________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वन्दित्वा गन्तुमर्हसि । तदागमनकालं यावदत्रैव तिष्ठ' । ततश्चित्रगति: 'आम्' इत्युक्त्वा तेन सह क्रीडन् युग्मजात इव बहून् दिवसान् सुखमनैषीत् ।
१०
अन्यदा च द्वावुद्यानं जग्मतुः । तदा च तत्र सुयशा विहरन् समाययौ । तत्र देवैर्वृतं स्वर्णकमलस्थं मुनिं तौ वन्दित्वोपविविशतुः । सुग्रीवनृपोऽपि श्रुत्वाऽऽगत्य मुनिं वन्दितवान् । मुनिश्च धर्मदेशनां चकार । देशनान्ते च चित्रगतिर्नत्वा मुनिमाह- 'अहं भवता दयालुना साधु धर्मं बोधितः, एष सुमित्रो मम मित्रमसमोपकारी, येन भवद्दर्शनं लब्धम्' । एवमुक्त्वा च चित्रगतिर्मुनेः पुरः सम्यक्त्वपूर्वकं श्रावकत्वं जग्राह । सुग्रीवश्च मुनिं प्रणम्य पप्रच्छ- 'साऽस्य विषं दत्त्वा भद्रा क्व ययौ ?' ततो मुनिरुवाच- 'सा भद्रा नंष्ट्वाऽरण्ये गता तस्करैर्भूषणादिकमाच्छिद्य पल्लीशस्य समर्पिता । पल्लीशेन च वणिक्पार्श्वे विक्रीता ततोऽपि नंष्ट्वा यान्ती दवाग्निना दग्धा । रौद्रध्यानवती च मृत्वा प्रथमं नरकं ययौ । तत उद्वृत्त्य च चण्डालपत्नी भविष्यति । जाते गर्भे च सपत्न्या छुरिकया गले हता तृतीयं नरकं प्राप्य पश्चात् तिर्यक्त्वमाप्स्यति । एवमनन्तसंसारदुःखमनुभविष्यति' ।
ततो नृपः पुनरुवाच-‘मुने ! यस्य कृते सैतत् सर्वं चकार, स तत्पुत्रोऽत्र तिष्ठति, सैका नरकं गता तदेतं संसारं धिक् । अहं प्रव्रज्यां ग्रहीष्यामि' । ततः सुमित्रो नृपं प्रणम्योवाच- 'मां धिक्, यदहं मातुरीदृक् कर्महेतुर्जातः । तन्मामनुजानीहि अहमपि प्रव्रजिष्यामि । ततो नृपस्तं प्रतिषिध्य राज्ये निवेश्य स्वयं व्रतं गृहीतवान् । ततश्च सुग्रीवः केवलिना सह विहृतवान् । सुमित्रश्च चित्रगतिना सह निजवेश्म ययौ । तथा स सुमित्रो भद्रापुत्राय कति
अष्टमं पर्व प्रथमः सर्गः
ग्रामानदत्त । किन्तु दुर्बुद्धिः स तेनाऽप्यसन्तुष्टः क्वाऽप्यगात् । चित्रगतिश्च सुमित्रमापृच्छ्य निजं पुरं जगाम । तथा देवपूजादिभि: कालं गमयामास ।
तमाश्वास्य
इतश्च सुमित्रस्वसारं कलिङ्गनृपपत्नीमनङ्गसिंहपुत्रः कमलो रत्नवतीभ्राता जहार । चित्रगतिश्च भगिनीहरणात् खिन्नं सुमित्रं चरैर्ज्ञात्वा स्वसारमन्विष्याऽचिरादेवाऽऽनयिष्यामीति तदन्वेषणाय चचाल । कमलेन सा हृतेति वार्तामुपलभ्य स सर्वसैन्येन शिवमन्दिरं नगरं ययौ । तत्र च कमलं गजः कमलमिव लीलयैवोन्मूलयामास । ततः पुत्रपराभवेन क्रुद्धोऽनङ्गसिंहः सिंहनादं कुर्वन् दधाव । तयोश्च विद्याबलात् सैन्यबलाच्च चिरं भयङ्करो रणः प्रावृतत् । ततश्चाऽनङ्गस्तं दुर्जयं ज्ञात्वा क्रमागतं देवदत्तं खड्गं सस्मार । पाणौ पतितं चाऽत्युग्रं तत्खड्गमादाय चित्रगतिं भर्त्सयामास । चित्रगतिश्चाऽपि तं निर्भत्स्यऽन्धकारं विकृत्य तत्पाणे: खड्गरत्नमाच्छिदत् । तथा सुमित्रस्य स्वसारं शीघ्रं गृहीत्वा ततो जगाम । अनन्तरमालोके जाते चाऽनङ्गः करे खड्गरत्नं तं शत्रुं चाऽपश्यन् । क्षणं विषादं प्राप्तश्च स ज्ञानिनो वचः स्मृत्वा मुमुदे । सिद्धायतनवन्दने देवैः कुसुमवृष्ट्या स ज्ञास्यते इति विचारश्च स्वगृहं ययौ ।
चित्रगतिश्चाऽखण्डशीलां भगिनीं सुमित्रस्याऽर्पयामास । सुमित्रश्च पुराऽपि भवोद्विग्नो भगिन्यपहारेण सातिशयं विरक्तो राज्ये सुतं न्यस्य सुयशोमुनेश्चित्रगतेः समक्षं व्रतं जग्राह । चित्रगतिश्च स्वपुरमगात् । सुमित्रश्च गुरुमनुसरन् किञ्चिदूनानि नवपूर्वाण्यधीते स्म । तथा गुरोरनुज्ञयैकाकी विहरन् सुमित्रो मगधेषु गतः पुराद् बहि: कायोत्सर्गेण तस्थौ । तस्य वैमात्रेयः पद्मश्च तत्राऽऽगतस्तं