________________
३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___अथ सुग्रीवभार्यया च वाददिने वसुदेवस्य सुतस्येव शिवदं चारु च वासोयुग्मं समर्पितम् । वसुदेवश्च पुरा श्यामादत्तं तद्वासोयुगं च लोककौतुकं वर्धयन् पर्यधत्त । नागराश्च-एहि, मन्येऽद्य त्वं विद्यया गन्धर्वसेनां जेष्यसी'त्यहसन् । पर्षदं गतश्च स लोकैरुच्चासने सोपहासमुपवेशितः । गन्धर्वसेना च तत्राऽऽगता बहून् गान्धर्वविदोऽजैषीत् । ततः स्वस्य परीक्षाक्षणे प्राप्ते वसुदेवो देवतुल्यं स्त्रीमनोहरं निजं रूपमाविश्चकार । गन्धर्वसेना च प्रेक्ष्य तत्क्षणात् क्षोभं प्राप्ता । जनश्च कोऽसाविति तर्कयन् विस्मयं गतः । लोकैर्दत्तां वीणां च दूषयित्वा स गन्धर्वसेनापितां वीणां गृहीत्वा तां सज्जयित्वा पद्मचक्रिज्येष्टभ्रातुर्विष्णुकुमारस्य त्रिविक्रमसम्बद्धं गीतं वादय । एवं गन्धर्वगसेनया प्रेरित: स पुंवेषा सरस्वतीव तथा जगौ यथा सपर्षदं गन्धर्वसेनां जिगाय ।।
ततश्चारुदत्तः श्रेष्ठी सर्वान् वादिनो विसृज्य वसुदेवं सगौरवं स्वगृहमनयत् । तथा विवाहकाले वसुदेवं गोत्रं पृष्टवान् । वसुदेवश्च विहस्य यत् ते मतं कुलं तद्वदेत्याचख्यौ । तत श्रेष्ठ्युवाच-'इयं वणिक्पुत्रीति त्वं हससि । किन्तु समयेऽस्या वृत्तान्तं कथयिष्यामि'। एवमुक्त्वा स द्वयोर्विवाहमकारयत् । सुग्रीव-यशोग्रीवावपि च स्वे श्याम-विजयाख्ये सुते वसुदेवाय तद्गुणेन प्रसन्नौ ददतुः ।।
अथाऽपरेधुश्चारुदत्तो वसुदेवमब्रवीत्-'गन्धर्वसेनायाः कुलादिकमद्य शृणु-इह नगर एव भानुर्नाम श्रेष्ठ्यासीत् । तस्य सुभद्रा नाम पत्नी बभूव । तौ चाऽपुत्रत्वेन दुःखितौ चारणमुनि पप्रच्छतुः । स च पुत्रस्ते भावीत्याख्याय गतः । अहं च तत्सुतोऽभवम् । एकदा च मित्रैः सह क्रीडन् सिन्धुतटं प्राप्तो नभोगामिनः कस्याऽपि मनोहरं पादन्यासमपश्यम् । स्त्रीपदैश्च सप्रियोऽसावित्यनुमायाऽग्रे
अष्टमं पर्व - द्वितीयः सर्गः गच्छन् कदलीगृहं पुष्पशय्यां फलकमसिमनतिदूर एव वृक्षे लोहकीलैः कीलितं खेचरं खड्गकोशे चौषधीवलयत्रयं चाऽपश्यम् । मया च स्वबुद्ध्यैकयौषध्या मोचितोऽन्यया समारोपितव्रणस्तृतीयया च स खेचरश्चेतन: कृतः । ___ततः स मामवोचत्- 'वैताढ्ये शिवमन्दिरपुरे महेन्द्रविक्रमनृपपुत्रोऽमितगतिरहम् । मित्रेण धूमशिखेन गौरमुण्डेनाऽन्वितः क्रीडन् हीमन्तं पर्वतं गतः । तत्राऽहं स्वमातुलस्य तपस्विनो हिरण्यरोम्णः सुकुमालिकां कुमारी कन्यां दृष्ट्वा कामातॊ जातः । मित्राज्ज्ञात्वा मम पिता च तामानाय्य तया मां परिणायितवान् । तया साध रममाणथाऽन्यदा तस्याः कामुकेन धमशिखेन सह क्रीडन्नत्राऽऽगतस्तेन कीलितः, सा च सकमालिका तेन हृता । भवता च मोचितोऽस्मि, ब्रूहि, किं ते करवाणि ?'
अहं त्वदर्शनेनैव कृतकृत्योऽस्मीति मयोक्तः स खेचर उत्पत्याऽगात् । अहं च मित्रैः क्रीडन् स्वगृहमागमम् । क्रमाद् यौवनं प्राप्तश्च पित्रोनिदेशेन सर्वार्थमातुलसुतां मित्रवतीं शुभदिने पर्यणैषम् । कलासक्तश्च तस्यां भोगविमुखो मुग्धोऽसाविति पित्रा तकितो ललितगोष्ठ्यां नियोजित: स्वैरमुपवनादिषु व्यवहरम् । तथा कलिङ्ग सेनापुत्र्या वसन्तसेनाया वेश्याया गृहे द्वादशाब्दानि न्यवसम् । तत्र चाऽज्ञानात् षोडश स्वर्णकोटयो व्ययिताः । पश्चाच्च नि:स्व इति कृत्वा कलिङ्गसेनया निर्वासितः । ततः पित्रोद्धृत्युं ज्ञात्वा व्यथितो धैर्यमाधाय वाणिज्यार्थं स्वभार्याया भूषणानि नीतवान् ।
अन्यदा च मातुलेन सह प्रस्थितस्तैर्भूषणैरुशीरवर्तिनगरे कार्पासं क्रीतवान् । ततस्ताम्रलिप्त्यां गच्छतश्च मे तत्कार्पासो