________________
अष्टमं पर्व - द्वितीयः सर्गः ऽन्धकवृष्णि: समुद्रविजयं राज्ये न्यस्य स्वयं सुप्रतिष्ठमुनेतं गृहीत्वा सम्यक् परिपाल्य शिवं ययौ ।
३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षुत्-तृट्परीतोऽस्ति' । तच्छ्रुत्वा नन्दिषेणोऽन्नं मुक्त्वा पानमन्वेष्टुं निर्ययौ । देवश्च शक्त्या तदनेषणीयं कर्तुं प्रचक्रमे । किन्तु लब्धिमतः तस्य मुनेः प्रभावाद् देवो न प्रबभूव । स नन्दिषेणश्च कुत्राऽपि शुद्धं पानं प्राप । ततो मुनि: स ग्लानस्य मुनेः समीपं गतवान् । मुनिश्च मायया तं परुषाक्षरैर्भर्त्सयामास ।
ततो नन्दिषेणोऽवोचत्-'ममाऽपराध क्षमस्व, त्वां सज्जं करोमि, इदमुचितं पानं तव' । तथा तं पानं पाययित्वोत्तिष्ठेति जगाद । ततो ग्लानो मुनिरुवाच-'धिक् त्वां, मामक्षमं किं न पश्यसि ?' ततो नन्दिषेणस्तं मायामुनि स्कन्धमारोप्य ततः प्रतस्थे। स मुनिश्च तं पदे पदे आचुक्रोश । तथा शनैर्गच्छेत्यादिष्टवान् । ततो नन्दिषेण: शनैर्जगाम । ततः स मायामुनिस्तस्योपरि मलं विससर्ज तथा वेगभङ्गं किं करोषीत्यभर्त्सयच्च । नन्दिषेणश्चाऽयं मुनिः कथं नीरोग: स्यादिति चिन्तयन् तस्य कटून्यपि वचनानि न गणयामास। ततः स देवो मलमपहृत्य तस्योपरि पुष्पवृष्टि चकार । तथा दिव्यरूपस्तं त्रिः प्रदक्षिणीकृत्य प्रणनाम । शक्रकृतां प्रशंसां च तस्मै कथयामास । तथा क्षमयित्वा तुभ्यमहं किं ददामीति पप्रच्छ ।
ततो नन्दिषेण उवाच-'मया परमदुर्लभो धर्मो लब्धः । नाऽत: परं किमपीष्टं मम' । ततः स देवो दिवं जगाम । मुनिश्च स्वाश्रयं गतो मुनिभिः पृष्टः सर्वं यथातथं शशंस । तथा स द्वादशाब्दसहस्राणि दुस्तपं तपस्तेपे । अन्ते चाऽनशनं प्रपद्य निजं दौर्भाग्य स्मरन्ननेन तपसा स्त्रीजनवल्लभः स्यामिति निदानं कृत्वा विपद्य महाशुक्रे देवोऽभवत् । ततश्च्युत्वा च नन्दिषणजीवस्तव वसुदेवनामा पुत्रो जातः । तन्निदानादसौ रमणीनां प्रियोऽस्ति' । ततो
इतश्च भोजवृष्णौ प्रव्रजिते उग्रसेनो मथुरायां नृपोऽभवत् । तस्य पत्नी च धारिणी नाम । अन्यदाच बहिर्गच्छन् स नृपः कमपि तापसं क्वाऽपि विजने मासोपवासिनं ददर्श । तस्य तापसस्य चैकगृहप्राप्तभिक्षया मासोपवासपारणं करिष्ये इत्यभिग्रहोऽभूत् । स मासे मासे एकगृहभिक्षया पारणं कृत्वा स्वस्थानमगात् । न तु गृहान्तरं गच्छति स्म । उग्रसेनश्च पारणार्थं तं निमन्त्र्य गृहं गतः । तापसश्च तमन्वगात् । नृपश्च तद् विस्मृतवान् । ततोऽभुक्त एव स मुनिनिजस्थानं गत्वा पुनस्तथैव मासोपवासं प्रतिपन्नवान् । उग्रसेनश्च कथञ्चित् तत्राऽऽयातस्तं मुनि दृष्ट्वा निमन्त्रणं स्मृत्वा तं क्षमयामास। तथा पुननिमन्त्र्य विसस्मार । स मुनिश्चाऽऽगत्याऽभुक्त एव पुनः स्वस्थानं जगाम । राजा च स्मृत्वा पुनरपि तं क्षमयित्वा निमन्त्र्य विसस्मार । तेन च कपितस्तापसोऽनेन तपसाऽस्य वधाय भूयासमिति निदानं कृत्वाऽनशनेन मृतः ।
अथोग्रसेनपत्नी धारिणी गर्भवती जाता । तस्याश्च पतिमांसभक्षणदोहदो जातः । दिने दिने क्षीयमाणा च सा लज्जिता निजं दुर्दोहदं नृपाय कथयामास । मन्त्रिणश्चाऽन्धकारे स्थितस्य नृपस्योदरे शशामिषं क्षिप्त्वा तच्छित्त्वा छित्त्वा पश्यन्त्यै धारिण्यै ददुः । सा च पूर्णदोहदा पुनः स्वप्रकृति प्राप्तोचे-'किं जीवितव्येन गर्भेण वा पति विना' । एवं मुमूर्षु तां मन्त्रिण ऊचुः-'सप्तरात्रेण प्राप्तजीवितं ते पति दर्शयिष्यामि' । एवं समाश्वासितायास्तस्याः सप्तमेऽहन्युग्रसेनदर्शनं जातम् । ततः सा महोत्सवं चकार । तथा