________________
१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा ध्यानस्थं तं बाणेन हृदि जघान । सुमित्रश्च शुभध्यानपरायणः स्मृतनमस्कारमन्त्री विपद्य ब्रह्मलोके सामानिको देवोऽभूत् । पद्मश्च प्रणश्य गच्छन् कृष्णसर्पण दष्टो विपद्य सप्तमे नरके नारको जातः । ___ चित्रगतिश्च सुमित्रमृत्युना चिरं शोकं कृत्वा सिद्धायतने नन्तुं यात्रां कर्तुं जगाम । तत्र च बहवो विद्याधरेश्वरा आययः । अनङ्गसिंहचाऽपि पुत्र्या रत्नवत्या सह तत्र ययौ । चित्रगतिश्च तत्र शाश्वतार्हतां विविधा: पूजाश्चके । सुमित्रो देवश्च तदवधिना ज्ञात्वा तत्राऽऽगतस्तस्योपरि पुष्पवृष्टिं चकार । ततस्तद् दृष्ट्वा सर्वेऽपि खेचरेश्वराश्चित्रगति प्रशशंसुः । अनङ्गसिंहोऽपि तं स्वपुत्रीवरमज्ञासीत् । सुमित्रदेवश्च प्रत्यक्षीभूय मां प्रत्यभिजानासि किमिति चित्रगति पप्रच्छ । त्वं महद्धिर्देव इति कथितवति चित्रगतौ स परिचयाय सुमित्ररूपं चक्रे । चित्रगतिश्च तमालिङ्गयोवाच'महामते ! त्वत्प्रसादाद् मयाऽयं धर्मः प्राप्तः' । ततः सुमित्रोऽपि जगाद-'त्वत्प्रसादेनैव मयेयं महद्धिः प्राप्ता । अन्यथा प्रत्याख्यानादिविहीनो मृतः कां गति प्राप्तः स्याम् ? एवं परस्परं प्रशंशतोस्तयोः श्रीसूरादयो विद्याधरेश्वरा नितरां मुमुदिरे । __ तत्र रलवती च रूपेण चारित्रेण चाऽप्रतिम चित्रगतिं दृष्ट्वा कामार्ता जाता । अनङ्गसिंहश्च पुत्री विमनसां दृष्ट्वाऽचिन्तयत्'ज्ञानिकथितं वचः संवदति । असौ मम खड्गरत्नमाच्छिन्नवान्, इह च पुष्पवृष्टिरपि जाता । मम पुत्र्याश्चाऽनुरागो जातः । अयं रत्नवत्या अनुरूपो वरः । किन्त्वत्र देवस्थाने तत्कथा न युज्यते' । एवं विचार्य स सपरिवारः स्वगृहं ययौ । अनङ्गसिंहेन प्रेषित एको मन्त्री चाऽऽगत्य सूरं प्रणम्य विनयादेवमुवाच-'प्रभो ! तव पुत्रश्चित्रगती
अष्टमं पर्व - प्रथमः सर्गः रूपवान्, अनङ्गसिंहपुत्री रलवती चाऽपि स्त्रीरत्नम् । तदनयोः सम्बन्धो भवदाज्ञया जायताम्' । सूरोऽपि तद्वचः प्रतिपद्य समहोत्सवं तयोविवाहं चकार ।
चित्रगतिश्च तथा रत्नवत्या सह वैषयिकं सुखं बुभुजे । अर्हत्पूजादिकं च तया सह विदधानः सुखं कालं निनाय । धनदेवधनदत्तजीवौ च च्युत्वा मनोगति-चपलगतिनामानौ तस्याऽनुजौ बभूवतुः । चित्रगतिश्च ताभ्यां रत्नवत्या च सह नन्दीश्वरादिषु यात्रां चक्रे । अन्यदा च सूरनृपस्तं राज्ये निवेश्य स्वयं व्रतमग्रहीत्, व्रतं पालयंश्च परमं पदं प्राप । चित्रगतिश्चाऽनेका विद्याः साधयित्वा विद्याधरेश्वरान् शशास। ___ अथाऽन्यदा तस्य सामन्तो मणिचूडो व्यपद्यत । तत्सुतौ च शशि-सूरौ राज्यार्थेऽयुध्येताम् । चित्रगतिश्च तद्राज्यं विभज्य तयोर्दत्त्वा धर्मोपदेशैः सन्मार्गे स्थापयामास । तथाऽपि तौ युद्ध्वा मृतौ । चित्रगतिश्च तच्छ्रुत्वा दध्यौ-'अनित्याया लक्ष्म्या अर्थेऽल्पमतयो युध्यन्ते दुर्गति यान्ति च । तदिमे किं न मोक्षाय यतन्ते ?' एवं विमृश्य विरक्तो रत्नवतीकुक्षिजं ज्येष्ठं पुत्रं पुरन्दरं राज्यं न्यधात् । ततो रत्नवत्या कनिष्ठाभ्यां भातृभ्यां च सह दमधराचार्या दीक्षां गहीतवान् । चिरं व्रतं पालयित्वाऽन्तेऽनशनं प्रपद्य विपद्य माहेन्द्रे परमद्धिको देवश्चाऽभवत् । रत्नवती कनिष्ठौ भ्रातरौ चाऽपि तत्रैव देवोत्तमा अभवन् ।
इतश्च पश्चिमविदेहे पद्मविजये पुरोत्तमे सिंहपुरे हरिणन्दी नाम तेजस्वी नृपो बभूव । तत्पत्नी प्रियदर्शना च सर्वनेत्रानन्ददायिनी