________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
ययौ । तथा मम मायायास्त्वमेव प्रतिकारकोऽसीत्युवाच च । तथा 'स्वामिन् ! तव दास्यं स्वीकरोमि, मम सर्वस्वं गृहाण, प्रसद्य मामनुगृहाण चे 'ति प्रार्थयामास । कुमारश्च लुण्टितं धनं यद् यस्य तत् तस्य दत्त्वा तस्माद् दण्डं च स्वयं गृहीत्वा तं पल्लीपतिमादाय निवृत्य मार्गे सायं शिबिरं निवेश्याऽवात्सीत् ।
२४
निशीथे च शयानः करुणस्वरं शुश्राव । ततोऽसिमादाय तं स्वरमनुसरन्नग्रे रुदतीमर्धजरतीं स्त्रियं दृष्ट्वा पप्रच्छ- 'दु:खस्य कारणं ब्रूहि, मा रोदी:' । ततः सा स्त्री तस्य रूपेण वचसा च विश्वस्तोवाच- 'अङ्गदेशे चम्पापुरे जितारिर्नाम नृपोऽस्ति । तस्य कीर्तिमत्यां पन्यामनेकपुत्रजन्मानन्तरं स्त्रीरत्नं यशोमती नाम पुत्री जाता । तस्याश्च स्वानुरूपं वरं क्वाऽप्यपश्यन्त्याः क्वाऽपि जने मनो न लगत् । कदाचिच्च श्रीषेणपुत्रं शङ्खं श्रुत्वा कामार्त्ता तं हृदि चक्रे । तथा मां शङ्ख एव परिणेष्यतीति प्रतिज्ञां चकार । पिता च स्थानेऽस्याः स्नेह इति हृष्टवान् । नृपश्च तदर्थं यावत् श्रीषेणनृपस्याऽन्तिके दूतं प्रैषीत् तावद् मणिशेखरो नाम खेचरेशस्तां ययाचे । जितारिश्च शङ्खं विनेयमन्यं नेच्छतीति जगाद । ततः सोऽन्येद्युस्तामहार्षीत् । अहं तु तस्या धात्री, तामनुसरन्तीह समागता । किन्तु तेन दुष्टेन खेचरेण बलादिह त्यक्ताऽस्मि । तथा स तां कुत्राऽप्यनयत् । तेनाऽहं विलपामि यत् सा कथं भविष्यति ?'
ततः कुमार उवाच- 'धैर्यं धेहि, एषोऽहं तं विजित्य तामानयामि' । एवमुक्त्वा तामन्वेषयन् कुमारो महाटव्यामाटीत् । अत्राऽवसरे च सूर्योदये जाते कुमारो विशालशृङ्गमद्रिमारुह्यैकस्मिन् गह्वरे यशोमतीं विवाहार्थं प्रार्थयन्तं खेचरमेवं ब्रुवाणां ददर्श
अष्टमं पर्व प्रथमः सर्गः
२५
'शङ्ख एव मे भर्त्ता भवेद् नाऽपरः । मुधा किं मां कदर्थयसि ?" तदा ताभ्यां कुमारोऽपि दृष्टः । ततः खेचरो जगाद - 'कालाकृष्टोऽयं त्वत्प्रिय इहाऽऽयातः । अमुं हत्वा बलादपि त्वां परिणेष्यामि निजगृहं नेष्यामि च' । इत्युक्तवन्तं तं कुमारोऽपि कटुवचोभिर्नितस्याऽसिमाकृष्य युयुधे । दोर्बलात् कुमारं जेतुमशक्तः स खेचरो विद्यया विकृतैरस्त्रैर्युयुधे । किन्तु पुण्यबलात् कुमारे कान्यपि शस्त्राणि न प्रभवन्ति स्म । कुमारश्च खड्गेन तस्य शस्त्रास्त्राणि खण्डयामास । तथा खेदेनोपविष्टस्य तस्य खेचरस्य धनुराच्छिद्य बाणेन तदुरसि जघान । तेन च मूच्छितः स खेचरो भुवि पपात शङ्खश्च व्यजनपवनादिना कथञ्चित् तं लब्धसंज्ञं कृत्वा पुनर्युद्धायाऽऽास्त ।
ततः स खेचर उवाच- 'क्वाऽप्यनिर्जितोऽहं त्वया पराजितोऽस्मि, त्वं सामान्यवीरो नाऽसि । इयं च यशोमती गुणैस्त्वय्यनुरक्तेदानीं पराक्रमेणाऽधिकमनुरक्ता जाताऽस्ति । ममाऽपराधं क्षमस्व' । तत: कुमार उवाच - 'स्वपराक्रमेण विनयेन चाऽनुनीतोऽस्मि, कथय, कि ते करवाणि !' ततः स खेचरः पुनरुवाच- 'यदि प्रसन्नोऽसि तर्हि वैताढ्यं गच्छ । तेन तव सिद्धायतनयात्रा मयि चाऽनुग्रहः स्यात्' । शङ्खश्च तस्य वाचं प्रपन्नवान् । यशोमती चेदृशो वरो मया वृत इति सद्भावाद् मोदं प्राप्तवती । मणिशेखरपत्तयश्च तदा समुपागता वृत्तान्तं ज्ञात्वोपकारिणं कुमारं नमश्चक्रुः । कुमारश्च द्वौ खेचरौ स्ववृत्तान्तं ज्ञापयित्वा सैन्यं हस्तिनापुरं प्रैषयत् । तथा खेचरैस्तां धात्रीमानाय्य शङ्खस्तया यशोमत्या च सहितो वैताढ्यं जगाम । तत्र च यशोमत्या सहैव सिद्धायतनेषु शाश्वतार्हतो ववन्दे । विविधाः पूजाश्च चकार ।