Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ ८८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च दवदन्ती तं चौरमपृच्छत्-'त्वं कोऽसि, कुत आयासीति निर्भयं वद' । ततः स चौर उवाच-तापसपुरे वसन्तसार्थवाहस्याऽहं किङ्करः पिङ्गलनामा । व्यसनिना वसन्तस्यैव गृहे खात्रेण सारं धनं चोरितम् । ततश्च तदादाय पलायितोऽहं मार्गे लुण्टाकैटुंण्टित: । अत्राऽऽगतश्च नृपमृतुपर्णं सेवमानोऽधर्मबुद्धिश्चन्द्रवत्या रत्नकरण्डिकाममुष्णाम् । तदादाय निर्गच्छंश्चाऽहं चौरेङ्गितजैर्लक्षितो नपाज्ञया बद्धश्च वधार्थ नीयमानस्त्वया दृष्टस्त्वां शरणं प्रपन्नो मोचितोऽस्मि । किं च तापसपुरात् त्वयि निर्गतायां वसन्तस्त्यक्तभोजनो यशोभद्रसूरिणाऽन्यजनेन च बोधित: सप्तरात्रमुपोष्याऽष्टमे दिने भुक्तवान् । अन्यदा च स वसन्तो महार्घमुपहारमादाय कूबरनृपं द्रष्टुं जगाम । कूबरनृपश्च तेनोपहारेण प्रसन्नस्तस्मै च्छत्रादिचिह्नसहितं तापसपुरराज्यं ददौ । तथा तं सामन्तं विधाय नृपः कूबरस्तस्य वसन्तश्रीशेखर इति नामान्तरं चकार । ततः स वसन्तः कूबरेण विसृष्टो वाद्यमानया भम्भया तापसपुरमागत्य राज्यमकरोत्' । ततो दवदन्ती तमुवाच-'त्वं प्रव्रज्यां गृहीत्वा प्राक्कृतं दुष्कृतं परिशाटय । ततः स पिङ्गलो मातुरादेशः प्रमाणमिति तत् स्वीचकार। तदानीमेव च तत्र भ्राम्यत् समागतं मुनिद्वयं भैम्या प्रत्यलाभि । तथाऽयं जनः पिङ्गलो योग्यो व्रतदानेनाऽनुग्राह्य इति प्रार्थितं च । ततस्तौ मुनी व्रतं याचमानं पिङ्गलं देवगृहे नीत्वा तत्कालमेव प्रावाजयताम् । अष्टमं पर्व - तृतीयः सर्गः प्रविष्टो जीवति न वेति न ज्ञायते' इत्यत्रौषीत् । पुष्पदन्ती च राज्ञी नृपमुखात् तच्छ्रुत्वाऽत्यन्तं रुरोद । ततो नृपेण नलान्वेषणाय बटुर्हरिमित्रो नियोजितो नलं दवदन्ती च सर्वत्राऽन्वेषयन्नचलपुरे राजपर्षदं प्राविशत् । तत्र चन्द्रयशसा पुष्पदन्त्यास्तज्जनस्य च कुशलं पृष्टो राज्ञः पुर उपविष्टः स बटुर्नल-दवदन्त्यो तादारभ्याऽखिलां कथां कथयामास । तच्छ्रुत्वा रुदत्यां चन्द्रयशसि सर्वो लोको रुरोद । बटुश्च सर्वं दुःखितं प्रेक्ष्य क्षुधा कृशोदरो दानशाला ययौ । तत्र भोजनार्थमुपविष्टो दानशालाधिकारिणी दवदन्तीमुपलक्ष्य हर्षपुलकिततनुः क्षुधं विस्मृत्य तस्याः पादौ ववन्दे । ततो 'देवि ! केयं तेऽवस्था ? दिष्ट्या जीवन्ती दृष्टाऽसि, सम्प्रति सर्वेभ्यः स्वस्ति' इत्युक्त्वोत्थाय तव दानशालायां दवदन्त्यस्तीति चन्द्रयशसमवर्धयत् । चन्द्रयशाश्च तच्छ्रुत्वा शीघ्रं गत्वा दानशालायां दवदन्तीमालिङ्गयोवाच-'वत्से ! धिग् मां, यया त्वं नोपलक्षिता । त्वयाऽऽत्मगोपनं कृत्वा किं वञ्चिताऽस्मि? यदि दैवाद् विपदागतैव, तर्हि मातृकुले का लज्जा ? हन्त, त्वया नलस्तेन वा त्वं त्यक्ताऽसि ? नूनं तेनैव सतीत्वं मुक्ताऽसि । दुःखं त्यज । मया नोपलक्षितेति विप्रियं सहस्व, तव भाले स रवितिलकः क्वे'त्येवं वदन्ती सा दवदन्त्या भालममार्जयत् । तेन च तत्कालं वैदा भालतिलको मेघमुक्तः सूर्य इव दिदीपे । ततश्च चन्द्रयशास्तां स्नपयित्वा सूक्ष्मे धवले च वस्त्रे परिधापयित्वा पाणिना गृहीत्वा नृपसमीपे उपविष्टवती । तदानीं च सूर्योऽस्तं जगाम । क्रमशश्च सूचिभेद्येन तमसा गगनं व्याप्तम् । किन्तु वैदर्भीभालतिलकतेजोभिस्तिरस्कृतं तमो नृपगृहे प्रवेशं नाऽऽप्नोत् । अथाऽन्यदा विदर्भेशो भीमरथः 'कूबरेण द्यूते पराजित्य हृतराज्यो नलो निर्वासितः । स च दवदन्तीं गृहीत्वा महाटवीं

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159