________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किमेतदिति पृष्टश्च मन्त्रिपुत्रो लोकमुखाज्ज्ञात्वोवाच-'अत्र पुरे सुप्रभो नाम नृपोऽस्ति । स च केनचिद् राजकुले प्रविश्य च्छलाच्छुरिकया हतः, अस्य च राज्यरक्षकः कोऽपि पुत्रादिर्नाऽस्ति । तस्मात् पौरा आत्मरक्षिणो गृहीतायुधाः पुरे भ्राम्यन्ति, तत एव महांस्तुमुलो जायते' । तच्छ्रुत्वा च दुष्टेन केनाऽपि शत्रुणाऽयं हत इत्युक्त्वा सकरुणचेता अपराजितोऽस्थात् । संरोहणौषधैरपि नृपस्य व्रणे वर्धमान एव भवति सति कामलता नाम गणिका मन्त्रिणमाख्यत्'अत्र पुरे कोऽपि देव इव सुरूपो धार्मिक उदारः पुमानस्ति । असौ किञ्चिद्व्यापारमकुर्वन्नपि प्राप्तेष्ट इति महाप्रभावः सम्भाव्यते । ततः किञ्चिद्भेषजमानेतव्यम्'।
ततो मन्त्रिणः कुमारं प्रार्थ्य नृपसमीपं निन्युः । दयालुः कुमारश्च मित्रतो मणि-मूलिके समादाय नृपव्रणं चिकित्सयामास । तेन च स्वस्थो नृपोऽपराजितमुवाच-'त्वमकारणबन्धुरसि । मद्भाग्यादेवेहाऽऽयातोऽसि । तथा मन्त्रिपुत्रात् सर्वं वृत्तान्तं ज्ञात्वा च राजा पुनरुवाच-'अयं मन्मित्रस्य हरिणन्दिनः पुत्रः । महान् प्रमादो यद् मित्रपुत्रमपि नाऽज्ञासिषम्' । एवमुक्त्वा स रम्भा नाम निजकन्यकां साग्रहं तस्मै ददौ । अपराजितश्च तया सह रममाणः कञ्चित्कालं व्यतीत्य मन्त्रिपुत्रेण सह पूर्ववद् निर्ययौ' ।
अथ कुण्डपुरं प्राप्य तत्रोद्याने केवलिनं स्वर्णपद्मस्थं महामुनि दृष्ट्वा सप्रदक्षिणं नत्वोपविश्य च धर्मदेशनां शुश्राव । देशनान्ते च नत्वाऽपृच्छत्-'अहं भव्योऽभव्यो वा ?' तत: केवली जगाद-'त्वं भव्योऽसि, इतः पञ्चमे भवेऽर्हन् भविष्यसि द्वाविंशः । तव मित्रं चाऽयं गणधरो भविष्यति' । तच्छ्रुत्वा मुदितौ तौ तं मुनि सेवमानौ
अष्टमं पर्व - प्रथमः सर्गः धर्मपरायणौ कियन्तं कालं तस्थतुः । मुनौ चाऽन्यत्र विहाँ गते सति तावपि स्थाने स्थाने चैत्यानि वन्दमानौ विचेरतुः ।
इतश्च जनानन्दपुरे जितशत्रुर्नाम नृप आसीत् । तस्य पत्नी च धारिणी नाम । रत्नवती च स्वर्गाच्च्युत्वा तस्या उदरेऽवातरत् । पूर्णे समये सा धारिणी प्रीतिमती नाम पुत्री सुषुवे । सा वर्धमाना सर्वाः कला: प्राप्य यौवनं प्रपन्ना । तस्याश्च कलापण्डितायाः क्वाऽपि पुरुषे दृष्टिर्न प्रीणाति स्म । राजा च येन केनाऽप्यस्या विदग्धाया विवाहो नोचित इति विचार्य तां रहसि कस्ते वर इष्ट इत्यपृच्छत् । सा च यो मां कलासु जेता स मे वरो भवत्वित्युवाच । राज्ञा च तत् स्वीकृतम् । ततस्तस्याः सा प्रतिज्ञा लोके ख्याता ।
जितशत्रुश्च स्वयंवरे बहून् राज्ञो राजपुत्रांश्चाऽजूहवत् । स्वपुत्रवियोगखिन्नं हरिणन्दिनं विना बहवो नृपाः खेचरेन्द्राश्च समागताः, ते सर्वे च मञ्चेषूपाविशन् । अपराजितोऽपि दैवात् तत्राऽऽगतः । स मन्त्रिपुत्रमुवाच-'समये समागताः स्मः, विज्ञानां कलापाण्डित्यां तां कन्यां च द्रक्ष्यामः' । तथाऽस्मान् कोऽपि मा ज्ञासीदिति स गुटिकया प्राकृतजनोचितं रूपं कृतवान् । ततस्तावुभौ विकृताकारौ स्वयंवरमण्डपं जग्मतुः । प्रीतिमती च दिव्यनेपथ्या दासीप्रभृतिभिरूपचर्यमाणा तत्राऽगात् । तस्या मालती नाम सखी चाऽगुल्या निर्दिश्य निर्दिश्य तत्तन्नृपं वर्णयामास । एते च भूचराः खेचराश्च सर्वे कलाविदः, तदेतान् पश्य, परीक्षस्व चे'त्युवाच च । तयेत्थमुक्ता प्रीतिमती चक्षुषा कामबाणेनेव सर्वान् नृपान् सम्भावयन्ती कोकिलकूजितेनेव स्वरेण पूर्वपक्षमकरोत् । किन्तु सर्वेऽपि भूपा बद्धकण्ठा इवोत्तरीतुमसमर्थास्तूष्णीं तस्थुः । तथा