टङ्कणदेशं प्राप्य द्वौ मेषौ क्रीत्वा तदारुह्याऽजपथमतीतवन्तौ ।
ततो रुद्रोऽवोचत्-'अतः परं न पादचारि गन्तव्यो देशः । अतो मेषौ हत्वाऽन्तर्लोमे बहिर्मासे भस्त्रे विदधावहे । तयोरन्तःप्रविष्टौ चाऽऽवां भारण्डपक्षिभिर्मासभ्रमादुन्नीतौ स्वर्णभूमिं प्राप्स्यावः' । ततोऽहमवोचं-'ययोः साहाय्येन दुर्गमां भूमि लङ्गितवन्तौ तौ बन्धुभूतावेतावजौ कथं हन्वः' । ततः क्रुद्धो रुद्रोऽब्रवीत्-'नैतौ तावकाविति त्वया न निषेद्धव्योऽहम्' । एवमुक्त्वा स आदौ निजं मेषमवधीत् । द्वितीयश्चाऽजो मां कातरदृष्ट्याऽपश्यत् । तं च त्वां त्रातुं नाऽहं समर्थः, तथाऽपि तव जैनो धर्मो महाफल: शरणमस्त्वि 'त्यहमवोचम् । तथा सोऽजो मया कथितं धर्म नम्रशिरसा प्रपद्य मद्दत्तं नमस्कारमन्त्रं चाऽ श्रौषीत् । तथा रुद्रेण हत: स देवत्वं प्राप ।
ततश्चाऽऽवां क्षुरमादाय तयोर्भस्त्रयोरन्तः प्रविष्टवन्तौ । भारण्डाभ्यामुन्नीतौ चाऽऽवाम् । किन्तु सर्वामिषेच्छया युध्यमानयोर्द्वयोरहं मार्गे सरस्यपतम् । ततः क्षुरेण भस्त्रां विदार्य सरस्तीत्वाऽग्रे गच्छन् वने महागिरिमारूढः कायोत्सर्गस्थं मुनि दृष्ट्वा तं वन्दितवान् । __स च धर्मलाभाशिषं दत्त्वोवाच-'चारुदत्त ! त्वमिह दुर्गभूमौ कथमागत: ? इह सुरादिकं विना नाऽन्यस्य गतिरस्ति । एषोऽहममितगतिर्यस्त्वया पुरा मोचितः । तदानीं हि ततोऽहमुत्पत्याऽष्टापदसमीपे शत्रुमग्रहीषम् । किन्तु स मम प्रियां त्यक्त्वा पलाय्याऽष्टापदं जगाम । अहं च पतन्तीं तां प्रियां नीत्वा स्वस्थानमगमम् । मत्पिता च राज्ये मां न्यस्य चारणमुन्योहिरण्यस्वर्णकुम्भयोः पार्श्वे व्रतं गृहीतवान् । मम च मनोरमायां पत्न्यां
अष्टमं पर्व - द्वितीयः सर्गः सिंहयशा नाम पुत्रोऽभवत् । तथा द्वितीयो वराहग्रीवो नाम पुत्रोऽभवत् । तथा विजयसेनायां पल्यां गन्धर्वसेना नाम सर्वकलाकुशला रूपवती पुत्री चाऽजायत । ततोऽहं द्वयोः पुत्रयो राज्यं यौवराज्यं विद्याश्च दत्त्वा तयोरेव चारणमुन्योतमग्रहीषम् । अयं च लवणाब्धिमध्यस्थः कुम्भकण्ठको नाम द्वीपः, अयं पर्वतश्च कर्कोटको नाम । अत्रैव स्थितस्तपः करोमि' । एवमुक्त्वा कथमत्राऽऽगम इति तेन पृष्टश्चाऽहमपि सर्वमात्मवृत्तान्तमकथयम् ।
अत्राऽवसरे च तत्र विहायसा द्वौ विद्याधरौ तत्तुल्यरूपौ तत्रैत्य तं प्रणेमतुः । रूपसादृश्याच्च तौ मुनिसुताविति मया ज्ञातौ । मुनिश्च चारुदत्तं प्रणमतमिति तावुवाच । तौ च तात तातेति जल्पन्तौ मां प्रणम्योपविविशतुः । तदैव च तत्र दिवो देवविमानमवातरत् । देवश्च तद्विमानादवतीर्य मां नत्वा मुनिमप्यवन्दत । ताभ्यां विद्याधराभ्यां वन्दनविपर्ययं पृष्टश्च स देवोऽवदत्-'अयं चारुदत्तो मम धर्माचार्यः ।
काशीपुर्या द्वौ परिव्राजौ सुभद्रा-सुलसे भगिन्यौ सर्वशास्त्रनिपुणे बभूवतुः । ताभ्यां च बहवो वादिनः पराजिताः । अन्यदा च याज्ञवल्क्यो नाम परिव्राड् वादायाऽऽययो, तत्र च जितो जेतः शुश्रूषक: स्यादिति प्रतिज्ञा जाता । तथा तेन सुलसा जिता दासीकृता च । स याज्ञवल्क्यश्च तया तरुण्या सेव्यमान: कामवशं गतस्तया सह सुरसमीपे निवसन् चिक्रीड । तस्यां च तस्य सुतोऽजायत । लोकापवादभयाच्च तौ पिप्पलतले सुतं विहाय पलायितौ । सुभद्रा च तज्ज्ञात्वा तत्राऽऽगत्य स्वयं मुखे पतितं पिप्पलफलं भक्षयन्तं तं बालकं गृहीत्वा पिप्पलाद इति नाम कृत्वा