________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततोऽपि चलितश्च वसुदेवोऽतिघोरां महाटवीं प्राप्य तृषार्तो जलावर्त सरो जगाम । तत्र च कोऽपि गजः क्रोधात् तमनुदधावे। वसुदेवश्च तं खेदयित्वाऽऽरुरोह । तं गजारूढं दृष्ट्वा चाऽर्चिमालिपवनञ्जयौ खेचरौ तं नीत्वा कुञ्जरावतॊद्याने मुमुचतुः । तत्र चाऽशनिवेगः खेचरेश्वरस्तस्मै श्यामां नाम स्वकन्यकां ददौ, स च तया सह यथासुखमरंस्त । तथा तस्या वीणावाद्येन तुष्टो वसुदेवस्तस्यै स्वेन सह कदाऽप्यवियोगरूपं वरं ददौ । तथा कुत एवं वरं याचसे इति वसुदेवेन पृष्टा च सोवाच-'वैताढ्ये किन्नरगीतपुरेऽचिमाली नृपो बभूव । तस्य ज्वलनवेगा-ऽशनिवेगौ पुत्रावभूताम् । अर्चिमाली च ज्वलनवेगं राज्ये निवेश्य व्रतमाददे। ज्वलनवेगस्य च विमलायां पत्न्यामङ्गारको नाम पुत्रोऽभवत् । अहं चाऽशनिवेगस्य सुप्रभाकुक्षिजा कन्या । ज्वलनवेगोऽप्यशनिवेगं राज्ये न्यस्य स्वर्ग प्राप्तः । अङ्गारकश्चाऽशनिवेगं विद्याबलाद् निर्वास्य राज्यमग्रहीत् । ____ अथ मत्पिता चाऽष्टापदं गत एकं चारणमुनि राज्यं मे पुनर्भावि न वेत्यपृच्छत् । ततो मुनिरुवाच-'तव सुताया: श्यामाया: पत्युः प्रभावात् ते राज्यं भावि । स च जलावर्त्तगजजयादुपलक्षणीयः' । ततो मत्पिता मुनिवाक्यविश्वासात् तत्र पुरी निर्माय तस्थौ । द्वौ खेचरौ च जलावर्ते सरसि सदैव नियुक्तौ । त्वं च जित्वा तद्गजारूढस्ताभ्यां दृष्टोऽत्राऽऽनीतः । मत्पित्रा चाऽशनिवेगेन मयोद्वाहितः । पुरा च नागेन्द्रेण धरणेन्द्रेण विद्याधरैश्च मिलित्वैष सङ्केतः कृतो यद् यः कोऽप्यर्हच्चैत्यसमीपस्थसाधुसमीपे सस्त्रीकं जनं हनिष्यति स सद्विद्योऽप्यविद्यो भविष्यति । अत एव मयाऽवियोगो
अष्टमं पर्व - द्वितीयः सर्गः वृतोऽसि । येन मया वियुक्तमेकाकिनं त्वामङ्गारको मा वधीदिति । ततो वसुदेवस्तद्वाचं प्रपद्य तया सह रममाणः कालं निनाय ।
अथाऽन्यदा श्यामया सह सुप्तं वसुदेवं निश्यङ्गारको जहार । वसुदेवश्च विनिद्रः को मां हरतीत्यचिन्तयत् । तथा श्यामातुल्यमङ्गारकं पृष्ठे तिष्ठ तिष्ठेति वदन्तीं धावमानां श्यामां च ददर्श । तामङ्गारकोऽसिना द्विधाऽकार्षीत् । तेन वसुदेवोऽत्यन्तं पीडितो द्वे श्यामे अङ्गारकं परितो युध्यमाने ददर्श । ततो वसुदेव इयं मायेति निश्चित्य मुष्टिनाऽङ्गारकं मूनि जघान । तत्प्रहारपीडितेन च तेन व्योम्नो मुक्तो वसुदेवश्चम्पापुर्या बहिः सरसि पपात । हंसवत् तीर्वा च वसुदेवस्तटोद्यानस्थं वासुपूज्यायतनं प्रविवेश । तथा श्रीवासुपूज्यं वन्दित्वा तत्र निशामतीत्यैकेन द्विजेन सह प्रभाते चम्पां ययौ । ___ तत्र च तरुणान् पदे पदे वीणापाणीन् दृष्ट्वा द्विजं तद्धेतुं पप्रच्छ । ततः स द्विजो जगाद-'अत्र चारुदत्तस्य श्रेष्ठिनो रूपवती गन्धर्वसेना नाम कन्या सर्वकलाकुशलाऽस्ति । तस्याश्च यो मे गान्धर्वे विजेता स मे भर्ता भविष्यतीति प्रतिज्ञाऽस्ति । तेनैष सर्वो जनो गान्धर्वपरायणो दृश्यते । मासे मासे च सुग्रीव-यशोग्रीवनाम्नोर्गान्धर्वाचार्ययोरग्रे परीक्षा जायते' । तच्छ्रुत्वा वसुदेवः श्रेष्ठ सुग्रीवमुपगत्य 'गौतमगोत्रो द्विजोऽहं स्कन्दिलाख्यो गन्धर्वसेनामिच्छन् त्वत्सन्निधौ गान्धर्वमध्येष्ये, मां दूरदेशस्थं शिष्यं प्रतिपद्यस्व' । सुग्रीवश्च तं मूर्ख मत्वाऽनादरेण समीपगं चकार । वसुदेवश्च ग्राम्योक्त्या लोकान् विनोदयन् स्वं गोपयंश्च गान्धर्वाध्ययनच्छलात् तत्र तस्थौ ।