________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
मणिशेखरश्च कुमारं निजपुरं नीत्वा निजगृहे समुपवेश्य देवमिव पूजयामास । वैताढ्यवासिनश्चैत्य भूयो भूयो यशोमतीशङ्खौ ददृशुः । तथा तत्र शत्रुजयादन्येऽपि विद्याधराः कुमारस्य पत्तयोऽभूवन् । तथा निजनिजकन्यास्तस्मै ददुः। कुमारश्च यशोमती परिणीयैताः परिणेष्यामीत्यवोचत् । ततो मणिशेखरादयः खेचराः स्वस्वपुत्रीर्गृहीत्वा यशोमत्या सह शङ्खं चम्पापुरं निन्युः । जितारिश्च सर्वं वृत्तान्तं ज्ञात्वा मुदितो यशोमत्या सहाऽऽगतं शङ्खमभ्याजगाम । तथा नगरे प्रवेश्य समहोत्सवं यशोमत्या परिणाययामास । तथा शङ्खः समायाता अन्या अपि कन्याः परिणिनाय । ततो भक्तिपूर्वकं श्रीवासुपूज्यजिनचैत्ययात्रां चक्रे । तथा विद्याधरान् विसृज्य कतिचिदहानि तत्र स्थित्वा यशोमत्यादिभार्याभिः सह शङ्खो हस्तिनापुरं ययौ । सूर-सोमौ चाऽऽरणाच्च्युत्वा पूर्वजन्मवदेव यशोधर - गुणधरनामानौ तस्याऽनुजावभूताम् । श्रीषेणश्च शङ्खं राज्ये न्यस्य गुणधरगणधरात् प्रव्रज्यां गृहीत्वा दुस्तपं तपस्तेपे । शङ्खश्च महीं शशास ।
२६
अथोत्पन्नकेवलः श्रीषेणमुनिर्विहरन् देवैः परिवृतस्तत्राऽऽययौ । शङ्खश्च गत्वा वन्दित्वा भक्तया धर्मदेशनाम श्रौषीत् । तत्र शङ्खो देशनान्ते पप्रच्छ- 'तव देशनयैतद् वेद्मि यत् संसारे कोऽपि कस्याऽपि सम्बन्धी नाऽस्ति । तथाऽपि यशोमत्यां मेऽधिकः स्नेहः, तत्र किं कारणमिति प्रसद्याऽऽख्याहि' । ततः श्रीषेणमुनिरुवाच- 'इयं यशोमती पुरा धनभवे तव धनवती नाम पत्नी, सौधर्मे मित्रं, चित्रगतिभवे रत्नवती नाम पत्नी, माहेन्द्रे मित्रभार्याऽपराजितभवे च प्रीतिमती नाम पत्न्यारणे च मित्रपत्नी बभूव । अस्मिश्च सप्तमे भवे भूयस्तव भार्या जाता । तेनाऽस्यां तवाऽधिकः स्नेहः । इतश्चाऽपराजितं गत्वा च्युत्वा भारते त्वं
अष्टमं पर्व प्रथमः सर्गः
द्वाविंशस्तीर्थकरो नेमिनाथो भविष्यसि । तत्र चेयं राजीमती त्वयाऽनूढाऽपि त्वय्यनुरागवती त्वत्त एव प्रव्रज्यां गृहीत्वा परं पदं यास्यति । प्राग्भवभ्रातरौ यशोधर - गुणधरौ मतिप्रभो मन्त्री चाऽपि तव गणधरत्वं प्राप्य सेत्स्यन्ति' ।
तच्छ्रुत्वा शङ्खो यशोमतीकुक्षिजं पुण्डरीकं सुतं राज्ये न्यस्य यशोमत्या बन्धुभ्यां मन्त्रिणा च सह तन्मुनेर्व्रतमग्रहीत् । दुस्तपं तपस्तप्त्वा च शङ्खो गीतार्थो बभूव । तथाऽर्हद्भक्त्यादिभिः कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्जयामास । अन्ते च पादपोपगमनं विधाय शङ्खो मुनिरपराजितं जगाम यशोमत्यादयोऽपि च तेनैव विधिनाऽपराजितं जग्मुः ॥ १ ॥
इति अष्टमे पर्वणि श्रीअरिष्टनेमिपूर्वभववर्णनात्मकः प्रथमः सर्गः ॥ १ ॥
* रू