________________
anuman
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: खेचर उवाच-'त्वयाऽहं चारु पराजितः, स्त्रीवधाद् नरकाच्च रक्षितः । मम वस्त्राञ्चलग्रन्थौ मणि-मूलिके विद्यते । तस्य मणेर्जलेन मूलिकां घृष्ट्वा मव्रणे लिम्प' । कुमारेण च तथाकृते खेचरः स्वस्थो जातः । कुमारपृष्टश्चैवं कन्यावृत्तान्तमाख्यत्'इयं रथनूपुरेशस्याऽमृतसेनस्य रत्नमाला नाम पुत्री । ज्ञानिना चाऽस्या वरो हरिणन्दिनृपपुत्रोऽपराजितो भावीत्याचख्यौ । एषाऽपि च तत्रैवाऽनुरक्ताऽभूत् । मया दृष्टा च विवाहाय याचिता । इयं च च मम याचनां न स्वीचकार । तथाऽपराजितो मे पाणि गृह्णीयाद् दहनं वा प्रविशेयं नाऽन्या मे गतिरित्युवाच च । तदस्या वचसा क्रुद्धोऽहं श्रीषेणपुत्रः सूरकान्तो नामाऽस्याः पाणिग्रहणार्थ कृतनिश्चयो निर्गत्य दुःसाध्या विद्याः साधयित्वा भूयोऽपि बहभिरुपायैरेनामयाचिषि । यदेयं केनाऽप्युपायेन मां न स्वीचकार, तदा हत्वेयमत्राऽऽनीता मया कामान्धेन खण्डयित्वाऽग्नौ क्षेप्तुं विचारिता । किन्तु त्वयेयं रक्षिता, अहं च दुर्गते रक्षितः । तदेवं त्वं द्वयो रक्षकोऽसि, कोऽसीति कथय । ___ ततो मन्त्रिपुत्र: कुमारस्य कुलादिकमुवाच । रत्नमालाऽपि चेष्टसमागमाद् नितरां मुमुदे । रत्नमालायाः पितरौ च कीर्तिमत्यमृतसेनौ पृष्ठतो धावमानौ तदानीं तत्रेयतुः । मन्त्रिपुत्रेण पृष्टेन सर्व ज्ञात्वा चाऽस्या इष्ट एव रक्षिताऽभूदिति भृशं मुमुदाते । ततस्ताभ्यां दत्तां रत्नमालामपराजितः परिणिन्ये । तयोरेव वचसा च सूरकान्तायाऽभयं ददौ । सूरकान्तश्च कुमाराय निःस्पृहत्वाद् मन्त्रिपुत्रस्य ते मणि-मूलिके वेषपरिवृत्तिकरी गुटिकां च प्रादात् । पश्चादपराजितो 'निजस्थानं मयि गते भवतेयं स्वपुत्री समानेतव्ये'
अष्टमं पर्व - प्रथमः सर्गः त्यमृतसेनमुक्त्वा ततोऽचालीत् । पुत्र्या सहाऽमृतसेनः स सूरकान्तश्च स्वस्थानं जग्मुः । ___ अथ कुमारोऽग्रतो गच्छनटव्यां तृषार्त आम्रतरोस्तले समुपविवेश । मन्त्रिपुत्रश्च जलमानेतुमगात् । दूरं गत्वा जलमादाय मन्त्रिपत्रो यावदागच्छति तावत् तत्राऽपराजितं नाऽ पश्यत् । ततः स दध्यौ-किमिदं न तत् स्थानम् ? अथवा तृषार्त्तः कुमारः स्वयमेव जलार्थं ययौ' । एवं विचार्य कुमारस्याऽन्वेषणायेतस्ततोऽटन् मूच्छितो भुव्यपतत् । लब्धसंज्ञश्चोत्थाय करुणस्वरं रुरोद । पुनश्च कुमारमन्वेषयितुं ग्रामादिषु भ्रमन् स नन्दिपुरं नाम पुरमगात् ।
अथ यावच्च तत्र स बहिरुद्यानेऽस्थात् तावत् तत्र द्वौ खेचरावेत्योचतुः-'खेचरेन्द्रो भुवनभानुर्महावने प्रासादं विकृत्याऽऽस्ते । तस्य च कमलिनी-कुमुदिन्यौ द्वे कन्ये । तयोश्च ज्ञानिना तव मित्रं वर आचख्ये । तस्याऽऽनयनार्थं नियोजितावावां वने युवां दृष्टवन्तौ । तत्र त्वयि जलार्थं गतेऽपराजितं हृत्वा भुवनभानोरन्तिकेऽनयाव । तं च सत्कृत्य स्तुत्वा ताभ्यां पुत्रीभ्यां विवाहार्थं प्रार्थयामास नृपः। किन्तु कुमारस्त्वद्वियोगातः प्रत्युत्तरमपि नाऽदात्। मुनिरिव मौनी त्वामेव ध्यायन्नास्ते । ततः स्वामिनाऽऽज्ञापितावावां त्वामानेतुमितस्ततोऽन्वेषयन्ताविहाऽऽगतौ स्वः, दिष्ट्या दृष्टोऽसि । तदुत्तिष्ठ, शीघ्रं गच्छ, कुमारस्य ताभ्यां विवाहस्त्वदधीनः'। ततो मुदितो मन्त्रिपुत्रस्ताभ्यां सह कुमारसमीपं जगाम । कुमारोऽपि च प्रसन्नस्ते कुमार्यावुपयेमे । तत्र किञ्चित्कालं स्थित्वा पूर्ववदेव ततो निर्जगाम। ___ अथ श्रीमन्दिरपुरं प्राप्य तौ सूरकान्तदत्तमणिमाहात्म्यात् प्राप्तेष्टौ तत्र तस्थतुः । अन्यदा च तस्मिन् पुरे तुमुलध्वनिरुत्तस्थौ । सर्वतश्च सन्नद्धा उद्यतास्त्रा भटा अदृश्यन्त । अपराजितेन