________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्मिंश्चिन्तयत्येव तस्य प्राक्प्रेषितो निजो दूतः श्रीविक्रमधननृपपार्श्वत: समाययौ । राजवृत्तमाख्याय तूष्णीकः स दूत: सिंहनृपेण पृष्टः-'किं तत्राऽद्भुतमपश्य:' ? ततः स दूत उवाच-'तत्र विक्रमधननृपपुत्रस्य धनस्य रूपं सुराद्यसाधारणं मनोहरमपश्यम् । तद् दृष्ट्वैव चाऽचिन्तयं यदसौ धनवत्या अनुरूपो वरः, तदनयोः सङ्गमेन विधिविधानसाफल्यं स्यात्' । ततः प्रसन्नो राजा त्वं स्वयं मत्कार्यचिन्तको मम वरचिन्तामपहृत्योपकृतवानसि, तद् गच्छ, विक्रमधनं धनाय धनवतीदानाय मदाज्ञया प्रार्थयस्व । तदैव धनवत्यनुजा चन्द्रवती पितरं वन्दितुं तत्र गता तयोः सर्व वचोऽश्रौषीत् । दूतो निजगृहं जगाम । चन्द्रवत्यपि गृहमेत्य तद्भाग्य प्रशंसन्ती धनवत्यै सर्वं वृत्तान्तं शशंस ।। ___ तच्छ्रुत्वा धनवत्युवाच-नैतद्वचसा मम विश्वासः । अज्ञानेनैषा वदति न तु यथार्थबुद्ध्या । स दूतोऽन्येन कार्येण प्रेषितः स्यात् । इयं मुग्धभावाद् मत्कार्यमेव ज्ञातवती' । तदा कमलिन्युवाच'दूतस्तिष्ठत्येव, तत्तन्मुखादेव सर्वं बुध्यस्व' । एवमुक्त्वा तद्भावं विज्ञाय सा दूतमाहूतवती । ततः सर्वं वृत्तं श्रुत्वा च धनवती नितरां मुमुदे । तथा सा स्वयं पत्रं लिखित्वा धनस्येदं त्वयाऽर्पणीयमित्युक्त्वा दूतस्याऽर्पयामास । स दूतश्च शीघ्रमेवाऽचलपुरं प्राप्य सभामध्यस्थं विक्रमधननृपमुपतस्थे । तदा नृपः शङ्कित उवाच'किं सिंहनृपस्य कुशलं कच्चित् । पुनः शीघ्रमेव त्वदागमनाद् मन्मनः शङ्कते' । ततो दूत उवाच-'सर्वं कुशलं', सिंहनृपः पुनरिह मां प्रेषयामास । तत्र हेतुश्च तव पुत्राय धनाय स्वपुत्र्या धनवत्या दानम् । यथाऽयं धनकुमारो रूपवान् तथा सा धनवत्यपीति द्वयोः
अष्टमं पर्व - प्रथमः सर्गः स्वर्ण-मण्योरिव योगोऽस्तु । पूर्वत एव प्रवृत्तो भवतोः स्नेहोऽनेन सम्बन्धेन दृढोऽस्तु' । ततो नृप आमित्युक्त्वा तं सत्कृत्य विससर्ज ।
स दूतश्च द्वारपालद्वारा निवेद्य धनसमीपं गतवान् । नत्वोपविश्य च धनवत्याऽर्पितं पत्रमार्पयत् । धनकुमारश्च कामाज्ञामिव तत्पत्रं वाचयामास-'कमलिनी शरहतुना यौवनेनेव विशेषशोभिता सूर्यकरग्रहं वाञ्छति' । ततो धनश्चिन्तयामास-'अस्याश्चाटूक्तिरद्भुता, इयं मय्यतिशयं स्नेहं सूचयति' । 'एवं विचार्य सोऽपि पत्रं लिखित्वा दूतस्य करे हारेण सह तदार्पयत् । इतश्च धनेन विसृष्टः शीघ्रमागत्य सिंहनृपं विक्रमधनस्तव प्रार्थनां स्वीकृतवानित्यवोचत् । धनवत्यै च हारं पत्रं च प्रदाय धनेन स्वहस्तेनाऽर्पिताविमावित्युवाच । धनवती च हारं पत्रं च गृहीत्वा पत्रं वाचयामास-'सूर्यः पद्मिनीकरपीडनात् यत् प्रमोदं याति स स्वाभाविक एव, न तत्र प्रार्थनाया: प्रयोजनम्' । तदेवं वाचयित्वा प्रमुदिता सरोमाञ्चा धनवती दध्यौ-'स मम भावमज्ञासीदित्यनेन श्लोकेन ज्ञायते । हारप्रदानेन च ममाऽऽलिङ्गनमेव स्वीकृतं तेन' । एवं विमृश्य हारं स्वकण्ठे निधाय पारितोषिकं दत्त्वा दूतं विसृष्टवती ।
राजा च शुभे दिने वृद्धसचिवैः सहितां तां परमद्धर्याऽचलपुरं प्रेषयामास । यान्तीं च तां माताऽऽशीर्वचनमुदाजहार । पत्याद्यनुरक्ता स्या इत्याद्यनुशिष्य च पुन: पुनरालिङ्गय साश्रुमुखी तां कथञ्चिद् व्यसृजत् । धनवत्यपि मातरं नत्वा शिबिकामारुह्य चलिता पौरैः साश्चर्यं दृश्यमानाऽचलपुरं प्राप्य बहिरुद्याने शिबिरं निवेश्य स्थितवती । शुभे दिने च समहोत्सवं तस्या विवाहोऽभूत् । धनश्च नवयुवा तया नवोढया नवजलधरो विद्युतेव शुशुभे । तया सह रत्या