________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
दवाग्निना दग्ध इति मातुलेन मन्दभाग्योऽहमिति कृत्वा त्यक्तः । ततश्चैकाक्यप्यश्वारूढः पश्चिमां दिशं प्रस्थितः । सोऽप्यश्वो मृतः । तत: पादचारी सुदीर्घमार्गखिन्नः क्षुत् - तृषार्दितो वणिग्जनसम्भृतं प्रियङ्गुनगरं प्राप्त: । तत्र पितुर्मित्रेण सुरेन्द्रदत्तेन दृष्ट: पुत्रवद् वस्त्राऽन्नाद्यैः सत्कृतो यथासुखमस्थाम् ।
४०
तेन वार्यमाणोऽपि च ततो वृद्धया द्रव्यलक्षमादाय धनोपार्जनार्थमुपात्तभाण्डोऽहं प्रवहणेन समुद्रं प्राविशम् । ततो यमुनाद्वीपं प्राप्याऽन्तद्वीपपुरादिषु गतागतं कुर्वन्नष्टौ स्वर्णकोटीरुपार्जयम् । ततो जलमार्गेण स्वदेशं प्रति प्रस्थितः स्फुटिते यानपात्रे किमपि फलकमासाद्य सप्तभिर्वासरैरम्बुधिं तीर्त्वादुम्बरावतीवेलं नाम तटं प्राप्तवान् । तत्र च राजपुरं नाम पुरं कथमपि प्राप्य बहिस्तस्याऽऽश्रमं गत उत्तुङ्गवटवृक्षतले दिनकरप्रभं परिव्राजकं त्रिदण्डिनं दृष्ट्वा तस्मै स्वकुलादिकमाख्यातवान् । तेन च प्रसन्नेन पुत्रवदुपचरितः ।
अन्येद्युश्च 'धनार्थीव लक्ष्यसे, तदेहि पर्वतं गच्छावः । तत्र ते रसं दास्यामि । येन तव यथारुचि स्वर्णकोटयो भविष्यन्ती' ति तेनोक्तः । ततः सोऽहं च चलितावनेकसाधकसमन्वितां महाटवीं प्राप्तौ गच्छन्तौ पर्वतस्य नितम्बे बहुयन्त्रशिलादियुक्तं महाबिलं गतौ । त्रिदण्डिकच तद्द्वारं मन्त्रेणोद्घाटयामास । ततो दुर्गपातालाभिधानं तन्महाबिलं प्रविश्य तत्र बहु भ्रान्त्वा रसाकरं कूपं प्राप्तौ । तच्च कूपं नरकद्वारवद् भीषणं चतुर्हस्तविस्तारमासीत् । ततश्च तेन 'कूपं प्रविश, अलाबुना रसं गृहाणे' त्युक्तस्तद्गृहीतरज्ज्वा मञ्चिकया कूपे प्राविशम् । तदा चतुः पुरुषनिम्नं मेखलापरिवारितं रसं दृष्ट्वा यावदाददामि तावत् केनचित् पुरुषेण निषिद्धाः ।
अष्टमं पर्व द्वितीयः सर्गः
तदाऽहमवोचं- 'यच्चारुदत्तो वणिगस्मि, त्रिदण्डिना रसार्थं प्रवेशितोऽस्मि, तन्मां किं निषेधसि ?' ततः सोऽवोचत् - 'अहमपि वणिगस्मि धनाकाङ्क्षी, तेन त्रिदण्डिना रसकूपे क्षिप्तः । ममाऽपरकायो रसेन भक्षितः । तन्मा विश, अहं तेऽलाबुनि रसं क्षेप्स्यामि' । ततो मया दत्तेऽलाबुनि स रसं पूरयामास । तच्च मञ्चकादधस्ताद् बद्ध्वा रज्जुमहमकम्पयम् । स त्रिदण्डी च रज्जुं चकर्ष । मयि तटासन्नं गते च स रसमयाचत, मञ्चकाच्च नोत्तारयति स्म । ततोऽहं तं लुब्धं दुर्जनं ज्ञात्वा रसं कूपेऽक्षिपम् । स च मां समञ्चकं कूपेऽक्षिपत् । तेनाऽहं वेद्यामपतम् । ततो निष्कारणोपकारी स वणिग् मामवोचत- 'मा विषीद, रसान्तर्न गतोऽसि । वेद्यां स्थितोऽसीत्येतत् साधु । यदाऽत्र गोधैति, तदा तत्पुच्छमवलम्ब्य द्वारं गमिष्यसि तदागमनं प्रतीक्षस्व' । ततः स पुरुषो मृतः । अहं च नमस्कारमन्त्रं जपन् कियन्तं कालं तत्राऽस्थाम् ।
अन्यदा च भीषणं शब्दं श्रुत्वा चकितोऽहं वणिग्वचः स्मृत्वा गोधाऽऽयातीति निश्चयं कृतवान् । रसं पातुमागतायाः पीत्वा वलितायाश्च तस्याः पुच्छमुभाभ्यां हस्ताभ्यां दृढमगृह्णाम् । नद्या गोपुच्छलग्नो गोपाल इव गोधापुच्छलग्नोऽहं ततः कूपाद् निरगां, बहिरागत्य च तत्पुच्छममुञ्चम् । मूच्छितश्च भूमौ पतितः कथञ्चिल्लब्धसंज्ञः पर्यटन् वनं प्राप्तः शिलामारूढवान् । कश्चिद् महिषश्च शृङ्गेण तां शिलां ताडयामास । अत्राऽन्तरे सोऽजगरेण गृहीतः । तयोर्युध्यमानयोश्चाऽहं शिलात् उत्तीर्य पलायितो वेगेन वनप्रान्तवर्तिनं ग्रामं प्राप्तः ।
तत्र मातुलमित्रेण रुद्रदत्तेन दृष्टः पालितश्च पुनर्नवीन इवाऽभवम् । तत्र च ततो लक्षकप्रायं भाण्डं गृहीत्वा तेन सह स्वर्णभूमिं