________________
१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बभूव । चित्रगतेर्जीवश्च च्युत्वा महास्वप्नसूचितस्तस्याः कुक्षाववततार । पूर्णे समये च प्रियदर्शना सुरूपं पुत्रं सुषुवे । महीपतिस्तस्य समहोत्सवमपराजित इति नाम चक्रे । स धात्रीभिलाल्यमानः क्रमेण वर्धमानः सर्वाः कलाः प्राप्य यौवनं प्रपन्नवान् ।
तस्य चाऽमात्यपुत्रो विमलबोधो नाम वयस्यः सहाध्यायी बभूव । तौ चैकदा हयारूढौ रममाणौ पुराद् बहिर्जग्मतुः । अश्वाभ्यां च दुविनीताभ्यां हृत्वा दूरे महारण्ये नीतौ । तत्राऽश्वयोः श्रान्तयोवृक्षमूलेऽवतीर्याऽपराजितो विमलबोधमुवाच-'अश्वाभ्यां दिष्ट्या हृतावावामनेकाश्चर्यपूर्णेयं मही दृष्टा' । अत्रान्तर एव च रक्ष रक्षेति वदन् कोऽपि पुरुषस्तत्राऽऽजगाम । तं च भीतं शरणागतं मा भैषीरिति कुमारो जगाद । ततो मन्त्रिपुत्र उवाच-'नेदं साधुकृतं, यद् एषोऽन्यायी स्यात् तदा शोभनं न भवेत्' ।
ततोऽपराजित उवाच-'शरणागतः कोऽपि वा भवतु, स त्रातव्य इति क्षत्रियधर्मः' एवं कुमारे वदत्येव हत हतेति वादिनः कृष्टखड्गा आरक्षपुरुषास्तत्राऽऽगताः । ते च 'यवां दरमपयातम, एष चौरः, एनं हनिष्यामी'ति दूरतोऽप्यूचुः । ततः कुमारः स्मित्वाऽऽह'मां शरणमुपागतोऽयं मयाऽवश्यं रक्षणीयः' । ततः क्रुद्धा आरक्षा यावत् प्रहारं चक्रुस्तावदेव कुमारः कृष्टासिस्तान् जघान । ते च नंष्ट्वा स्वस्वामिने कोशलराजाय सर्वं वृत्तं शशंसुः । राजाऽपि चौररक्षिणो वधाय सैन्यं प्रेषयामास । अपराजितेन सैन्ये पराजिते च स्वयं नृपः सैन्यैः परिवृतः समागात् । ततोऽपराजितश्चौरं मन्त्रिपुत्राय समर्प्य युधि तत्पर एकस्य दन्ते पदं न्यस्य तत्कुम्भमारुह्य निषादिनं हत्वा तद्गजारूढ एव युयुधे । केनचिद् मन्त्रिणोपलक्ष्य च स नृपाय कथितः ।
अष्टमं पर्व - प्रथमः सर्गः
तत: कोसलेश्वरः सैन्यान् युद्धाद् निषिध्याऽपराजितं 'त्वं मन्मित्रस्य हरिणन्दिनः पुत्रोऽसि, दिष्टयेहाऽऽयातोऽसीत्युक्त्वाऽऽलिलिङ्ग । तथा तं लज्जानम्रमुखं स्वगजे समारोप्य स्वपुत्रमिव निजगृहं निनाय, मन्त्रिपुत्रश्चाऽपि तस्करं विसृज्याऽपराजितमन्वाययौ । उभौ च कोसलेशगृहे सुखं तस्थतुः । कोसलेशश्च कनकमालाख्यां स्वां पुत्रीमपराजिताय सानन्दं ददौ ।
तत्र कतिचिद्दिनानि स्थित्वा चाऽन्यदा समित्रोऽपराजितो गतिविघ्नो मा भूदिति रात्रौ पुर्या निर्ययौ । व्रजंश्च कालिकादेव्यायतनसमीपे 'हा निर्वीरोर्वो जातेति निशि रुदितं शुश्राव । दयालुः स काऽप्येषा स्त्री रोदितीति निश्चित्य रुदितशब्दमनुसरन् ज्वलिताग्निसमीपे स्थितामेकां स्त्रियं कृष्टखड्गं पुरुषं च ददर्श । कोऽप्यस्माद् विद्याधराद् मां पात्विति पुन: सा रुरोद । ततः कुमारस्तमाक्षिपत्-'रे ! रणायोत्तिष्ठ, अबलायां किमेतत् ते पौरुषम् ?' ततः क्रुद्धः स खेचर: कुमारमाक्षिपन् युद्धायोदतिष्ठत् । तौ खड्गाखड्गि युध्यमानावन्योन्यं प्रहारं वञ्चयमानौ चिरमयुध्येताम् । बाहुयुद्धेऽप्यपराजेयमपराजितं मत्वा स नागपाशेन तं बन्ध । कुमारश्च क्रुद्धस्तं नागपाशं बिभेद । ततोऽतिक्रुद्धो विद्याधरो विद्याप्रभावतो विविधैरस्त्रैः कुमारं प्राहरत् । किन्तु पुराकृतसुकृतप्रभावाच्छरीरसामर्थ्याच्च कुमारे मनागपि प्रहारा: सफला न जाताः। अत्राऽन्तरे च सूर्य उदितेऽपराजितः खड्गेन खेचरं मूनि जघान । तेन मूच्छितश्च खेचरो भुवि पपात । सा स्त्री चाऽपराजितं दृष्ट्वा कामार्ता जाता । कुमारश्चोपचारैः खेचरं लब्धसंज्ञं विधाय भूयो रणायाऽऽह्वास्त ।