________________
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रादिचरितप्रतिबद्धं
अष्टमं पर्व श्रीअरिष्टनेमिजिनचरितम्
__ प्रथमः सर्गः यस्य सुबाहु शाखायां, हरिर्हरिरिवाऽभवत् ।
तं श्रीनेमिजिनं वन्दे, समस्तजनतायिनम् ॥ १ ॥ अथाऽत्रैव जम्बूद्वीपे भरतक्षेत्रे पृथिवीशिरोमणिभूतेऽचलपुरे विक्रमी शत्रुभयङ्करः सुहृत्प्रियो याचककल्पतरु: कीर्तिमान् समृद्धश्च विक्रमधननामा नृपो बभूव । तस्य शीलवती स्थिरमति: सर्वाङ्ग सुन्दरी धारिणी नाम भार्याऽऽसीत् । सा च श्रीमती पत्युरत्यन्तवल्लभैकदा निशाशेषे कोकिलकूजितं मजरीमञ्जुलं फलभारावनतरसालतरुं स्वप्ने ददर्श । हस्ते कृत: तत्तरुश्चाऽभिरूपः कश्चित् पुरुषस्तामुवाच-'तवाऽङ्गणेऽसौ चूततरुरद्य रोप्यते, कालान्तरे च नववारान्