________________
द्वितीयः सर्गः अथाऽस्ति भरते मथुरा नाम पुरी यमुनया नद्या शोभिता । तस्यां च पुर्या हरिवंशोद्भववसुपुत्रबृहद्ध्वजाद् बहुषु नृपेषु गतेषु यदुर्नाम नृपो बभूव । तस्य पुत्रः शूरस्तस्य च शौरि-सुवीरौ पुत्रौ बभूवतुः । शूरश्च शौरि राज्ये सुवीरं च यौवराज्ये न्यस्य भवोद्विग्नः प्रव्रज्यां गृहीतवान् । शौरिस्तु सुवीराय मथुराराज्यं दत्त्वा कुशातदेशे गत्वा तत्र शौर्यपुरं नाम नगरं रचयामास । तस्य चाऽन्धकवृष्णिप्रभृतयः पुत्रा जज्ञिरे । सुवीरस्य भोजवृष्ण्यादयः सुता अभवन् । सुवीरश्च भोजवृष्णये मथुराराज्यं दत्त्वा सिन्धुदेशे सौवीरं पुरं निर्माय तत्राऽस्थात् । शौरिश्चाऽन्धकवृष्णिं राज्ये न्यस्य सुप्रतिष्ठमुनेर्दीक्षां गृहीत्वा दुस्तपं तपस्तप्त्वा परमं पदमियाय । भोजवृष्णेश्च मथुरेशस्योग्रसेनो नाम पुत्रोऽभवत् । अन्धकवृष्णेश्च सुभद्रायां समुद्रविजया-ऽक्षोभ्य-स्तिमित-सगर-हिमवद्-अचलधरण-पूरणा-ऽभिचन्द्र-वसुदेवा दशार्हाख्या दशपुत्रा अभूवन् । तेषां च कुन्ती मद्री च द्वे भगिन्यावभूताम् । तत्र कुन्तीं पाण्डवे मद्रीं च दमघोषायाऽदात् ।
एकदा चाऽन्धकवृष्णिरवधिज्ञानिनं सुप्रतिष्ठमुनि प्रणम्य कृताञ्जलि: पप्रच्छ-'प्रभो ! मम दशमो वसुदेवः पुत्रोऽत्यन्तरूपवान् कलावान् पराक्रमी च कुत: ?' ततो मुनिरुवाच-'मगधेषु
अष्टमं पर्व - द्वितीयः सर्गः नन्दिग्रामे रोरो द्विजस्तस्य पत्नी सोमिला चाऽऽस्ताम् । तयोः पुत्रो नन्दिषेणो बभूव । तस्य बालस्यैव मन्दभाग्यात् पितरौ विपेदाते । स चाऽत्यन्तं कुरूप: स्वजनैरपि त्यक्तः ।।
एकदा च स भृतकेन कर्मकर्तुं मातुलेन सह तद्गृहं जगाम । मातुलस्य च सप्तकन्या विवाहयोग्या आसन् । मातुलश्चैकां कन्यां ते दास्यामीत्युक्तवान् । तल्लोभाच्च स तस्य सर्वगृहकार्य चकार । तत्र प्रथमा कन्या तज्ज्ञात्वोवाच-'यदि पिता मामस्मै दास्यति तदाऽहं निश्चितं मरिष्यामि' । तच्छ्रुत्वा विषण्णो नन्दिषेणो द्वितीयां ते दास्यामीत्युक्त्वा मातुलेन समाश्वासितः । किन्तु साऽपि प्रथमावदेव प्रतिज्ञा चकार । अन्या अपि तं क्रमेणाऽस्वीचक्रुः । ततस्तं मातुलोऽवोचत्-‘अन्यस्य कस्याऽपि पुत्रीं याचित्वा ते दास्यामि । मा खिन्नोऽभूः'। ततो नन्दिषेणो दध्यौ-यदि निजा अमूर्मा न स्वीकुर्वन्ति तर्हान्या: कन्या मां कथं स्वीकरिष्यन्ति ?' इति विमृश्य वैराग्यात् ततो निर्गतो रत्नपुरं गत्वा तत्र दम्पती क्रीडन्तौ प्रेक्ष्य स्वं निन्दन् मुमूर्षुरुपवनं गतवान् । ____ तत्र सुस्थितं नाम मुनिं दृष्ट्वा प्रणनाम । मुनिश्च ज्ञानेन तद्भावं ज्ञात्वोवाच-'मर्तुं साहसं मा कार्षीः । आत्महत्याऽधर्माय जायते । धर्म कुरु, प्रव्रज्यया भवान्तरेषु सुखहेतुर्धर्मः साध्यताम्' । एवं श्रुत्वा प्रतिबुद्धः स तन्मुनेतं गृहीत्वा क्रमेण गीतार्थः साधुषु वैयावृत्त्यमभिजग्राह । इन्द्रश्च बालादिसाधूनां वैयावृत्त्यकरं तं सभामध्ये प्रशशंस । तदसहिष्णुश्च कोऽपि सुरो ग्लानमुनिवेषधरो रत्नपुरसमीपस्थमरण्यं जगाम । तथा द्वितीयमुनिवेषं धृत्वा तन्मुनिवसति गत्वा नन्दिषेणे पारणार्थं कवले गृहीते तं जगाद'भो ! वैयावृत्त्यं प्रतिज्ञाय कथं भुक्षे? बहिरतिसाराक्रान्तः साधुः