________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ मनोगति-चपलगतिजीवौ माहेन्द्राच्च्युत्वा तस्याऽपराजितस्य सूर-सोमनामानौ कनिष्ठौ भ्रातरौ जातौ । हरिणन्दी चाऽपराजिते राज्यं न्यस्य प्रव्रज्य दुस्तपं तपस्तप्त्वा परमं पदं प्राप। अपराजितस्य च प्रीतिमती महिषी विमलबोधो मन्त्री तौ भ्रातरौ च मण्डलेश्वरावभूताम् । स च सुखं महीं पालयन् यथेष्टं भोगानभुक्त । तथा चैत्यानि रथयात्राश्चाऽनेकशः कारयामास ।
एकदा चोद्यानं गतः सार्थपतेर्महद्धिकं सुतमनङ्गदेवं रमणीभिः क्रीडन्तमर्थिभ्योऽर्थं ददानं, बन्दिभिः स्तूयमानं, गीतासक्तं प्रेक्ष्य कोऽसाविति स्वपुरुषानपृच्छत् । ते चाऽसौ सार्थवाहस्य समुद्रपालस्य पुत्रो महेभ्योऽनङ्गदेवाख्य इत्यचकथन् । ततोऽपराजितो धन्योऽस्मि, यस्य वणिजोऽपीदृशा उदारा' इति स्वं प्रशंसन् निजगृहमगात् । द्वितीयेऽह्नि च बहिर्गच्छन् स मृतकं चतुभिः पुरुषैरुह्यमानं रुदतीभिः स्त्रीभिरनुस्रियमाणं दृष्ट्वा 'कोऽयं मृत' इति पृष्टवान् । पुरुषाश्चऽयमनङ्गदेवो विसूचिकया सद्य एव मृत इत्याख्यत् । तच्छ्रुत्वा च 'अहो असारोऽयं संसार' इत्युत्कटं संवेगं प्राप्तः स्वगृहं जगाम । कतिचिदहानि च विषण्णस्तस्थौ । तत्र च कुण्डपुरे प्राग्दृष्टश्च केवली ज्ञानेन तं योग्यं पश्यन् तदुपकाराय समागतः । अपराजितश्च ततो धर्मं श्रुत्वा प्रीतिमतीकुक्षिजं पुत्रं पद्मं राज्ये निवेश्य प्राव्राजीत् । प्रीतिमती विमलबोधो मन्त्री सूर-सोमौ बन्धू च तमनुप्राव्रजन् । ते सर्वेऽपि च दुस्तपं तपस्तप्त्वा विपद्याऽऽरणे कल्पे इन्द्र-सामानिकाः परस्परं प्रीतिमन्तोऽभूवन् ।
अष्टमं पर्व - प्रथमः सर्गः पूर्णचन्द्रं विशन्तं स्वप्नं दृष्ट्वा प्रभाते पति शशंस । नृपश्च नैमित्तिकैस्तत्फलमपृच्छत् । ते च 'चन्द्रवत् प्रकाशको देव्याः पुत्रो भविष्यतीति स्वप्नफलमाचख्युः । इतश्चाऽपराजितजीवश्च्युत्वा तत्कुक्षावातरत् । पूर्णे समये च सा सर्वलक्षणलक्षितं सुतं सुषुवे। नृपश्च समहोत्सवं तस्य शङ्ख इति नामाऽकरोत् । स च शखो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो गुरुं निमित्तीकृत्य सर्वाः कला: शिक्षयामास । विमलबोधजीवश्च श्रीषेणनृपमन्त्रिणो मतिप्रभो नाम पुत्रोऽभूत् । स च शङ्खकुमारस्य वयस्यः सहाध्यायी चाऽभूत् । तथा शङ्खस्तेनाऽन्यैर्नृपकुमारैश्च क्रीडन् यौवनं प्रपन्नवान् । ___अथाऽन्येधुर्जानपदलोकाः उच्चैः पूत्कुर्वन्तो विज्ञापयामासुः'त्वद्देशसीमनि विशालशिखरश्चन्द्रसमानया चन्द्रशिशिराख्यया नद्या युक्तोऽस्ति । तत्र दुर्गे समरकेतुर्नाम पल्लीपतिरस्ति । सोऽस्माकं निःशङ्कं लुण्टति, तत् त्रायस्व' । ततो नृपस्तद्वधाय जिगमिषुर्भम्भामवादयत् । ततः शलो नत्वा सविस्मयमुवाच-'तस्मिन् पल्लीशे भवतो गमनं नोचितं, न हि गजो मशकं सिंहो वा शशकं हन्ति । अहं त्वदाज्ञया तं बद्ध्वाऽऽनेष्ये, स्वयं गमनाद् विरम, मामादिश' । राजाऽपि च तद्वचः श्रुत्वा ससैन्यं तं विसृष्टवान् ।
इतः शखकुमारश्च तां पल्लीं प्राप्तवान् । पल्लीशश्च कुमारमायान्तं श्रुत्वा पल्लीं त्यक्त्वा गिरिगह्वरं शिश्राय । मतिमांश्च शङ्खकुमार एकं सामन्तं श्रेष्ठैः सैनिकैः सह दुर्गं प्रवेशयामास । स्वयं चैकस्मिन् निकुञ्ज ससैनिको निलीय तस्थौ, पल्लीपतिश्च च्छली तं दुर्गं रुरोध । ततः कुमारस्तं सैन्यैरवेष्टयत् । तदेवं मध्ये स्थित: पल्लीश एकतो दुर्गप्राकारस्थै राजसैन्यैरन्यतः कुमारसैन्यैश्चाऽनेकशो हृतः । तत: पल्लीशः कण्ठे कुठारं कृत्वा शङ्ख शरणं
इतश्च जम्बूद्वीपे भरते हस्तिनापुरे श्रीषेणो राजाऽभूत् । तस्य लक्ष्मीरिव नाम्ना श्रीमती महिषी बभूव । सा च निशाशेषे मुखे