________________
३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चितां मथुरापुरीं च ददौ । ततः कंसो जरासन्धदत्तं सैन्यमादाय मथुरामागत्य पितरं बद्ध्वा पञ्जरे चिक्षेप । उग्रसेनस्याऽतिमुक्तादयोऽपरेऽपि पुत्रा आसन् । तेष्वतिमुक्तः पितृव्यसनाद् विरक्त: प्रव्रज्यामाददे । तथा कंसः शौर्यनगरात् सुभद्रं स्वपोषक माहूय कृतज्ञतया स्वर्णादिदानपूर्वकं सच्चकार ।
अथाऽन्यदा धारिणी कंसं स्वभर्तृमुक्तये याचितवती । किन्तु कंसः कथञ्चिदपि पितरं न मुमोच । ततो धारिणी कंसप्रियाणां गृहं गत्वा जगाद-कंसो मया त्यक्तः, उग्रसेनस्तु तन्न किमपि विवेद। अहमेव तत्र सापराधाऽस्मि न तु मत्पतिरिति स मोच्यताम्' । किन्तु कंस: केषामपि वचसोग्रसेनं पूर्वजन्मकृतनिदानवशाद् दृढाग्रही न मुमोच ।
अष्टमं पर्व - द्वितीयः सर्गः
अन्येद्युश्च तत्र कुब्जिकां गन्धधारिणीमागच्छन्तीं दृष्ट्वा वसुदेवः पप्रच्छ-'अयं गन्धः कस्य कृते' । तत: साऽवोचत्-'इदं गन्धद्रव्यं शिवादेव्या समुद्रविजयाय प्रेषितम्' । ततो वसुदेवो मह्यमप्येतद् रोचते इति वदन् क्रीडया तद्गन्धद्रव्यं जहार । ततः क्रुद्धा सोवाच-'एवमस्त्यत एवाऽत्र रुद्धस्तिष्ठसि' । ततो वसुदेवेन कथमेवं ब्रूषे इति पृष्टा सा भीतेव सर्वं नागरवृत्तमादित एव कथितवती । ___ ततो वसुदेवः पौरीराकर्षयितुं नगरे भ्रमामीत्येवमाक्षेप स्वस्मिन्ननुमाय तत्र वासमनिच्छन् दासी विसृज्य रात्रौ गुटिकया वेषान्तरं विधाय पुराद् निरगात् । बहिर्गत्वा च चितां निर्माय तत्राऽनाथं कञ्चिद् मृतकं ददाह । तथा गुरूणां क्षमणार्थमेकत्र स्तम्भे निजहस्तेन पत्रकं लिखित्वा लम्बयामास । पत्रे च-'जनैर्मे गुणा दोषरूपेण गुरूणामुक्ता इत्यतो जीवन्नेव स्वं मृतं मन्यमानो वसुदेवोऽनलप्रवेशमकरोत् । तस्मात् सन्तमसन्तं मे दोष गुरवः पौराश्च क्षाम्यन्तु' इति लिलेख । अनन्तरं द्विजवेषं विधाय ततोऽचालीत्-तं चाऽमार्गेण भ्राम्यन्तं दृष्ट्वा रथस्था काचिद् नारी पितृगृहं गच्छन्ती श्रान्तमिमं द्विजं रथे आरोपयेति निजमातरं प्रार्थयित्वा रथे नीत्वा ग्राममागमत् । ____ इतश्च वसुदेवः सायं यक्षगृहं गतोऽनलं प्रविष्ट' इति विज्ञाय यादवाः क्रन्दन्तस्तस्य वसुदेवस्य प्रेतकार्याणि चक्रः । तच्छत्वा च निश्चिन्तो वसुदेवो विजयखेटपुरं जगाम । तत्र च सुग्रीवनृपस्य श्यामा-विजयसेनाख्ये कलाविदौ द्वे पुत्र्यावभूताम् । वसुदेवश्च कलया ते जित्वा परिणीय ताभ्यां रममाणो यथासुखमस्थात् । तत्र च तस्य विजयसेनायां पत्न्यामक्रूरो नाम पुत्रोऽभूत् ।
समुद्रविजयश्च जरासन्धेन सत्कृत्य विसृष्टो भ्रातृभिः सह स्वपुरं ययौ । शौर्यपुरे च नगरे भ्रमन्तं वसुदेवं तद्रूपमोहिता नागर्यः सर्वदैवाऽन्वयुः । स च क्रीडयेतस्ततो भ्रमन् कियन्तमपि कालं व्यतीयाय । अन्यदा च महाजनः समेत्य राजानमुवाच-'वसुदेवस्य रूपसौभाग्येन स्त्रीजनो निर्मर्यादो जातः' । ततो युष्माकमीप्सितं करिष्यामीति तमाश्वास्य नृपो व्यसृजत्, तथा परिच्छदं च वसुदेवायैतद्वृत्तं नाऽऽख्येयमित्युपादिशच्च । अन्यदा नमस्कर्तुमुपागतं वसुदेवं समुद्रविजयो जगाद - 'त्वं क्रीडादिना तनुतां प्राप्तोऽसि, तद् बहिर्न गन्तव्यं, मद्गृह एव स्थेयम् । नवाः कलाः शिक्षस्वाऽधीताश्चाऽऽवर्त्तय, कलाविदां गोष्ठ्या मनो विनोदय' । ततो वसुदेवस्तथाऽस्त्वित्युक्त्वा तथैवाऽस्थात् ।