________________
शाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
यावत् पुनः पुनरन्यत्राऽन्यत्र रोपितोऽसौ वृक्ष उत्तरोत्तरमुत्कृष्टोत्कृष्टतरं फलं क्रमशो दास्यति' । सा च तं स्वप्नं दृष्ट्वा प्रबुद्धा भर्त्तुराख्यत् ।
२
ततो नृपो निमित्तज्ञं तमपृच्छत् । नैमित्तिकञ्च- 'तव प्रकृष्ट: पुत्रो भावी 'ति प्रहृष्टः फलमुवाच । किन्तु नववारमन्यत्राऽन्यत्र रोपणस्य फलं न जानामि, तत्फलं केवल्येव जानातीत्युवाच । देवी च धारिणी तच्छ्रुत्वा मुदिता तत्प्रभृत्येव पृथ्वी रत्नमिव गर्भं दधार । पूर्ण समये च प्राची सूर्यमिव जगदानन्दकरं मनोहराकारं पुत्रं सुषुवे । नृपेण च समहोत्सवं तस्य जातस्य शुभे दिने धन इति नाम चक्रे । स धनो मातापित्रोरानन्दवर्धनो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानः सकलाः कला अधिगत्य कामक्रीडावनं यौवनं प्रपन्नवान् ।
इतश्च कुसुमपुरे सिंह इव पराक्रमी रणनिपुणः सिंहो नाम नृपो बभूव । तस्य च चन्द्रिकेव निर्मला विमला नाम पत्नी बभूव । तस्य नृपस्य तस्यां पन्यामनेकपुत्रजन्मानन्तरं धनवती नाम कन्याऽभूत् । सा च रतिरिव रूपवती क्रमशो वर्धमाना सर्वाः कलाः शिशिक्षे । अन्यदा च वसन्तर्तौ सा सखीभिः सहोद्यानमीक्षितुं ययौ । उद्याने च तपोवने सुरीव सा रेमे । विहरमाणा च साऽशोकतरुतले चित्रपट्टिकाहस्तं कञ्चिच्चित्रकरं ददर्श । तस्या: कमलिनी नाम सखी च तां चित्रपट्टिकां तस्माद् नराद् बलाद् गृहीतवती । तत्र च पुरुषाकृतिं ददर्श । तेन रूपेण विस्मिता सा सुरा - ऽसुर-नरेषु कस्येदमद्भुतं रूपं, यद् वा स्वकौशलं दर्शयितुं तव स्वमतिकल्पितमेवेदमिति तं पप्रच्छ ।
चित्रकारस्तां स्मित्वोवाच- 'अत्र चित्रकर्मणि मम मनागपि कौशलं नास्ति, यथा दृष्टमेवेदं लिखितम् । अयं युवाऽचलपुरेशस्य श्रीविक्रमधनस्य पुत्रो धनो नामाऽत्र मया लिखितः । यस्तु तं
अष्टमं पर्व प्रथमः सर्गः
प्रत्यक्षं दृष्ट्वा चित्रं पश्यति, स मां कूटलेखक इति निन्दति । त्वं तु तं न दृष्टवतीति चित्रं दृष्ट्वा विस्मयं यासि । तं दृष्ट्वा तु देव्योऽपि मोहं यान्ति । मया हि स्वनेत्रसुखार्थमेव सोऽत्राऽऽलेखि' । धन्वत्यपि तत्रस्था सर्वं शुश्राव चित्रं ददर्श च तथा तद् दृष्ट्वा कामार्त्ता जाता । कमलिन्युवाच- 'नेत्रसुखार्थं त्वयेदं साधु लिखितम् । त्वं विवेकी कुशलश्चाऽसि । एवमुक्त्वा साऽग्रे जगाम ।
धनवत्यपि चित्रहृतहृदया शून्यमनस्केव विकसितकमलमुखी पुनः पुनः पश्चात् पश्यन्ती पदे पदे स्खलन्ती सखीमनुसरन्ती गृहं ययौ । चित्रस्थधनरूपेणाऽऽकृष्टहृदया च सा विस्मृतक्षुत्तृष्णा क्वाऽपि रतिं न लेभे । निशायां निद्रां च न लेभे । धनरूपं स्मरन्ती, नानाविधा निरर्थिकाश्चेष्टाः कुर्वती, धन ध्यानपरायणा, विस्मृताखिलव्यापारा, त्यक्तस्नानादिनित्यकृत्या योगिनीष्टदेवतामिव धनमेव सदा दध्यौ । अन्यदा च कमलिनी तां पप्रच्छ- 'केन हेतुना पीड्यसे, यदेवमन्येव जाताऽसि ?' ततः कृतकोपाध तामूचे - 'किमन्येव पृच्छसि त्वं किं न जानासि त्वं हि मम द्वितीयं हृदयमिवाऽसि न केवलं सखी । त्वत्प्रश्नेन मे लज्जा जायते । तत: कमलिन्युवाच- 'तवोपालम्भ उचित:, तव मनोदुःखमहं जानामि । त्वं तच्चित्रं दृष्ट्वा धनं कामयसे । मया विनोदायाऽज्ञेव पृष्टाऽसि । तव तत्राऽनुरागं ज्ञात्वा सचिन्ताऽहं प्रागेव ज्ञानिनमपृच्छम्–'यद् मत्सख्या इष्टो वरो भवेदिति ?' स ज्ञानी च भावीत्याचख्यौ । तद् धैर्यमाप्नुहि शीघ्रमेव तव मनोरथ: सेत्स्यति' । तयेत्थमाश्वा सा धनवती धैर्यमाधाय दिव्यनेपथ्या पितरं वन्दितुं जगाम ।
धनवत्याः पिता च तां विसृज्य चिन्तयामास - 'ममेयं सुता विवाहयोग्या जाता । कोऽस्या अनुरूपो वरो भविष्यति' । एवं