________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काम इव स्वैरं रममाणश्च स कियन्तमपि कालं मुहूर्त्तवद् गमयामास।
अन्यदा च सोऽश्वं वाहयन्नुद्यानं ययौ । तत्र च चतुर्ज्ञानधरं वसुन्धरं मुनि देशनां कुर्वन्तं ददर्श । स तं प्रणम्य यथास्थानमुपविश्य च भक्त्या कर्णप्रियां देशनामश्रौषीत् । तत्र च विक्रमधनो धारिणी धनवती चाऽप्यागत्य मुनि नत्वा सर्वे धर्मदेशनां शुश्रुवुः । देशनान्ते च विक्रमधनोऽपृच्छत्-'धने गर्भस्थेऽस्य माता स्वप्ने रसालतरं ददर्श । तत्र कोऽपि पुरुष आख्यत्-'एतस्य नव वारान् पुनः पुनरन्यत्राऽन्यत्र रोपणे उत्तरोत्तरमत्कष्टं फलं भविष्यति' । तत्र नववाररोपणस्य किं फलमिति प्रसद्याऽऽख्याहि' । स मुनिरपि दूरे स्थितं केवलिनं मनसोपयुज्य सम्यग्ज्ञानाय तदपृच्छत् । केवल्यपि तत्प्रश्नं केवलज्ञानेनाऽवधार्याऽरिष्टनेमेनवभवात्मकं चरितमाख्यत् ।
स मुनिश्च मनःपर्यवा-ऽवधिभ्यां तज्ज्ञात्वोवाच-'तव सुतो धन एतद्भवानन्तरं नवभवानुत्कृष्टान् यास्यति । नवमे भवे चाऽरिष्ट नेमिनामा यदुवंशोत्पन्नो द्वाविंशस्तीर्थकरो भविष्यति' । तन्मुनिवचनं श्रुत्वा च सर्वे मुमुदिरे । तदा च सर्वेषां जिनधर्मेऽधिक: सद्भावोऽजायत । विक्रमधनश्च तं नत्वा धनादिभिः सह स्वं गृहं ययौ । मुनिरपि विहारक्रमादन्यतो ययौ । धनश्च धनवत्या सह रममाणो विषयसुखमन्वभूत् ।
एकदा च स जलक्रीडां कर्तुं धनवत्या सह क्रीडासरोऽद्य जगाम । तत्राऽशोकतरुतले शान्तो धर्म-तृषादिभिर्मूच्छितः स्रवद्रुधिराक्तपादो भुवि पतन् कोऽपि मुनिर्धनवत्या धनस्य दर्शितः । तौ च ससम्भ्रमं तन्मुनेरुपचारं चक्रतुः । शिशिरोपचारैश्च मुनिश्चैतन्यं
अष्टमं पर्व - प्रथमः सर्गः प्राप । धनश्च स्वस्थं तं प्रणम्योवाच-'अहं धन्योऽस्मि । यत्पृथिव्यां कल्पदुम इव मया प्राप्तोऽसि । किन्तु मया पृच्छ्यसे यदियमवस्था ते कुत: ? यदि न गोप्यं तर्हि कथय ।
ततो मुनिरुवाच-'अहं मुनिचन्द्रनामैकदा विहरन् सार्थभ्रष्टोऽरण्ये दिग्भ्रमादितस्ततोऽटन्निहाऽगां, क्षुत्-तृष्णार्त्तश्च मूच्छितो भुव्यपतम् । ततः परं भवदुपचारेण लब्धसंज्ञो जातोऽस्मि । तव धर्मलाभोऽस्तु । यथाऽहं क्षणाद् नष्टसंज्ञोऽभूवम्, इहभवे तथा सर्वं तथैव । तस्माच्छुभमिच्छुना धर्म आराधनीयः' । एवमुक्त्वा स मुनिचन्द्रो मुनिः सम्यक्त्वमूलं जिनोदितं गृहिधर्म तस्याऽऽख्यत् । स धनोऽपि च धनवत्या सह तं धर्मं प्रतिपन्नवान् । तथा तं मुनि गृहे नीत्वा भक्त पानाद्यैः प्रत्यलाभयत् । तथा धर्मशिक्षार्थं तं मुनि कञ्चित् कालं स्वगृह एव वासयामास । मुनिश्च धनमनुज्ञाप्य पुनः स्वगच्छेनाऽमिलत् । धनवती-धनौ च श्रावकधर्माणौ जातौ । तदेवमेक धर्मानुरागात् तयोः पूर्वतोऽपि प्रेम ववृधे । पित्रा चाऽन्तकाले राज्येऽभिषिक्तकः स धनः श्रावकधर्मेण सह महीमपालयत् ।
एकदा चोद्यानपाल आगत्योद्यानगह्वरे समागतं वसुन्धरमुनिं धनाय न्यवेदयत् । धनश्च धनवत्या सह सद्यो गत्वा नत्वा देशनामश्रौषीत् । भवोद्विग्नश्च धनो राज्ये धनवतीकुक्षिजं जयन्तं नाम पुत्रं निधाय धनवत्या सह वसुन्धरमुनेव्रतं गृहीतवान् । तमनुसृत्य तभ्रातरावपि धनदत्त-धनदेवौ व्रतं जगृहतुः । धनश्च गुरुं सेवमानो दुस्तपं तपस्तेपे । तथा गीतार्थः सन् गुरुणाऽऽचार्यपदेन योजितः । स च बहून् नृपान् प्रतिबोध्य दीक्षित्वाऽन्ते धनवत्या सहाऽनशनमग्रहीत् । मासान्ते च तौ द्वौ विपद्य सौधर्मे महद्धिकौ शक्र