Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ ४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रस्थित इषुवेगवतीं नदी मार्गे उत्तीर्याऽऽवां गिरिकूटे वेत्रवने गतौ। ततश्च टङ्कणदेशं प्राप्य द्वौ मेषौ क्रीत्वा तदारुह्याऽजपथमतीतवन्तौ । ततो रुद्रोऽवोचत्-'अतः परं न पादचारि गन्तव्यो देशः । अतो मेषौ हत्वाऽन्तर्लोमे बहिर्मासे भस्त्रे विदधावहे । तयोरन्तःप्रविष्टौ चाऽऽवां भारण्डपक्षिभिर्मासभ्रमादुन्नीतौ स्वर्णभूमिं प्राप्स्यावः' । ततोऽहमवोचं-'ययोः साहाय्येन दुर्गमां भूमि लङ्गितवन्तौ तौ बन्धुभूतावेतावजौ कथं हन्वः' । ततः क्रुद्धो रुद्रोऽब्रवीत्-'नैतौ तावकाविति त्वया न निषेद्धव्योऽहम्' । एवमुक्त्वा स आदौ निजं मेषमवधीत् । द्वितीयश्चाऽजो मां कातरदृष्ट्याऽपश्यत् । तं च त्वां त्रातुं नाऽहं समर्थः, तथाऽपि तव जैनो धर्मो महाफल: शरणमस्त्वि 'त्यहमवोचम् । तथा सोऽजो मया कथितं धर्म नम्रशिरसा प्रपद्य मद्दत्तं नमस्कारमन्त्रं चाऽ श्रौषीत् । तथा रुद्रेण हत: स देवत्वं प्राप । ततश्चाऽऽवां क्षुरमादाय तयोर्भस्त्रयोरन्तः प्रविष्टवन्तौ । भारण्डाभ्यामुन्नीतौ चाऽऽवाम् । किन्तु सर्वामिषेच्छया युध्यमानयोर्द्वयोरहं मार्गे सरस्यपतम् । ततः क्षुरेण भस्त्रां विदार्य सरस्तीत्वाऽग्रे गच्छन् वने महागिरिमारूढः कायोत्सर्गस्थं मुनि दृष्ट्वा तं वन्दितवान् । __स च धर्मलाभाशिषं दत्त्वोवाच-'चारुदत्त ! त्वमिह दुर्गभूमौ कथमागत: ? इह सुरादिकं विना नाऽन्यस्य गतिरस्ति । एषोऽहममितगतिर्यस्त्वया पुरा मोचितः । तदानीं हि ततोऽहमुत्पत्याऽष्टापदसमीपे शत्रुमग्रहीषम् । किन्तु स मम प्रियां त्यक्त्वा पलाय्याऽष्टापदं जगाम । अहं च पतन्तीं तां प्रियां नीत्वा स्वस्थानमगमम् । मत्पिता च राज्ये मां न्यस्य चारणमुन्योहिरण्यस्वर्णकुम्भयोः पार्श्वे व्रतं गृहीतवान् । मम च मनोरमायां पत्न्यां अष्टमं पर्व - द्वितीयः सर्गः सिंहयशा नाम पुत्रोऽभवत् । तथा द्वितीयो वराहग्रीवो नाम पुत्रोऽभवत् । तथा विजयसेनायां पल्यां गन्धर्वसेना नाम सर्वकलाकुशला रूपवती पुत्री चाऽजायत । ततोऽहं द्वयोः पुत्रयो राज्यं यौवराज्यं विद्याश्च दत्त्वा तयोरेव चारणमुन्योतमग्रहीषम् । अयं च लवणाब्धिमध्यस्थः कुम्भकण्ठको नाम द्वीपः, अयं पर्वतश्च कर्कोटको नाम । अत्रैव स्थितस्तपः करोमि' । एवमुक्त्वा कथमत्राऽऽगम इति तेन पृष्टश्चाऽहमपि सर्वमात्मवृत्तान्तमकथयम् । अत्राऽवसरे च तत्र विहायसा द्वौ विद्याधरौ तत्तुल्यरूपौ तत्रैत्य तं प्रणेमतुः । रूपसादृश्याच्च तौ मुनिसुताविति मया ज्ञातौ । मुनिश्च चारुदत्तं प्रणमतमिति तावुवाच । तौ च तात तातेति जल्पन्तौ मां प्रणम्योपविविशतुः । तदैव च तत्र दिवो देवविमानमवातरत् । देवश्च तद्विमानादवतीर्य मां नत्वा मुनिमप्यवन्दत । ताभ्यां विद्याधराभ्यां वन्दनविपर्ययं पृष्टश्च स देवोऽवदत्-'अयं चारुदत्तो मम धर्माचार्यः । काशीपुर्या द्वौ परिव्राजौ सुभद्रा-सुलसे भगिन्यौ सर्वशास्त्रनिपुणे बभूवतुः । ताभ्यां च बहवो वादिनः पराजिताः । अन्यदा च याज्ञवल्क्यो नाम परिव्राड् वादायाऽऽययो, तत्र च जितो जेतः शुश्रूषक: स्यादिति प्रतिज्ञा जाता । तथा तेन सुलसा जिता दासीकृता च । स याज्ञवल्क्यश्च तया तरुण्या सेव्यमान: कामवशं गतस्तया सह सुरसमीपे निवसन् चिक्रीड । तस्यां च तस्य सुतोऽजायत । लोकापवादभयाच्च तौ पिप्पलतले सुतं विहाय पलायितौ । सुभद्रा च तज्ज्ञात्वा तत्राऽऽगत्य स्वयं मुखे पतितं पिप्पलफलं भक्षयन्तं तं बालकं गृहीत्वा पिप्पलाद इति नाम कृत्वा

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159