________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सामानिकौ देवावजायेताम् । धनभ्रातरौ च धनदत्त-धनदेवौ व्रतं पालयित्वा विपद्य सौधर्मे देवौ जातौ ।
इतश्चाऽत्र भरते वैताढ्योत्तर श्रेण्यां सूरतेजःपुरे सूरनामा विद्याधरेश्वरो बभूव । तस्य मेघस्य विद्युदिव विद्युन्मती नाम भार्याऽतिप्रेमपात्रं बभूव । तस्याः कुक्षौ च धनजीवः सौधर्माच्च्युत्वा समवातरत् । पूर्णे समये च विद्युन्मती शुभलक्षणं सुतं सुषुवे । पिता च तस्य जातस्य समहोत्सवं चित्रगतिरिति नाम चक्रे । क्रमेण वर्धमानश्चित्रगतिराचार्यात् सकला: कलाः प्राप्य यौवनं प्रपन्नवान् ।
इतश्चाऽत्रैव वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरनगरेऽनङ्गसिंहो नाम नृपोऽभूत् । तस्य शशिमुखीनामपत्न्या उदरे धनवतीजीव: सौधर्माच्च्युत्वाऽवातरत् । सा च शशिमुखी समये रूपवतीं पुत्रीं सुषुवे । सा च बहूनां पुत्राणां पश्चाज्जातेति मातुरत्यन्तप्रियाऽभूत् । पिता च तस्याः शुभेऽहनि समहोत्सवं रलवतीति नाम चक्रे । सा च क्रमेण वर्धमाना स्त्रीजनोचिताः सकला: कला अचिरेणैव गृहीत्वा देहभूषणं यौवनं प्रपन्ना । एकदा चाऽस्या: को योग्यो वर इति पित्रा पृष्टो नैमित्तिक उवाच-'यस्तवाऽसिरत्नमाच्छेत्ता, तथा यस्य सिद्धायतनं वन्दमानस्योपरि देवैः पृष्पवृष्टिः कृता स्यात् स नर श्रेष्ठस्तवेमां पुत्री रत्नवतीं परिणेष्यति' । यो ममाऽपि खड्गरत्नमाच्छेत्ता सोऽद्भुतनिधिर्मम जामाता स्यादिति प्रीतो नृपो नैमित्तिकं विससर्ज।
इतश्चाऽत्रैव भरते चक्रपुरनगरे गुणवान् सुग्रीवो नाम नृपो बभूव । तस्य यशस्वत्यां पन्यां सुमित्राख्यो ज्येष्ठः पुत्रो भद्रायां
अष्टमं पर्व - प्रथमः सर्गः पत्न्यां च पद्मनामा कनिष्ठः सुतश्च बभूवतुः । तयोः सुमित्रो गम्भीरो विनयी नीतिसम्पन्नः कृतज्ञोऽर्हद्धर्मपरायणः, पद्मश्च ततो विपरीतोऽभवत् । भद्रा च 'अस्मिन् सुमित्रे जीवति मम पुत्रस्य राज्यं न भवेदि'ति द्वेषात् सुमित्रस्योग्रं विषं ददौ । विषावेगाच्चमूच्छितः सुमित्रो भुवि पपात । ततश्च ससम्भ्रमं तत्र सुग्रीवो मन्त्रिभिः सह समागत्य मन्त्रतन्त्रैरनेकश उपचारं चकार । किन्तु तस्य विषप्रभावशान्तिर्न जाता । पुरे च 'भद्रा सुमित्रस्य विषं ददा'विति प्रवादो जातः । भद्रा चाऽऽशङ्किता पलाय्य क्वाऽप्यगात् । नृपश्च पुत्रार्थे जिनार्चादिकं शान्तिकं चकार तथा सुतगुणान् स्मारं स्मारमत्यन्तं विललाप ।
अत्राऽवसरे नभसि क्रीडया विचरंश्चित्रगतिविमानेन तत्राऽऽगतः शोकातुरं पुरं दृष्ट्वा तद्विषवृत्तान्तं च ज्ञात्वा विद्याभिमन्त्रितैर्जलैस्तमभ्यषिञ्चत् । तेन च सुमित्रः किमेतदिति पृच्छन् विस्मितनेत्रः सद्य एवोत्तस्थौ । ततो नृप उवाच-'तव मात्रा भद्रया ते विषं ददे । अकारणोपकारिणा चाऽनेन स्वस्थः कृतोऽसि' । ततः कृताञ्जलि: सुमित्रश्चित्रगतिमुवाच-'तव परोपकारबुद्ध्यैव कुलं ज्ञातम् । तथाऽपि स्वकुलमाख्यातुमर्हसि' । ततश्चित्रगतेः पारिपार्श्वका सचिवपुत्रस्तद्वंशादिकं सर्वं शशंस ।
ततो हष्टः सुमित्र उवाच-'विषप्रदया विषेण चाऽद्य ममोपकृतमेव, कथमन्यथा तव सङ्गम: स्यात् ? त्वं मम जीवनप्रद एव नाऽसि, किन्तु प्रत्याख्यानादिहीनदुर्मृत्योरपि रक्षकोऽसि, तवाऽहं किं प्रत्युपकरोमि' । एवमुक्त्वा विरतं सुमित्रं मित्रतामापन्नं निजपुरप्रयाणाय चित्रगतिरापप्रच्छे । तत: सुमित्र उवाच-'अत्र समीपदेशे एव सुयशानामा केवली विहरन्नास्ते । तमिहाऽऽगतं