Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ ७४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पराक्रमेण चाऽप्रतिमं तं केऽपि जेतुं समर्था नाऽभूवन् । अन्यदा च नल: सामन्तादीन् पप्रच्छ-'किं पित्रोपाजितामेव भूमिं शासानि ततोऽधिकां वा ?' ततस्ते ऊचुः-'निषधस्त्र्यंशन्यूनं भरतार्ध पालयामास । त्वया तु सकलमेव भरतार्धं पाल्यते । किन्त्वितो योजनशतद्वयं तक्षशिलानगरी । तत्र कदम्बनामा नृपस्त्वदाज्ञां न पालयति । तत्प्रथमं दूतमादिश्य स प्रबोधनीयः । यदि न बुध्यते तदा निग्राह्यः' । ततो नलो धीरं दूतमनुशिष्य सैन्येन सह प्रेषयामास । दूतश्चाऽपि शीघ्रं गत्वा 'नलं सेवस्वे'ति कदम्बं व्याजहार । कदम्बश्च क्रुधा तं निर्भय॑ युद्धायाऽहं सज्जोऽस्मीत्युक्त्वा प्रतिन्यवर्त्तयत् । दूतश्च प्रत्यागत्य नलाय सर्वं वृत्तान्तं कथयामास । ततो नलः कदम्बं सर्वाभिसारेणाऽभिषेणयामास । सेनया च सर्वतस्तक्षशिलां वेष्टयामास । कदम्बोऽपि सन्नद्धः ससैन्यो नगराद् बहिनिर्ययौ । द्वयोः सैन्ययोश्च दारुणं युद्धमजनि । ततो नलः कदम्बमूचेगजादिभिर्हतैः किम् ? आवां द्वन्द्वयुद्धेनैव युध्यावहे' । ततो द्वावपि द्वन्द्वयुद्धेन युयुधाते । तत्र च नलेन कदम्बः पराजितः । ततः कदम्बः पलाय्य विरक्तो व्रतमादाय प्रतिमया तस्थौ । नलश्च कदम्बं तथाविधं दृष्ट्वा प्रशस्य तत्पुत्रं जयशक्ति राज्ये निवेशयामास । ततश्च नृपैनलस्य भरतार्धपतित्वाभिषेकश्चक्रे । कोशलां प्राप्तस्य च नलस्य सर्वे नृपा उपहारान् ददुः । तथा नलो दवदन्त्या सह रममाणश्चिरं महीं पालयामास । अथ कूबरः कुटिलप्रकृती राज्यलोभाद् नलस्य च्छिन्द्रं गवेषयामास । नलस्य च न्यायनिष्ठस्याऽपि द्युतासक्तिरभूत् । कूबरश्चाऽस्माद् महीं जयामीति बुद्ध्या सर्वदैव दूतेन तं रमयामास । अष्टमं पर्व - तृतीयः सर्गः एकदा च नलः कूबरं जेतुं न प्राभवत् । कूबरश्च नलाद् ग्रामादिकं सर्वं जितवान् । नलश्च लोकैर्वार्यमाणोऽपि द्यूताद् न विरराम । लोकानां हाहाकारं श्रुत्वा च तत्राऽऽगता दवदन्त्यवोचत्-'द्युतं मुञ्च, मनीषिणो वेश्यामिव द्यूतं न सेवन्ते । कूबराय स्वयं राज्यं देहि । किन्तु कूबरो हठाद् नलाच्छ्रीः प्राप्तेति प्रवादपात्रं मा भूः' । किन्तु नलो दवदन्तीं ददर्शाऽपि न, न वा तद्वचांस्यगणयत् । ततो दवदन्ती पत्या तिरस्कृता सचिवान् नलं निवारयितुमूचे । नलस्तेषामपि वचो न गणयामास । तथा गमितमहीको दवदन्त्या सहाऽन्तःपुरमप्यहारयत् । सर्वस्वं गमयित्वाऽङ्गेभ्यो भूषणान्यपि मुक्तवान् । ततः कूबरो नलमुवाच-'इह मा तिष्ठ, मन्महीं त्यज । यद् राज्यं तव पित्रा दत्तं तन्मया द्यूतेनोपार्जितम्' । ततो नलो 'दर्प मा कृथाः, पराक्रमिणां लक्ष्मीन दुर्लभे'त्युक्त्वोत्थायोत्तरीयवस्त्रमात्रमादाय ततः प्रस्थितवान् । तमनुसरन्ती दवदन्ती च कूबरोऽवोचत्'त्वं मा गाः, मया द्यूते जिताऽसि, मदन्तःपुरमलङ्करु' । ततः सचिवादयो दुराशयं कूबरमूचुः-'भैमी महासती, इमामन्तःपुरे मा नय, ज्येष्ठभ्रातृपत्नी मातृतुल्या, अन्यथा सतीत्वप्रभावात् त्वां भस्मसात् करिष्यति । प्रत्युत नलमनुयान्तीमेनामुत्साहय । नलं सारथिना सहैकं रथं सपाथेयं प्रयच्छ' । ततः कूबरो रथं दत्त्वा दवदन्तीं नलेन सह व्यसृज्यत् । नलश्च रथे निरीहोऽपि प्रधानपुरुषादिभिः प्राथितो दवदन्त्या सह तमारुह्य निर्ययौ । नागराश्च दवदन्तीमेकवस्त्रां दृष्ट्वा भाग्यं निन्दन्तो नितरां रुरुदुः । नलश्च नगरमध्येन गच्छन् हस्तपञ्चशतोन्नतं स्तम्भं दृष्ट्वा कौतुकात् तमुत्पाट्य पुनरारोपयामास । तद् दृष्ट्वा नागरा नलस्य

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159