________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
पौषकृष्णचतुर्दश्यां भद्रायां मूलनक्षत्रे रात्रौ पुत्रं प्रासूत । सा च दोहदेन भीता जातकं पुरैव रचितायां कांस्यपेटिकायां चिक्षेप । ततो नृपस्वनामाङ्कितमुद्राद्वययुक्तां सपत्रिकां रत्नपूर्णां तां यमुनाजले दास्या अक्षेपयत् । तथा राज्ञे जात एव सूनुर्मृत इति शशंस ।
३२
सा च कांस्यपेटिका नदीप्रवाहेण शौर्यपुरद्वारे नीता । प्रातश्च शौचार्थमागतो रसवणिक् सुभद्रस्तां मञ्जूषां दृष्ट्वा विस्मितः पेटादिना सह तं बालं निजगृहं नीत्वा मुदित इन्दोः स्वपत्न्याः पुत्रत्वेनाऽर्पितवान् । तौ दम्पती च तस्य कंस इत्यभिधां चक्रे । तथा मधुक्षीरादिभिस्तं वर्धयामासतुः । स च वर्धमानः कलही बालां - स्ताडयामास । तेन च तयोर्वणिजोः प्रत्यहं लोकोपालम्भा अभवन् । ततो दशवर्ष: स ताभ्यां वसुदेवकुमारस्य सेवकत्वेनाऽर्पितः । स कंसस्तस्य कुमारस्याऽतिप्रियो बभूव । वसुदेवेन सह सोऽपि सकलाः कलाः जग्राह । सममेव च यौवनं प्राप ।
इतश्च शुक्तिमतीपुर्या नवमस्य वसुनन्दनस्य पुरा नंष्ट्वा नागपुरं गतस्य बृहद्रथो नाम पुत्रो बभूव । स च राजगृहं जगाम । तत्सन्ततौ च जयद्रथस्य जरासन्धो नाम पुत्रो बभूव । स च प्रतिविष्णुः प्रचण्डाज्ञो दूतेन समुद्रविजयमाज्ञापयत्- 'वैताढ्यसमीपे सिंहपुरे सिंहरथं नृपं बद्ध्वा समानय । तथाकर्तुश्च जीवयशसं स्वां सुतां किञ्चित्समृद्धं पुरं चैकं दास्यामि' । ततो वसुदेवः समुद्रविजयं नत्वा जरासन्धनिदेशं कर्त्तुमाज्ञामयाचत । समुद्रविजयश्च तं बालं मत्त्वा निषिषेध । किन्तु तस्याऽत्यधिकमाग्रहं दृष्ट्वा सैन्यैः सह तं कथञ्चिद् विससर्ज ।
ततो वसुदेवो द्रुततरं सिंहपुरं गत्वा सिंहरथेन युयुधे । सिंहरथश्च वसुदेवस्य सैन्यं बभञ्ज । ततो वसुदेवः कंस
अष्टमं पर्व द्वितीयः सर्गः
सारथिस्तेन योद्धुं स्वयं दधाव। द्वयोश्च दारुणं युद्धमजनि । कंसश्च सारथिकर्मविहाय परिघेण सिंहरथरथं द्रागेवाऽभाङ्क्षीत् । तदा सिंहरथः कंसं हन्तुं क्रुधाऽसि चकर्ष । वसुदेवेन च मुष्टिदेश एव सोऽसिबाणेन खण्डितः । तदानीं च पराक्रमी कंसश्छागं वृक इवोत्पत्त्य सिंहरथं बद्ध्वा वसुदेवरथेऽक्षैप्सीत् । ततो भग्ने सैन्ये जयी वसुदेवः सिंहरथमादाय स्वपुरं ययौ ।
ततः समुद्रविजयो वसुदेवमेकान्ते जगौ क्रोष्टकी नाम ज्ञानी ममाऽऽचख्यौ यद् जरासन्धस्य कन्या जीवयशाः कुलक्षणा पति- पितृवंशक्षयकारी । जरासन्धश्च सिंहरथानयनपारितोषिके तां तुभ्यं दास्यति, तत्कोऽपि तत्त्यागोपायो विचारय' । ततो वसुदेव ऊचे - कंसो रणे सिंहरथं बद्ध्वाऽनैषीत् । तस्मै सा जीवयशा देया' । ततो नृपः पुनरूचे- 'अयं वणिक्पुत्र इति सा तं न स्वीकरिष्यति । किन्त्वसौ पराक्रमात् क्षत्रिय इव लक्ष्यते' । ततो नृपेण धर्मपूर्वकं पृष्टो रसवणिक् कंसस्य श्रृण्वत एवाऽऽदितस्तद्वृत्तान्तमाख्यत् । तथोग्रसेन-धारिण्योर्मुद्रिके पत्रिकां च सुभद्रो राज्ञे दत्तवान् ।
नृपश्च पत्रिकां वाचयामास- उग्रसेनपल्या धारिण्या दुर्दोहदाद् भीतया स्वपति रक्षितुमेष प्राणप्रियः पुत्रस्त्यक्तः तथा नाम - मुद्रासहित: सर्वालङ्कारभूषितः कांस्यमञ्जूषायां कृत्वा यमुनायां प्रवाहितः । एवं वाचयित्वा नृप उवाच - 'अयं विक्रम्युग्रसेनपुत्रो यादवः । कथमन्यथाऽस्येदृक् पराक्रमः स्यात् ?' ततो नृपः कंसेन सह गत्वा जरासन्धाय सिंहरथमार्पयत् । कंसपराक्रममुपवर्णितवांश्च । जरासन्धः कंसाय स्वसुतां जीवयशसं तथा कंसेन पितृकोपहेतो