________________
२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सरस्वत्येवाऽस्या मिषेण पूर्वपक्षं चकारेत्यतो वयमन्यत्राऽनिर्जिता अत्र पराजिता इति लज्जानम्रा विलक्षाः परस्परमूचुः ।
जितशत्रुश्च दध्यौ-'कि विधिरिमां सर्वप्रयत्नेन निर्माय खिन्न इवैतस्याः पति च व्यधात् ? एते एव राजानः सन्ति, एषु च न कोऽपि मत्सुताया योग्यः । यद्यन्योऽपि हीन एव स्यात् तदा का गतिः स्यात्' । ततो भावजस्तत्सचिव उवाच-'नृप ! विषादेनाऽलम् । वसुन्धरा बहुरत्ला । अत्रोत्तमेभ्योऽप्युत्तमाः स्युः । यः कोऽपि वेमां जयेत् सोऽस्या वरो भवेदिति घोष्यताम्' । ततो नृपो बाढमित्युक्त्वा तथैवाऽकरोत् । अपराजितश्च तां घोषणां श्रुत्वा 'स्त्रिया सह विवादे विजयेऽपि नोत्कर्षः । अविवादे सर्वोऽपि पुरुषस्तया विजितः स्यादित्युत्कर्षोऽस्तु मा वा, सा जेतव्यैवे'ति विचार्य तत्क्षणमेव प्रीतिमत्या अग्रेऽभवत् । प्रीतिमती च मेघच्छन्नं सूर्यमिव दुर्नेपथ्यं तं दृष्ट्वा प्राग्जन्मस्नेहवशाद् नितान्तं मुमुदे । तथा तया पूर्ववत् कृतं पूर्वपक्षं च निराकृत्याऽपराजितस्तां पराजितवान् । सा चाऽपि तत्क्षणमेव तस्य गले स्वयंवरमालामक्षिपत् ।।
तेन च क्रुद्धाः सर्वे नृपा 'अस्मासु सत्स्वयं दरिद्रो नैनां परिणेतुमर्हति' इति वदन्तः सैन्यानि सज्जयित्वोदायुधाः ससंरम्भं योद्धुं प्रववृतिरे । अपराजितोऽप्येकं निषादिनं हत्वा तद्गजमारुह्य तद्गजकवचवर्तिभिरस्त्रैर्युयुधे । स एकोऽप्यनेकधा जात इव क्रुधा सर्वनृपसैन्यमभाङ्क्षीत् । ततो नृपाः पुरा स्त्रिया जिता, अधुनैकाकिनाऽनेनेति लज्जिताः सम्भूय योद्धं प्रवृत्ताः । ततोऽपराजितः सोमप्रभस्य गजमारुरोह । सोमप्रभश्च तं लक्षणैस्तिलकेन चोपलक्षितवान् । ततः स कुमारमालिङ्ग्य दिष्ट्या ज्ञातोऽसि भागिनेये
अष्टमं पर्व - प्रथमः सर्गः त्युवाच । तथा सर्वान् नृपांस्तदाख्यच्च । ततश्च सर्वे नृपा युद्धाद् विरता अभूवन् ।
ततो जितशत्रुः शुभे दिने तयोविवाहं चकार । अपराजितश्च स्वं स्वाभाविक रूपं चकार । तस्य पराक्रमेण रूपेण च सर्वो जनो मुमुदे । तथा जितशत्रुः सर्वान् सत्कृत्य व्यसृजत् । अपराजितश्च प्रीतिमत्या रममाणस्तत्रैवाऽस्थात् । तथा जितशत्रुसचिवो निजां रूपवती सुतां विमलबोधाय ददौ । सोऽपि तया सह यथासुखमरंस्त ।
अथाऽन्येद्युः श्रीहरिणन्दिनो दूत: समाययौ । स च कुमारेण दृष्टः प्रमोदादालिङ्गितश्च । तेन पित्रोः कुशलं पृष्टश्च दूतः साश्रुरुवाच'शरीरमात्रधारणमेव तयोः कुशलं, त्वनिष्क्रमणदिवसादेव साश्रुलोचनौ किंवदन्त्या त्वच्चरित्रं श्रावं श्रावं क्षणं सानन्दौ क्षणं च त्वद्वियोगेन मूच्छितौ भवतः । एतं वृत्तान्तं श्रुत्वा ताभ्यां सम्यग्ज्ञातुमत्र प्रेषितोऽस्मि । अतः परं पितरौ खेदयितुं नाऽर्हसि' । तच्छ्रुत्वा कुमारोऽपि साश्रुलोचन: स्वं विनिन्द्य जितशत्रुमापृच्छ्य ततः प्रतस्थे । तदानीं च भुवनभानुः सुताद्वययुतस्तत्राऽऽगात् । अन्येऽपि राजानस्तेन परिणीताः स्वस्वकन्या आनिन्युः । सूरकान्तोऽपि तत्राऽऽगात् । ततोऽपराजितः प्रीतिमत्याऽन्याभिश्च पत्नीभिर्नृपैश्च परिवारितः, सैन्यैर्भुवं व्याप्नुवन् कतिपयैरेव दिनैः सिंहपुरं प्राप । हरिणन्दी चैत्य प्रणमन्तमपराजितमालिङ्ग्य मूनि मुहुर्मुहुथुचुम्ब । माताऽपि च साश्रुनेत्रा तं पृष्ठे कराभ्यां पस्पर्श मूनि चुचुम्ब च । तथा प्रीतिमत्यादयो विमलवध्वो बोधेन नामग्राहं दर्शिताः श्वशुरयोः पादान् प्रणेमुः । अपराजितश्च सर्वान् नृपान् विसृज्य पित्रोरानन्दं वर्धयन् यथासुखं रममाणोऽस्थात् ।